सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

४० शिल्परत्ने [उत्तरभागः
कर्तुर्नाशमथोद्दिष्टिरूर्ध्वदृष्टिस्तथा विपत् ।
बन्धुनाशं पार्श्वदृष्टिर्महाहानिं करोतु वा ॥ ६० ॥
तस्मात् सर्वप्रयत्नेन समदृष्टिं धिया कुरु ।
नासिकापुटबाह्यं तु तारमष्टाङ्घ्रिदैर्घ्यतः ॥ ६१ ॥
तदर्धं मध्यविस्तारं तस्यार्धं मूलविस्तृतिः ।
ओष्ठमूलात्तु नासाग्रं मूलं तु अङ्गुलं भवेत् ।
द्वारतिर्यग्गतं व्यासं सार्धसप्तयवं स्मृतम् ।
द्वारतुङ्गं पञ्चयवं पुटं निष्पावबीजवत् ॥ ६३ ॥
तिलपुष्पवदाकारं नासिकाया विशेषतः ।
पुष्करोत्सेधमेकांशं षडंशं त्रियवं भवेत् ॥ ६४ ॥
पुटयोर्मध्यभित्तिस्तु पुष्करं त्विह कथ्यते ।
अध्यर्धयवमालम्ब्य नासाग्रं पुटसूत्रतः ॥ ६५ ॥
सार्धवेदयवं चोष्ठं दीर्घं तस्यार्धविस्तृतम् ।
ऊर्ध्वोष्ठस्योर्ध्वबिम्बं तु गोजीनाम्ना प्रशंसितम् ॥ ६६॥
यवमानं तु तां गोजीं कृत्वैवं नासिकादधः ।
सपादचतुरंशं तु तिर्यगास्यगुहायतम् ॥ ६७ ॥
उत्तरोष्ठायतं तस्य दीर्घतुल्यमुदाहृतम् ।
उत्तरोष्ठस्य मध्ये तु ततं सार्धयवत्रयम् ॥ ६८ ॥
आनुपूर्व्या कृशं तारमास्यसीमावसानकम् ।
यवमानं घनं वापि तस्यौष्ठस्य तथोपरि ॥ ६९ ॥
त्रियवावनता वापि तदोष्ठसदृशायतम् ।
अष्टादशयवं प्रोक्तमधरोष्ठायतं तथा ॥ ७० ॥

उत्तमदशतालम् ] पञ्चमोऽध्यायः । ४१
यवाधिकाङ्गुलं तस्य विस्तारं परिकल्पयेत् ।
अधरं पालिका सार्धयवमानमधोगतम् ॥ ७१ ॥
चिबुकादधरोच्चं तु सार्धषड्यवमुच्यते ।
किञ्चित्प्रहसिताकारं सुष्ठु युक्त्या समाचरेत् ॥ ७२ ॥
अधराच्चिबुकालम्बं सार्धपक्षाङ्गुलं भवेत् ।
चिबुकात् तु हनोः स्थानं सार्धं च यवमुच्यते ॥ ७३ ॥
सार्धवह्न्यङ्गुलं तस्य तारमायतवृत्तवत् ।
हनोः सन्धेः कर्णसन्धिर्य्यन्तरं तु दशाङ्गुलम् । ७४ ॥
हनोर्बाह्ये तदारभ्य पादोनद्विगुणाग्रकम् ।
कर्णवेशमिति ख्यातं तत्र कर्णं प्रकल्पयेत् ॥ ७५ ॥
नेत्रात् तु कर्णबन्धान्तविस्तारं सप्तमात्रकम् ।
कर्णस्य तु विशालं तु अष्टादश यवाः स्मृताः ॥ ७६ ॥
अक्षिसूत्रोर्ध्वतः कर्णतुङ्गं चाष्टादशा यवाः ।
तदधं चोर्ध्वबन्धं तु शेषं वृत्तमुदाहृतम् ॥ ७७ ॥
नेत्रसूत्रादधः कर्ग यवाः सप्तदश स्मृताः ।
सार्धवेदाङ्गुलं तस्मात् तस्य नालं प्रकल्पयेत् ॥ ७८ ॥
पूर्वभागे नतं व्योमभागं सार्धांशकं परम् ।
नालयोर्व्यासमाख्यातं पुनरर्धाङ्गुलं तयोः ॥ ७९ ॥
नालान्तरं त्रिपादांशं वेदांशं विस्तराद् घनम् ।
कर्णतुङ्गमशेषं तु यवैकोननवाङ्गुलम् ॥ ८० ॥
विफलीनवमर्धांशं द्विगुणं हि तदायतम् ।
उत्सेधं चार्धमात्रं स्यान्मूलादग्रं क्षयानुगम् ॥ ८१ ॥

प्रासाद-वास्तु एवं स्तम्भ-विधान (अध्याय ११-२०)

द्विभागं पिच्छपीदीर्घमध्यर्धांशं हि तत्ततम् ।
अक्षिसूत्रादधः कर्णचारमर्धाङ्गुलं भवेत् ॥ ८२ ॥
कर्णद्वारं ततो निम्नं सममेव तु वर्तुलम् ।
कर्णपालिघनं सार्धयवं नीत्रं चतुर्यवम् ॥ ८३ ॥
पृष्ठकर्णस्य विस्तारमध्यर्धांशमुदाहृतम् ।
केशान्तात् पृष्ठकर्णान्तस्यान्तरं त्वर्धमात्रकम् ॥ ८४ ॥
पृष्ठकर्णावसाने तु + + न्यर्धांशकं घनम् ।
तस्याधः पृष्ठकण्ठोच्चं युगांशं त्रियवाधिकम् ॥ ८५ ॥
कृकाटिकाधोग्रीवाग्र+ + + तन्नवांशकम् ।
पृष्ठग्रीवस्य मूलस्य तारं सार्धदशाङ्गुलम् ॥ ८६ ॥
मूलादग्रं क्रमात् क्षीणं ग्रीवं वृत्ताभमुच्यते ।
हिक्कासूत्रोपरि स्कन्धसन्धितुङ्गं युगाङ्गुलम् ॥ ८७ ॥
कर्णबन्धादधः सार्धषण्मात्रं स्कन्धसीमकम् ।
सप्ताङ्गुलघनं स्कन्धं हिक्कावधि क्रमात्क्षयम् ॥ ८८ ॥
पृष्ठग्रीवादधस्तात् तु ककुन्मानं दशाङ्गुलम् ।
तस्मादाकटिसन्ध्यन्तं वंशमृक्षाङ्गुलायतम् ॥ ८९ ॥
तदंशौ नतविस्तारौ सार्धषोडशकैर्यवैः ।
वंशमानादधस्तात् तु वंशमूलं गुणाङ्गुलम् ॥ ९० ॥
अपरे तुङ्गमेव स्याद् व्यासं तस्य न संशयः ।
सार्धमृक्षाङ्गुलं प्रोक्तं कक्षयोरन्तरं पुनः ॥ ९१ ॥
कक्षाधस्थांसफलकतुङ्गं सप्ताङ्गुलं भवेत् ।
कक्षोर्ध्वे बाहुसीमान्तं सप्ताङ्गुलमुदाहृतम् ॥ ९२ ॥
१. 'र्णो' क. ग. पाठः. २. 'श' ख. पाठः.

उत्तमदशतालम् ] पञ्चमोऽध्यायः । ४३
सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ।
नाभिसूत्रे तु विस्तारं सार्धविंशाङ्गुलं तथा ॥ ९३॥
कटिबन्धे तु विस्तारं त्रिषडङ्गुलमानतः ।
पादोनधर्मभागं तु स्फिग्बिम्बं प्रति विस्तृतः ॥ ९४ ॥
सुवृत्तौ तौ समाख्यातौ तयोर्मध्यं चतुर्यवम् ।
अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते ॥ ९५ ॥
कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् ।
सपादषोडशांशं तु हस्तसूत्रे तु विस्तृतः ॥ ९६ ॥
सपाद्द्वादशांशं तु मध्ये पार्श्वघनं भवेत् ।
श्रोणीमध्ये घनं पार्श्वे सप्तोत्तरदशाङ्गुलम् ॥ ९७ ॥
तत्र श्रोण्युदयं पूर्वैः सप्तमात्रं विधीयते ।
नाभिसूत्रादधश्चोध्र्वे चतुर्वह्नयङ्गुलं हि तत् ॥ ९८ ॥
श्रोण्यधस्तात् कटेरुच्चं सार्धभूताङ्गुलं भवेत् ।
तत्कटेश्च घनं विद्यात् सार्धभान्वङ्गुलं भवेत् ॥ ९९ ॥
तत्र श्रोण्युदयं कुर्यात् ++++++++ ।

  • तुङ्गं चोरुमूलात् तु नीचं सार्धयुगाङ्गुलम् ॥ १०० ॥
    कक्षाज्जठरनिम्नं तु सार्धद्वयङ्गुलमुच्यते ।
    सूत्रं सुवृत्तनाभेस्तु रेखे द्वे परिवेष्टिते ॥ १०१ ॥
    कर्णमूले तु तत्ततारं तुङ्गं चैव चतुर्यवम् ।
    हिक्कादश्चाक्षिसूत्रं तज्जानुसूत्रमुदाहृतम् ॥ १०२ ॥
    हिक्कामध्यात् तु कक्षान्तं कल्पयेत् त्रिभिरंशकैः ।
    कर्णमूले तु तां हिक्कासूत्रादधस्तात् तु कल्पयेत् ॥ १०३ ॥

४४ शिल्परत्ने [उत्तरभागः
हिक्कासूत्रोपरिष्टात् तु नीलकण्ठं प्रकल्पयेत् ।
हृदयात् स्तनपीठोच्चं द्व्यङ्गुलं समुदाहृतम् ॥ १०४ ॥
सप्तादशयवं ख्यातं स्तनमण्डलविस्तृतम् ।
तन्मध्ये चूचुकोच्चं तु व्यासं चैव यवद्वयम् ॥ १०५ ॥
नाभेस्तु स्तनविस्तारं व्योमांशं द्वियवं पुनः ।
तन्नाभिर्दक्षिणावतं मूले तारं यवद्वयम् ॥ १०६ ॥
तन्नाभ्यवटमध्यस्थसूत्रं ++++++ ।
नामेरधः स( दाते ? पादे)न श्रोण्युच्चं पञ्चमात्रकम् ॥ १०७ ॥
तदर्धं तत्कटिश्रोणिगाढं तु त्र्यङ्गुलं भवेत् ।
तस्मादामेढ्रमूलं तु मेढ्रमूलं युगाङ्गुलम् ॥ १०८ ॥
सपादपञ्चमात्रं तु लिङ्गदीर्घमुदाहृतम् ।
लिङ्गमूलविशालं तु सप्तादशयवं स्मृतम् ॥ १०९ ॥
लिङ्गायामत्रिभागैकमग्रखण्डञ्चायतं स्मृतम् ।
यदग्रखण्डिमूलं तु यवमानं बृहत्तरम् ॥ ११० ॥
रक्तोत्पलस्य मुकुलसन्निभं तु तदग्रकम् ।
मुष्कायामं विशालं च सार्धवेदाङ्गुलं भवेत् ॥ १११ ॥
घनं सार्धगुणांशं तु तन्मूलोर्ध्वोरुबन्धनम् ।
मेढ्रमूलस्य पीठस्य व्यासं सप्तार्धमात्रकम् ॥ ११२ ॥
मेढ्रमूलस्य पीठान्तमूरुमूलस्य मांसलम् ।
जानुमण्डलविस्तारं सपादचतुरङ्गुलम् ॥ ११३ ॥
सार्धं तु द्व्यङ्गुलं प्रोक्तं जानुमण्डलनीव्रकम् ।
सार्धं तु द्व्यङ्गुलं प्रोक्तं पृष्ठजानुनतं विदुः ॥ ११४ ॥

मध्यमदशतालम् ] षष्ठोऽध्यायः । ४५
मध्ये तु पार्श्वयोः शेषं यथासौन्दर्यमाचरेत् ॥ ११४½ ॥
इति शिल्परत्ने उत्तरभागे उत्तमदशताललक्षणं नाम
पञ्चमोऽध्यायः ॥
अथ षष्ठोऽध्यायः ।
अथ मध्यमं दशतालम् ।
मध्यमं दशतालेन श्रीमानमिह वक्ष्यते ।
उष्णीषोदयमेकांशं केशान्तं तु गुणाङ्गुलम् ॥ १ ॥
केशान्तादक्षिसूत्रान्तं सत्रिपादयुगांशकम् ।
अक्षिसूत्रात् पुटान्तं तु सार्धवेदांशमिष्यते ॥ २ ॥
नासापुटात् तु हन्वन्तं सत्रिपादगुणांशकम् ।
तस्याधः कम्बुमानं तु चतुर्भागमुदाहृतम् ॥ ३ ॥
हिक्कादिहृदयान्तं च हृदयान्नाभिसिमकम् ।
नाभ्यादियोनिपर्यन्तं त्रयोदशांशकं पृथक् ॥ ४ ॥
ऊरुदीर्घं तु षड्विंशदंशं जानु युगांशकम् ।
ऊरुदीर्घसमं जङ्घा तलोच्चं तु युगांशकम् ॥ ५ ॥
विस्तारः शिवशैलकैर्मुखगलेऽष्टचा द्विकक्षान्तरे
वक्षोजे नवभिः पृथक् च तदधो विश्वैः शिवैर्मध्यतः।
कृत्या श्रोणितले कटौ रवियुगेनोर्वोः सजानुद्वये
जङ्घायुङ्नलकेऽर्कशैलरसवेदैश्चाङ्गुलैः सम्मितैः ॥ ६ ॥
उत्कृत्याधिभुजं प्रकोर्परमनु द्वाभ्यां प्रकोष्ठे तले
धृत्या सप्तभिराततिर्युगशराङ्केष्वर्णवैरङ्गुलैः ।
अङ्

४६ शिल्परत्ने [उत्तरभागः
तर्जन्यग्रिमयोर्युगैर्युगयवन्यूनैः पराङ्घ्र्यङ्गुळि-
ष्वायामोऽङ्गुळकैर्नृपाष्टसदलाद्यद्यङ्गसङ्ख्यैर्यवैः ।
व्यासः सार्धयुगाङ्गुळैः स्तनसमुत्सेधस्त्रिभिश्चूचुके
व्यासोऽङ्क्षे श्रुतिभिर्यवैर्ऋतुमितैर्नाभौ दृशाक्षोन्नतिः ॥ ८ ॥
योनिपीठविशालं तु सप्ताङ्गुळमुदाहृतम् ।
योनितारं चतुर्भागं विस्तारसदशोन्नतम् ॥ ९ ॥
कार्यं वटस्य पत्राभं योनिं कुर्यान्मनोहरम् ।
स्तनान्तरं यवाष्टांशमन्तरं तु स्तनाक्षयोः ॥ १० ॥
अत्यष्ट्यंशं बाहुबाह्यमेकत्रिंशाङ्गुळं ततम् ।
शेषमुत्तमतालोक्तमार्गेणैव समाचरेत् ॥ ११ ॥
एवमेव प्रकर्तव्यं युक्त्या पुंमानकं त्वपि ॥ ११½॥
इति शिल्परत्ने उत्तरभा

अधमदशतालम् ] सप्तमोऽध्यायः । ४७
नाभेस्तु मेढ्रपर्यन्तं सार्धभान्वङ्गुलं पृथक् ।
मेढ्राज्जान्वग्रपर्यन्तं पञ्चविंशाङ्गुलं स्मृतम् ॥ ३ ॥
वेदाङ्गुलं तु जानुः स्याज्जङ्घा चोरुसमा स्मृता ।
वेदांशं चरणोत्सेधमेवं स्यादङ्गतुङ्गता ॥ ४ ॥
उष्णीषात् पृष्ठकेशान्तं सार्धभान्वङ्गुलं स्मृतम् ।
उष्णीषात् पार्श्वकेशान्तमष्टमात्रमुदाहृतम् ॥ ५ ॥
उष्णीषात् पूर्वकेशान्तं पञ्चमात्रमिति स्मृतम् ।
केशान्ताद्धनुपर्यन्तं त्रिभिर्भागैर्विभाजिते ॥ ६ ॥
केशान्तादक्षिसूत्रान्तं तस्मान्नासापुटान्तकम् ।
तस्मात् तद्धनुपर्यन्तं प्रत्येकं चैकभागतः ॥ ७ ॥
यवान्वितद्विमात्रं तु नेत्रयोरन्तरं तथ. ।
तत्समं नयनायामं भूतमात्रं भ्रुवायतम् ॥ ८ ॥
भ्रूमध्यात्तूर्ध्वकेशान्तं सप्तादशयवं स्मृतम् ।
यवं भ्रुवोर्मध्यतारं कृशाग्रौ क्रमात् ततः ॥ ९ ॥
षड्यवं नेत्रविस्तारमूर्ध्वचर्म यवार्धकम् ।
अधोचर्म च तत्तुल्यं कंबीरं तु पदं भवेत् । १० ॥
नेत्रायामत्रिभागैकं कृष्णमण्डलविस्तृतम् ।
यवमानं तु तन्मध्ये ज्योतिर्मण्डलकं स्मृतम् ॥ ११ ॥
अधोच्चर्मस्थितिं नेत्रसूत्रे कुर्याद् विशेषतः ।
तस्य केशान्तयोर्मध्ये भ्रूस्थितिर्बालचन्द्रवत् ॥ १२ ॥
१. 'सीमान्तं' ग. पाठः.

५८ शिल्परत्ने [उत्तरभागः
कर्णस्थानं च कर्णं च उत्तमंदशतालवत् ।
घ्राणमूलस्य विस्तारं यवमात्रमुदाहृतम् ॥ १३ ॥
नासिकाग्रविशालं तु व्योममात्रमिति स्मृतम् ।
अधरोष्ठस्य चायामं पक्षमात्रमुदाहृतम् ॥ १४ ॥
तदधं तस्य विस्तारं चिबुकं तु यवद्वयम् ।
विस्तारं तत्समं विद्यान्निम्नमर्धयवं स्मृतम् ॥ १५ ॥
ततोऽधोभागनिष्क्रान्तं यवोनव्योममात्रकम् ।
ग्रीवामूलविशालं तु वस्वङ्गुलमुदाहृतम् ॥ १६ ॥
ग्रीवाग्रस्य तु विस्तारं सार्धसप्ताङ्गुलं तथा ।
वक्षःस्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम् ॥ १७ ॥
पञ्चविंशतिमात्रं तु बाहुदीर्घमुदाहृतम् ।
आयामं तु प्रकोष्ठस्य एकोनविंशदङ्गुलम् ॥ १८ ॥
तस्मान्मध्याङ्गुलाग्रान्तं सार्धद्वादशमात्रकम् ।
तदर्धं तु तलायामं शेषं मध्याङ्गुलायतम् ॥ १९ ॥
अङ्गुष्ठस्य तु तद्दीर्घमष्टाविंशद्यवं स्मृतम् ।
सार्धवेदाङ्गुलं प्रोक्तमनामिकाङ्गुलायतिः ॥ २० ॥
तथैव तर्जनीदीर्घं कनिष्ठस्य युगाङ्गुलम् ।
धर्माष्टवसुषड्भूतयवा ज्येष्ठादिविस्तृतिः ॥ २१ ॥
तत्तदष्टमभागोनं तेषामग्रविशालकम् ।
अग्रव्यासे तु भूतांशे त्रिभागं नखविस्तृतम् ॥ २२ ॥
विस्तरेण सपादं तु नखायामं प्रकीर्तितम् ।
यवत्रयं तलघनं तदष्टांशोनमग्रतः ॥ २३ ॥

अधमं दशतालम् ।] सप्तमोऽध्यायः । ४९
तलायामसमं ज्ञेयं तलस्यैव विशालकम् ।
मणिबन्धस्य विस्तारं यवाधिकगुणाङ्गुलम् ॥ २४ ॥
प्रकोष्ठमूलविस्तारं वस्वङ्गुलमुदाहृतम् ।
अर्धभूतांशकं बाह्वोरग्रदेशविशालकम् ॥ २५ ॥
सार्धषण्मात्रकं ज्ञेयं बाहुमध्यस्य विस्तृतम् ।
बाहुमूलविशालं तु वस्वङ्गुलमुदाहृतम् ॥ २६ ॥
बाहुपर्वान्तविस्तारमष्टत्रिंशाङ्गुलं भवेत् ।
हिक्कासूत्रात्तु कक्षान्तं वस्वङ्गुलमुदाहृतम् ॥ २७ ॥
द्वाविंशदङ्गुलं प्रोक्तं कक्षयोरन्तरं पुनः ।
हृदयावधि विस्तारं भवेदष्टादशाङ्गुलम् ॥ २८ ॥
उदरस्य तु विस्तारं सप्तादशाङ्गुलं भवेत् ।
श्रोणिप्रदेशविस्तारमष्टादशांशमुच्यते ॥ २९ ॥
षड्यवं नाभिविस्तारं निम्नमर्धयवं भवेत् ।
स्तनमण्डलविस्तारमर्धमात्रमुदाहृतम् ॥ ३० ॥
चूचुकं च यवं प्रोक्तमुत्सेधं तत्समं भवेत् ।
द्वयोः स्तनाक्षयोरन्तः सार्धद्वादशमात्रकम् ॥ ३१ ॥
मुष्कायामं तु वेदांशं विस्तारं चैव तत्समम् ।
लिङ्गं पञ्चाङ्गुलायाममौत्पलं मुकुलं तथा ॥ ३२ ॥
कटिप्रदेशे विस्तारं षड्यवाष्टादशाङ्गुलम् ।
ऊरुमूलविशालं तु सार्धद्वादशमात्रकम् ॥ ३३ ॥
ऊर्वग्रस्य तु विस्तारं सार्धरन्ध्राङ्गुलं स्मृतम् ।
जानुमध्यविशालं तु सार्धवस्वङ्गुलं भवेत् ॥ ३४ ॥
१. 'धै' क. ग. पाठः.

५० शिल्परत्ने [उत्तरभागः
जङ्घामूलविशालं तु सार्धषण्मात्रमुच्यते ।
नलकायास्तु विस्तारं सार्धवेदाङ्गुलं भवेत् ॥ ३५ ॥
अङ्घ्रेस्तलस्य विस्तारं चतुरङ्गुलमिष्यते ।
तलमध्यविशालं तु भूताङ्गुलमुदाहृतम् ॥ ३६ ॥
पादाङ्गुष्ठसमायामं चतुर्मात्रमुदाहृतम् ।
अनामिकादीर्घमानं कुर्यात् त्रिंशद्यवैस्तथा ॥ ३७ ॥
मध्याङ्गुलं च तत्तुल्यं वेदांशं तदनामिका ।
कनिष्ठिकाया दीर्घं तु सार्धवह्न्यङ्गुलं भवेत् ॥ ३८ ॥
सप्ताष्टनवधर्माख्यैर्यवैर्विश्वाभिधैः क्रमात् ।
कनिष्ठाद्यङ्गुलीनां तु विस्तारं प्रविधीयते ॥ ३९ ॥
अग्रमूलसमं प्रोक्तं तत्तत्तारं त्रिभिरंशयेत् ।
द्विभागं नखविस्तारमायामं तत्समं तथा ॥ ४० ॥
आयामवर्तुलाकारमर्धचन्द्राकृतिर्भवेत् ।
तलाग्रेऽङ्गुष्ठमूले तु द्विमात्रं तु घनं स्मृतम् ॥ ४१ ॥
कनिष्ठायां नवयवं तलस्य घनमुच्यते ।
कक्षयोरन्तरं पृष्ठे चतुर्विंशतिमात्रकम् ॥ ४२ ॥
अत्रानुक्तं तु यत् सर्वमुक्तं दशतालवत् ॥ ४२½ ॥
इति शिल्परत्ने उत्तरभागेऽधमदशतालं नाम
सप्तमोऽध्यायः ॥
अष्टमोऽध्यायः ।
अथोत्तमं नवतालम् ।
उष्णीषं त्वेकभागेन केशान्तं तद्गुणाङ्गुलम् ।
केशान्तादक्षिसूत्रान्तं वेदमात्रमिति स्मृतम् ॥ १ ॥

उत्तमं नवतालम्।] अष्टमोऽध्यायः । ५१
तस्मात् पुटान्तं वेदांशं पुटाद्धन्वन्तकं तथा ।
कण्ठेमानं तु वेदांशं भान्वंशं हृदयावधि ॥ २ ॥
ततस्तु नाभिसूत्रान्तं तथा द्वादशमात्रकम् ।
नाभ्यादिमेढ्रमूलान्तं भानुमात्रं विधीयते ॥ ३ ॥
ऊरुदीर्घं चतुर्विंशदंशं जानु युगांशकम् ।
जङ्घादीर्घं तूरुतुल्यं वेदांशं चरणोदयम् ॥ ४ ॥
छत्राकारं भवेच्छीर्षं शिखादेशं समुद्गतम् ।
शिखायाः पूर्वभागे तु किञ्चन्निम्नं भवेत् तथा ॥ ५ ॥
शिखायाः पार्श्वयोर्निम्नं कलामात्रं विहाय तत् ।
शिखायाः पश्चिमे भागे प्रोन्नतं जायते मनाक् ॥ ६ ॥
ततोऽधस्ताद् भवेद् गर्तः प्रणालसदृशाकृतिः ।
एकाङ्गुलस्तु विस्तारो दैर्घ्यं स्यादङ्गुलद्वयम् ॥ ७ ॥
कर्णाग्रसन्धौ संलग्नं कर्णपृष्ठेऽङ्गुलान्ततः ।
ततो द्व्यङ्गुलातीतस्त्र्यङ्गुलोऽथ कथोद्भवः ॥ ८ ॥
एकैकाङ्गुलविस्तारः शिरोगर्तस्य पार्श्वयोः ।
इत्येष पश्चिमे भागे कथितः केशसम्भवः ॥ ९ ॥
केशाः कृष्णाः पिशङ्गा वा जटिलाः कुटिलाः कचित् ।
विरच्यन्ते यथाशोभं तत्तद्रूपानुसारतः ॥ १० ॥
अष्टादशाङ्गुलं पूर्वं पश्चिमार्धं तथैव च ।
भवेतां कर्णयोरूर्ध्वभागौ पूर्वापरौ यमौ ॥ ११ ॥
सीमन्ताद् गर्तमध्यान्तं भवेदष्टादशाङ्गुलम् ।
वामदक्षिणयोर्वेष्टाद् भवेत्तालैस्त्रिभिर्मितम् ॥ १२ ॥
१. ‘र्णो’ क. ख. पाठ.

५२ शिल्परत्ने [उत्तरभागः
एवं भागद्वयेऽप्युक्तो विस्तारो मस्तकाश्रयः ।
षट्त्रिंशदङ्गुलो ज्ञेयः परिणाहो विचक्षणैः ॥ १३ ॥
भ्रूपृष्ठात् केशपर्यन्तं ललाटं त्र्यङ्गुलं भवेत् ।
भ्रूयुग्ममध्यादारभ्य ततोऽध्यर्धकलामितम् ॥ १४ ॥
भ्रुवोः प्रान्तं तदेव स्यात् कलाद्वितयसम्मितम् ।
आरोपितधनुःप्रख्या भ्रुवोर्लेखा विरच्यते ॥ १५ ॥
मात्रार्धकृतविस्तारात् क्रमशः परिहीयते ।
प्रान्ते श्लक्ष्णा च तीक्ष्णा च सा दैर्घ्ये त्र्यङ्गुला भवेत् ॥
त्रियवं रोमदैर्घ्यं तु भ्रुवोर्मध्ये विधीयते ।
द्वियवं तु भवेदादौ प्रान्ते स्याद् यवमात्रकम् ॥ १७ ॥
वितर्कसहने कोपे विस्मये मध्यकुञ्चिता ।
जुगुप्सिते सूक्ष्मदृष्टौ भ्रूमूलं कुञ्चितं भवेत् ॥ १८ ॥
केशान्तरेखाविन्यासे द्वितीयेन्दुकलाकृतिः ।
प्रान्तादुत्प्रेक्षनामानौ प्रदेशौ परिकीर्तितौ ॥ १९ ॥
उत्क्षेपाभ्यां समौ कुर्याद् भ्रुवोः प्रान्तौ विचक्षणः ।
एवं ललाटमानं तु चतुष्कलमुदाहृतम् ॥ २० ॥
उत्क्षेपः प्रान्तदेशे स्याद् ऋजुरूपाल(ता ? का)वली ।
कलामात्रे च सा ज्ञेया स्थापनीसूत्रकावधिः ॥ २१ ॥
ततस्तिर्यग् भवेद् रेखा मात्राद्वितयसम्मिता ।
निर्गच्छति ततः कूर्चं तद्रेखामात्रया मिता ॥ २२ ॥
कूर्चरेखा भ्रुवोः प्रान्तं मध्यं स्यादङ्गुलद्वयम् ।
स एव शङ्खो विख्यातः प्रदेशविधिकोविदैः ॥ २३ ॥

उत्तमं नवतालम्।] अष्टमोऽध्यायः। ५३
पिप्पल्याः कूर्चरेखाया भवेदन्तरमङ्गुलम् ।
एवं ललाटविन्यासः कथितः सोमभूभुजा ॥ २४ ॥
अर्धाङ्गुलं भ्रुवोर्मध्यान्नसो मूलं निरूपितम् ।
किञ्चिल्ललाटतो निम्नं तस्याः पार्श्वे निरूपिते ॥ २५ ॥
समन्तान्नेत्रयोर्गर्तावक्षिकूटौ प्रकल्पितौ ।
अर्धाङ्गुलप्रमाणौ तौ (तेन ? नेत्र)वर्त्मबहिःस्थितौ ॥ २६ ॥
अर्धाङ्गुलप्रमाणेन नेत्रे वर्त्मद्वयं भवेत् ।
निमीलनादूर्ध्ववर्त्म भवेदङ्गुलसम्मितम् ॥ २७ ॥
त्रियवं पक्ष्मणोर्द्धैर्घ्यं (सान्द्रमापतिमाशुभाः ?) ।
अर्धाङ्गुलमिते स्यातां नेत्रमूले निरूपिते ॥ २८ ॥
द्व्यङ्गुलं नेत्रयोर्द्धैर्घ्यं विस्तारं स्यात्तदर्धतः ।
पञ्चपञ्चयवौ कार्यौ शुक्लभागौ विचक्षणैः ॥ २९ ॥
तन्मध्ये मेचकं कुर्यान्मण्डलं वर्तुलाकृति ।
तच्च पञ्चयवं प्रोक्तं तन्मध्ये दृष्टिरिष्यते ॥ ३० ॥
वर्तुला यवमात्रा च पुत्रिकाप्रतिबन्धिनी ।
रक्तता प्रान्तयोः शस्ता तीक्ष्णतापाङ्गयोः शुभा ॥ ३१ ॥
मध्योन्नतं नेत्रगोलं (कर्त्रा कार्यं प्रयत्नतः ।
आकारो नेत्रयोः कार्यो नीलोत्पलदलोपमः ॥ ३२ ॥
अपाङ्गयोरधः कार्यौ) कपोलौ द्व्यङ्गुलोन्नतौ ।
कर्णपिप्पलिदेशान्तौ तिर्यक्सूत्रेण मापितौ ॥ ३३ ॥
अपाङ्गपिप्पलीमध्यं पञ्चाङ्गुलमुदाहृतम् ।
तदेव च समं तिर्यङ्मापितं चतुरङ्गुलम् ॥ ३४ ॥

५४ शिल्पस्ले [उत्तरभागः
ऊर्ध्वाधोबन्ध्ययोर्मध्यं कर्णावस्त्र्यङ्गुलं भवेत् ।
उपर्येकाङ्गुलं यस्मात् कर्णावर्तस्य मण्डलम् ॥ ३५ ॥
कर्णावर्तबहिर्लेखा वृत्तायतस्वरूपिणी ।
षडङ्गुलायता रम्या सा रेखा परिकीर्तिता ॥ ३६ ॥
अन्तःस्था तु भवेद् रेखा तदाकाराभिरुच्यते ।
रेखाद्वितीयमध्यस्य विस्तारः परिकथ्यते ॥ ३७ ॥
आदौ चतुर्यवः प्रोक्तो मध्ये च द्वियवो भवेत् ।
प्रान्ते तु यवमात्रं स्यात् क्रमेणैव निरूपितम् ॥ ३८ ॥
ऊर्ध्वाधोबन्ध्ययोर्मध्यमङ्गुलत्रयमीरितम् ।
तन्मध्ये पिप्पलीमात्रं पिप्पलीफलसन्निभा ॥ ३९ ॥
तस्य मूले भवेद् रन्ध्रं शब्दश्रवणकारणम् ।
चतुर्यवप्रमाणं तत् पिप्पल्या विनिगूहितम् ॥ ४० ॥
अधस्तात् पिप्पलीभागाल्लकाराख्या भवेद् बहिः ।
सा स्यादर्धाङ्गुलायामा यवत्रितयविस्तृता ॥ ४१ ॥
ऊर्ध्वाङ्गत्यात् स्पृशेद् रेखां कर्णाभ्यन्तरवर्तिनीम् ।
रेखायाश्च बिलं मध्यं पिञ्छुषीति निगद्यते ॥ ४२ ॥
बिले बाह्यप्रदेशः स्यादुत्पात इति संज्ञया ।
अधोभागेन पिञ्छुषा लकारो यत्र सङ्गतः ॥ ४३ ॥
बहिस्तत्रोन्नता दृश्या सा चूलीति निगद्यते ।
चतुर्यवायता ज्ञेया यवद्वितयविस्तृता ॥ ४४ ॥
लकारमध्ये यद् दृश्यं श्रोत्रमध्यस्य पार्श्वगम् ।
यत्कर्णकुहरं प्रोक्तमर्धाङ्गुलमितं शुभम् ॥ ४५ ॥
१. 'र्ध्वांशत्वा' ख. पाठः.

उत्तमं नवतालम् ।] अष्टमोऽध्यायः । ५५
ऊर्ध्वकर्णस्य विस्तारः स यवद्वयगोलकः ।
मध्ये च द्व्यङ्गुलो ज्ञेयस्तले मात्रा च षड्यवा ॥ ४६ ॥
ततोऽधः पालिका कार्या चतुरङ्गुलमायता ।
स्यादर्धाङ्गुलविस्तारा मूले मात्रामिता शुभा ॥ ४७ ॥
मुनिबालादिकर्णानामविद्धानां विशेषतः ।
प्रमाणमङ्गुलं प्रोक्तं कर्णपाल्या विचक्षणैः ॥ ४८ ॥
कनीनिमध्यमुद्दिष्टं नासामूलं तदङ्गुलम् ।
अध्यर्धमङ्गुलं मध्यं नासाग्रं द्व्यङ्गुलं भवेत् ॥ ४९ ॥
घोणाग्रमङ्गुलं तच्च तदर्धेन पुटो भवेत् ।
अङ्गुलद्वयविस्तारं नासायामिति कीर्तितम् ॥ ५० ॥
घोणाबिलं समुद्दिष्टं कनिष्ठाङ्गुलिमात्रकम् ।
श्रमे श्वासे स हासे च कोपे कामे ततोऽधिकम् ॥ ५१ ॥
तिलपुष्पसमाकारा किञ्चिदग्रे समुन्नता ।
ततोऽर्धमात्रं विस्तारं श्मश्रुदेशो निगद्यते ॥ ५२ ॥
तस्य द्विगोलकायामो नासायाः पुरतः स्थितः ।
तस्य मध्ये भवेद् गोजिः प्रणालाकारधारिणी ॥ ५३ ॥
अर्धाङ्गुलं भवेद् दैर्घ्यं विस्तारं त्रियवं भवेत् ।
उत्तरोष्ठो भवेत्तस्य अधस्थाद् भागदैर्घ्यकः ॥ ५४ ॥
यवपञ्चकविस्तारः क्रमशः परिहीयते ।
श्मश्रूत्तरोष्ठयोर्मध्ये रेखा किञ्चित् समुज्ज्वला ॥ ५५ ॥
उन्नता यवमात्रा स्याद् दैर्घ्यादोष्ठप्रमाणिनी ।
अधरोष्ठो भवेत्तस्या अधस्ताद् भागदैर्घ्यकः ॥ ५६ ॥

५६ शिल्परत्ने [उत्तरभागः
ओष्ठयोरुभयोः प्रान्तसंयोगौ सृक्किणी मतौ ।
नेत्रज्योतिःसमे कार्ये विकाररहिताकृतौ ॥ ५७ ॥
विकारे वर्धते सृक्कं तथा सङ्कोचमेति च ।
हसनोदनविष्कासे भीते तर्के च रोदने ॥ ५८ ॥
वर्धते सृक्वणोर्द्वन्द्वमेकाङ्गुलमथायतौ ।
चुम्बने तौ + + तद्वदाम्रादिफलचूषणे ॥ ५९ ॥
संकुचेत् सृक्वणोऽप्यर्थमेकैकाङ्गुलहानितः ।
गोजिकाध१रयोर्मध्यं त्वाधाने चतुरङ्गुलम् ॥ ६० ॥
पार्श्वद्वयं क्रमाद्धीनं त्रिद्वयेकाङ्गुलमानतः ।
दन्ता द्वादश दृश्याः स्युः पङ्क्तिद्वयसमाश्रिताः ॥ ६१ ॥
ऊर्ध्वाः पञ्चयवा दृश्यास्तलस्थास्त्रियवास्तथा ।
राजदन्तौ तु मध्यस्थावूर्ध्वपङ्क्तिसमाश्रितौ ॥ ६२ ॥
तयोः

उत्तमं नवतालम् ।] अष्टमोऽध्यायः । ५७
तस्माद् बहिश्चलास्थि स्यात् कर्णमूलेन सङ्गतम् ।
क्रमशॊ हीयते तत् तु यावत् स्याद्धनुमण्डलन् ॥ ६७ ॥
सार्धाङ्गुलं भवेदूर्ध्वं तिर्यक् स्याच्चतुरङ्गुलम् ।
अधरोष्ठतलोदेशे चिबुकं समुदाहृतम् ॥ ६८ ॥
कुञ्जकूर्चं भवेत्तस्मिन्निम्नं मात्राप्रमाणकन् ।
हनुपृष्ठे भवेत् कूर्चं प्रबलास्थिक्रमेण तु ॥ ६९ ॥
यवमात्रं प्रकुर्वीत कूर्चं प्रथमसम्भवम् ।
व्यष्टवत्सरदेहस्य पुरुषस्य विचक्षणः ॥ ७० ॥
प्रकुर्वीत ततश्चोर्ध्वमधिकं यवमानतः ।
अष्टाङ्गुलं भवेद् ग्रीवा विस्तारेण निरूपिता ॥ ७१ ॥
द्विगोलार्धं च दैर्घ्येण परिगाहे द्वितालिका ।
ग्रीवामध्यप्रदेशे तु तदधस्तु ततोऽधिका ॥ ७२ ॥
हिक्काया हृदयं तालस्तालश्च स्तनचूचुके ।
कक्षमूले तथा तालस्तालः कक्षधरो भवेत् ॥ ७३ ॥
कन्धरात् स्कन्धसन्धिः स्याद्धिक्कायाश्चतुरङ्गुलः ।
कक्षमूलात् कक्षधरो भवेदष्टाङ्गुलायतः ॥ ७४ ॥
हिक्कायाः पार्श्वयोर्लग्ने जत्रुणी भुजमूर्धगे ।
एकादशाङ्गुले प्रोक्ते किञ्चिदुन्नतविग्रहे ॥ ७५ ॥
हिक्कायाः कक्षमूलाच्च स्तनचूचुकलाधृतः ।
मध्ये वक्षःस्थलं प्रोक्तं तालमात्रं समन्ततः ॥ ७६ ॥
द्वयोर्चूचुकयोर्मध्यं तालमात्रमुदाहृतम् ।
कुचचूचुकयोर्वृत्तं मेचकं द्व्यङ्गुलं भवेत् ॥ ७७ ॥
८

५८ | शिल्परत्नं | [उत्तरभागः

चूचुको(न्म ? म)ण्डलस्यान्तर्यवमात्रो निगद्यते ।
उत्सेधं त्रिसृतं तद्वत् प्रमाणेन निगद्यते ॥ ७८ ॥
स्त्रीणां तु द्वियवः कार्यश्चिबुकश्चित्रकारकैः ।
प्रोक्तः स्तनपरीणाहस्तासामष्टादशाङ्गुलः ॥ ७९ ॥
बृहती नाम तत् ख्यातं कक्षमूलस्तनान्तरम् ।
षडङ्गुलं च मानेन सूत्रितं सूत्रकोविदैः ॥ ८० ॥
स्तनद्वितयमध्यस्थः किञ्चिन्निम्नः कलामितः ।
प्रदेशो वार्ध इत्युक्तः शिल्पशास्त्रविशारदैः ॥ ८१ ॥
कन्धरात् स्कन्धसन्धेस्तु बाहुमूर्ध्नाद् द्विभागतः ।
पूर्वापरे कक्षमूले तालेनैकेन सम्मिते ॥ ८२ ॥
अभ्यन्तरे तथैव स्यात् ताल एको निरूपितः ।
कक्षमूलपरीणाहस्तदैव स्याद् द्वितालकः ॥ ८३ ॥
बाहुशीर्षश्च बाह्वोश्च सन्धिरथानं निरूपितम् ।
कक्षनूला + + द्धन्द्वितिर्यक्सूत्रप्रमाणतः ॥ ८४ ॥
वार्धदेशाद् भवेन्नाभिस्तालेनैकेन मापिता ।
नाभिरङ्गुलविस्तारा वर्तुलार्धाङ्गुल[पगा ॥ ८५ ॥
वार्धस्य पार्श्वयोस्तिर्यग् विस्तारस्तु द्विभागिकः ।
चतुर्यवसमोपेतस्त्वेवं सप्तदशाङ्गुलः ॥ ८६ ॥
वार्धदेशे परीणाह एकपञ्चाशदङ्गुलः ।
ततोऽ(धान्म ? धोम)ध्यभागस्तु प्रोक्तो मनुमिताङ्गुलः
[॥ ८७ ॥
मध्यदेशपरीणाहो द्विचत्वारिंशदङ्गुलः ।
नाभिदेशस्य विस्तारो भवेच्चन्द्रकलाङ्गुलः ॥ ८८ ॥

उत्तमं नवतालम् ।] अष्टमोऽध्यायः । ५९
नाभिस्थाने परीणाहो भवेत् तालचतुष्टयम् ।
श्रोणिदेशः स विख्यातः कायस्थानपरीक्षकैः ॥ ८९ ॥
पक्वाशायाख्यके गात्रे विस्तारोऽष्टादशाङ्गुलः ।
पक्वाशयपरीणाहश्चतुष्पञ्चाशदङ्गुलः ॥ ९० ॥
स प्रदेशः कटीर्नाम काञ्चीनानपि धारकः ।
स्त्रीणां चेदधिकः कार्यो भागेनैकेन कर्तृभिः ॥ ९१ ॥
वस्तिमस्तकसूत्रस्य सप्तपञ्चाशदङ्गुलः ।
परिणाहो विधातव्यस्तन्त्रिभागे वितस्तिभिः ॥ ९२ ॥
वस्तिसूत्रस्य विस्तारो विंशत्यङ्गुलसम्मितः ।
तस्य प्रोक्तः परीणाहः षट्यङ्गुलमितो बुधैः ॥ ९३ ॥
जठ(रे ? रो) वक्षसा युक्तः कार्यो गोमुखतन्निभः ।
स्त्रीणां मध्यं कृशं कार्यं भागेन त्रिंशदङ्गुलैः ॥ ९४ ॥
भागेनैकेन तस्याधो लिङ्गसूत्रं प्रकल्पयेत् ।
पञ्चाङ्गुलं लिङ्गदैर्घ्यं मुष्कयोश्चतुरङ्गुलम् ॥ ९५॥
लिङ्गसूत्रस्य विस्तारः कलामात्रो निगद्यते ।
पार्श्वयोरुभयोस्तस्य मुष्कमूलाद् द्विमात्रकम् ॥ ९६ ॥
एवं वली स्यान्मुष्कस्य मूलं स्याच्चतुरङ्गुलम् ।
मूले प्रान्ते प्रकर्तव्ये रेखे वङ्क्षणमाश्रिते ॥ ९७ ॥
विनिर्गते कलामात्रं तयोर्मध्यं द्विभागिकम् ।
रेखयोः प्रान्तयोर्वस्तेर्विस्तारः स्यात् षडङ्गुलः ॥ ९८ ॥
भाग एको लिङ्गदैर्घ्यं मगिरेखाङ्गुलं ततः ।
षडङ्गुलः परीणाहो मगिवूनि + को मनाक् ॥ ९९ ॥