शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 62, कुल 280 में से
संदर्भ में पढ़ेंउत्तमदशतालम् ] पञ्चमोऽध्यायः । ४३
सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ।
नाभिसूत्रे तु विस्तारं सार्धविंशाङ्गुलं तथा ॥ ९३॥
कटिबन्धे तु विस्तारं त्रिषडङ्गुलमानतः ।
पादोनधर्मभागं तु स्फिग्बिम्बं प्रति विस्तृतः ॥ ९४ ॥
सुवृत्तौ तौ समाख्यातौ तयोर्मध्यं चतुर्यवम् ।
अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते ॥ ९५ ॥
कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् ।
सपादषोडशांशं तु हस्तसूत्रे तु विस्तृतः ॥ ९६ ॥
सपाद्द्वादशांशं तु मध्ये पार्श्वघनं भवेत् ।
श्रोणीमध्ये घनं पार्श्वे सप्तोत्तरदशाङ्गुलम् ॥ ९७ ॥
तत्र श्रोण्युदयं पूर्वैः सप्तमात्रं विधीयते ।
नाभिसूत्रादधश्चोध्र्वे चतुर्वह्नयङ्गुलं हि तत् ॥ ९८ ॥
श्रोण्यधस्तात् कटेरुच्चं सार्धभूताङ्गुलं भवेत् ।
तत्कटेश्च घनं विद्यात् सार्धभान्वङ्गुलं भवेत् ॥ ९९ ॥
तत्र श्रोण्युदयं कुर्यात् ++++++++ ।
- तुङ्गं चोरुमूलात् तु नीचं सार्धयुगाङ्गुलम् ॥ १०० ॥
कक्षाज्जठरनिम्नं तु सार्धद्वयङ्गुलमुच्यते ।
सूत्रं सुवृत्तनाभेस्तु रेखे द्वे परिवेष्टिते ॥ १०१ ॥
कर्णमूले तु तत्ततारं तुङ्गं चैव चतुर्यवम् ।
हिक्कादश्चाक्षिसूत्रं तज्जानुसूत्रमुदाहृतम् ॥ १०२ ॥
हिक्कामध्यात् तु कक्षान्तं कल्पयेत् त्रिभिरंशकैः ।
कर्णमूले तु तां हिक्कासूत्रादधस्तात् तु कल्पयेत् ॥ १०३ ॥