सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 74, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 74

उत्तमं नवतालम् ।] अष्टमोऽध्यायः । ५५
ऊर्ध्वकर्णस्य विस्तारः स यवद्वयगोलकः ।
मध्ये च द्व्यङ्गुलो ज्ञेयस्तले मात्रा च षड्यवा ॥ ४६ ॥
ततोऽधः पालिका कार्या चतुरङ्गुलमायता ।
स्यादर्धाङ्गुलविस्तारा मूले मात्रामिता शुभा ॥ ४७ ॥
मुनिबालादिकर्णानामविद्धानां विशेषतः ।
प्रमाणमङ्गुलं प्रोक्तं कर्णपाल्या विचक्षणैः ॥ ४८ ॥
कनीनिमध्यमुद्दिष्टं नासामूलं तदङ्गुलम् ।
अध्यर्धमङ्गुलं मध्यं नासाग्रं द्व्यङ्गुलं भवेत् ॥ ४९ ॥
घोणाग्रमङ्गुलं तच्च तदर्धेन पुटो भवेत् ।
अङ्गुलद्वयविस्तारं नासायामिति कीर्तितम् ॥ ५० ॥
घोणाबिलं समुद्दिष्टं कनिष्ठाङ्गुलिमात्रकम् ।
श्रमे श्वासे स हासे च कोपे कामे ततोऽधिकम् ॥ ५१ ॥
तिलपुष्पसमाकारा किञ्चिदग्रे समुन्नता ।
ततोऽर्धमात्रं विस्तारं श्मश्रुदेशो निगद्यते ॥ ५२ ॥
तस्य द्विगोलकायामो नासायाः पुरतः स्थितः ।
तस्य मध्ये भवेद् गोजिः प्रणालाकारधारिणी ॥ ५३ ॥
अर्धाङ्गुलं भवेद् दैर्घ्यं विस्तारं त्रियवं भवेत् ।
उत्तरोष्ठो भवेत्तस्य अधस्थाद् भागदैर्घ्यकः ॥ ५४ ॥
यवपञ्चकविस्तारः क्रमशः परिहीयते ।
श्मश्रूत्तरोष्ठयोर्मध्ये रेखा किञ्चित् समुज्ज्वला ॥ ५५ ॥
उन्नता यवमात्रा स्याद् दैर्घ्यादोष्ठप्रमाणिनी ।
अधरोष्ठो भवेत्तस्या अधस्ताद् भागदैर्घ्यकः ॥ ५६ ॥