शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 73, कुल 280 में से
संदर्भ में पढ़ें५४ शिल्पस्ले [उत्तरभागः
ऊर्ध्वाधोबन्ध्ययोर्मध्यं कर्णावस्त्र्यङ्गुलं भवेत् ।
उपर्येकाङ्गुलं यस्मात् कर्णावर्तस्य मण्डलम् ॥ ३५ ॥
कर्णावर्तबहिर्लेखा वृत्तायतस्वरूपिणी ।
षडङ्गुलायता रम्या सा रेखा परिकीर्तिता ॥ ३६ ॥
अन्तःस्था तु भवेद् रेखा तदाकाराभिरुच्यते ।
रेखाद्वितीयमध्यस्य विस्तारः परिकथ्यते ॥ ३७ ॥
आदौ चतुर्यवः प्रोक्तो मध्ये च द्वियवो भवेत् ।
प्रान्ते तु यवमात्रं स्यात् क्रमेणैव निरूपितम् ॥ ३८ ॥
ऊर्ध्वाधोबन्ध्ययोर्मध्यमङ्गुलत्रयमीरितम् ।
तन्मध्ये पिप्पलीमात्रं पिप्पलीफलसन्निभा ॥ ३९ ॥
तस्य मूले भवेद् रन्ध्रं शब्दश्रवणकारणम् ।
चतुर्यवप्रमाणं तत् पिप्पल्या विनिगूहितम् ॥ ४० ॥
अधस्तात् पिप्पलीभागाल्लकाराख्या भवेद् बहिः ।
सा स्यादर्धाङ्गुलायामा यवत्रितयविस्तृता ॥ ४१ ॥
ऊर्ध्वाङ्गत्यात् स्पृशेद् रेखां कर्णाभ्यन्तरवर्तिनीम् ।
रेखायाश्च बिलं मध्यं पिञ्छुषीति निगद्यते ॥ ४२ ॥
बिले बाह्यप्रदेशः स्यादुत्पात इति संज्ञया ।
अधोभागेन पिञ्छुषा लकारो यत्र सङ्गतः ॥ ४३ ॥
बहिस्तत्रोन्नता दृश्या सा चूलीति निगद्यते ।
चतुर्यवायता ज्ञेया यवद्वितयविस्तृता ॥ ४४ ॥
लकारमध्ये यद् दृश्यं श्रोत्रमध्यस्य पार्श्वगम् ।
यत्कर्णकुहरं प्रोक्तमर्धाङ्गुलमितं शुभम् ॥ ४५ ॥
१. 'र्ध्वांशत्वा' ख. पाठः.