शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 70, कुल 280 में से
संदर्भ में पढ़ेंउत्तमं नवतालम्।] अष्टमोऽध्यायः । ५१
तस्मात् पुटान्तं वेदांशं पुटाद्धन्वन्तकं तथा ।
कण्ठेमानं तु वेदांशं भान्वंशं हृदयावधि ॥ २ ॥
ततस्तु नाभिसूत्रान्तं तथा द्वादशमात्रकम् ।
नाभ्यादिमेढ्रमूलान्तं भानुमात्रं विधीयते ॥ ३ ॥
ऊरुदीर्घं चतुर्विंशदंशं जानु युगांशकम् ।
जङ्घादीर्घं तूरुतुल्यं वेदांशं चरणोदयम् ॥ ४ ॥
छत्राकारं भवेच्छीर्षं शिखादेशं समुद्गतम् ।
शिखायाः पूर्वभागे तु किञ्चन्निम्नं भवेत् तथा ॥ ५ ॥
शिखायाः पार्श्वयोर्निम्नं कलामात्रं विहाय तत् ।
शिखायाः पश्चिमे भागे प्रोन्नतं जायते मनाक् ॥ ६ ॥
ततोऽधस्ताद् भवेद् गर्तः प्रणालसदृशाकृतिः ।
एकाङ्गुलस्तु विस्तारो दैर्घ्यं स्यादङ्गुलद्वयम् ॥ ७ ॥
कर्णाग्रसन्धौ संलग्नं कर्णपृष्ठेऽङ्गुलान्ततः ।
ततो द्व्यङ्गुलातीतस्त्र्यङ्गुलोऽथ कथोद्भवः ॥ ८ ॥
एकैकाङ्गुलविस्तारः शिरोगर्तस्य पार्श्वयोः ।
इत्येष पश्चिमे भागे कथितः केशसम्भवः ॥ ९ ॥
केशाः कृष्णाः पिशङ्गा वा जटिलाः कुटिलाः कचित् ।
विरच्यन्ते यथाशोभं तत्तद्रूपानुसारतः ॥ १० ॥
अष्टादशाङ्गुलं पूर्वं पश्चिमार्धं तथैव च ।
भवेतां कर्णयोरूर्ध्वभागौ पूर्वापरौ यमौ ॥ ११ ॥
सीमन्ताद् गर्तमध्यान्तं भवेदष्टादशाङ्गुलम् ।
वामदक्षिणयोर्वेष्टाद् भवेत्तालैस्त्रिभिर्मितम् ॥ १२ ॥
१. ‘र्णो’ क. ख. पाठ.