शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 69, कुल 280 में से
संदर्भ में पढ़ें५० शिल्परत्ने [उत्तरभागः
जङ्घामूलविशालं तु सार्धषण्मात्रमुच्यते ।
नलकायास्तु विस्तारं सार्धवेदाङ्गुलं भवेत् ॥ ३५ ॥
अङ्घ्रेस्तलस्य विस्तारं चतुरङ्गुलमिष्यते ।
तलमध्यविशालं तु भूताङ्गुलमुदाहृतम् ॥ ३६ ॥
पादाङ्गुष्ठसमायामं चतुर्मात्रमुदाहृतम् ।
अनामिकादीर्घमानं कुर्यात् त्रिंशद्यवैस्तथा ॥ ३७ ॥
मध्याङ्गुलं च तत्तुल्यं वेदांशं तदनामिका ।
कनिष्ठिकाया दीर्घं तु सार्धवह्न्यङ्गुलं भवेत् ॥ ३८ ॥
सप्ताष्टनवधर्माख्यैर्यवैर्विश्वाभिधैः क्रमात् ।
कनिष्ठाद्यङ्गुलीनां तु विस्तारं प्रविधीयते ॥ ३९ ॥
अग्रमूलसमं प्रोक्तं तत्तत्तारं त्रिभिरंशयेत् ।
द्विभागं नखविस्तारमायामं तत्समं तथा ॥ ४० ॥
आयामवर्तुलाकारमर्धचन्द्राकृतिर्भवेत् ।
तलाग्रेऽङ्गुष्ठमूले तु द्विमात्रं तु घनं स्मृतम् ॥ ४१ ॥
कनिष्ठायां नवयवं तलस्य घनमुच्यते ।
कक्षयोरन्तरं पृष्ठे चतुर्विंशतिमात्रकम् ॥ ४२ ॥
अत्रानुक्तं तु यत् सर्वमुक्तं दशतालवत् ॥ ४२½ ॥
इति शिल्परत्ने उत्तरभागेऽधमदशतालं नाम
सप्तमोऽध्यायः ॥
अष्टमोऽध्यायः ।
अथोत्तमं नवतालम् ।
उष्णीषं त्वेकभागेन केशान्तं तद्गुणाङ्गुलम् ।
केशान्तादक्षिसूत्रान्तं वेदमात्रमिति स्मृतम् ॥ १ ॥