शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 78, कुल 280 में से
संदर्भ में पढ़ेंउत्तमं नवतालम् ।] अष्टमोऽध्यायः । ५९
नाभिस्थाने परीणाहो भवेत् तालचतुष्टयम् ।
श्रोणिदेशः स विख्यातः कायस्थानपरीक्षकैः ॥ ८९ ॥
पक्वाशायाख्यके गात्रे विस्तारोऽष्टादशाङ्गुलः ।
पक्वाशयपरीणाहश्चतुष्पञ्चाशदङ्गुलः ॥ ९० ॥
स प्रदेशः कटीर्नाम काञ्चीनानपि धारकः ।
स्त्रीणां चेदधिकः कार्यो भागेनैकेन कर्तृभिः ॥ ९१ ॥
वस्तिमस्तकसूत्रस्य सप्तपञ्चाशदङ्गुलः ।
परिणाहो विधातव्यस्तन्त्रिभागे वितस्तिभिः ॥ ९२ ॥
वस्तिसूत्रस्य विस्तारो विंशत्यङ्गुलसम्मितः ।
तस्य प्रोक्तः परीणाहः षट्यङ्गुलमितो बुधैः ॥ ९३ ॥
जठ(रे ? रो) वक्षसा युक्तः कार्यो गोमुखतन्निभः ।
स्त्रीणां मध्यं कृशं कार्यं भागेन त्रिंशदङ्गुलैः ॥ ९४ ॥
भागेनैकेन तस्याधो लिङ्गसूत्रं प्रकल्पयेत् ।
पञ्चाङ्गुलं लिङ्गदैर्घ्यं मुष्कयोश्चतुरङ्गुलम् ॥ ९५॥
लिङ्गसूत्रस्य विस्तारः कलामात्रो निगद्यते ।
पार्श्वयोरुभयोस्तस्य मुष्कमूलाद् द्विमात्रकम् ॥ ९६ ॥
एवं वली स्यान्मुष्कस्य मूलं स्याच्चतुरङ्गुलम् ।
मूले प्रान्ते प्रकर्तव्ये रेखे वङ्क्षणमाश्रिते ॥ ९७ ॥
विनिर्गते कलामात्रं तयोर्मध्यं द्विभागिकम् ।
रेखयोः प्रान्तयोर्वस्तेर्विस्तारः स्यात् षडङ्गुलः ॥ ९८ ॥
भाग एको लिङ्गदैर्घ्यं मगिरेखाङ्गुलं ततः ।
षडङ्गुलः परीणाहो मगिवूनि + को मनाक् ॥ ९९ ॥