समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २६२
घातितैः पातितैर्नष्टैर्जायते गृहिणो ध्रुवम् ।
व्याधिदारिद्र्यदुःखार्तिर्निधनत्वं च जायते ॥ १३५ ॥
उच्चच्छायं छिद्रगर्भ भ्रमितं वमितं मुखे ।
हीनमध्यं नष्टसूत्रं³ शल्यविद्धं शिरोगुरु ॥ १३६ ॥
भ्रष्टाळिन्दकशोभं च विषमस्थं तुलार्ततलं ।
अन्योन्यद्रव्यविद्धं च कूँपदप्रविभाजितम् ॥ १३७ ॥
हीनभित्त्युत्तमाङ्गं च विनष्टं स्तम्भभित्तिकम् ।
भिन्नशालं त्यक्तकण्ठं निष्कन्दं मानवर्जितम् ॥ १३८ ॥
विकृतं च गृहं भर्तुरनिष्टफलदायकम् ।
तस्माद् दोषानिमांस्त्यक्त्वा गृहं कुर्याच्छुभावहम् ॥ १३९ ॥
एवंविधं दोषकरं गृहं स्याद् भर्तुश्च कर्तुश्च यतस्तदेते ।
ज्ञेयाः सदा शिल्पिवरप्रमत्तैस्त्याज्याश्च दोषाः शुभकीर्त्तिकांमैः
॥ १४० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ॥
अथ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः ।
त्रिदशानां नृपाणां च वर्णिनां च विशेषतः ।
उत्पत्तिप्रसृतिं ब्रूमः प्रासादा यस्य ये मताः ॥ १ ॥
पुरा ब्रह्मासृजत् पञ्च विमानान्यासुरद्विषाम् ।
वियद्वर्त्मविचारीणि श्रीमन्ति च महान्ति च ॥ २ ॥
तानि वैराजकैलासे पुष्पकं मणिकाभिधम् ।
हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥ ३ ॥
१ द. ˚र्त्ति तु व्यंचत्वं । २ ख. ग. द. नि । ३ क. त्रं स्वश । ४ द. त्यं । ५ क. सि ।
६ क. तु । ७ ख. ग. चतुष्षहप्रतिभा; द. जतुः पद प्रतिभा˚ । ८ द. स्यु । ९ द. य । १० द.
प्रकीर्त्तितामेः । ११ द. अपलक्षणो नामाष्टचत्वारिंशोध्यायः ॥छ॥ १२ द. र्त्ति । १३ द. सी ।
२७० समराङ्गणसूत्रधारे
आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः ।
सुरेशिने च विश्वेशो विमा³नानि यथाक्रमम् ॥ ४ ॥
बहून्यन्यानि चैवं स सूर्यादीनाम⁴कल्पय⁵त् ।
विशेषाँय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥ ५ ॥
प्रासादांश्च तदाकाराञ् शिलापक्केष्ट⁶कादिभिः ।
नगराणामलङ्कारहेतवे समकल्पय⁷त् ॥ ६ ॥
वैराजं चतुरश्रं स्याद् वृत्तं कैलाससंज्ञितम् ।
चतुरश्रोयताकारं ⁸विमानं पुष्पकं भवेत् ॥ ७ ॥
वृत्तायतं च मणिकमष्टाश्रिं स्यात् त्रिविष्टप⁹म् ।
तद्भेदाञ्¹⁰ श्रीमतोन्यांश्च विविधाँनै¹²सृजत् प्रभुः ॥ ८ ॥
ये यत्रे¹³ विहिता¹⁴ भेदाः पूर्वं कमलयोनिना ।
स¹⁵र्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥ ९ ॥
रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः ।
भद्रः श्रीकूट उष्णीषः शालौक्षो § गजयूथपः ॥ १० ॥
नन्द्यावर्तोंऽवतंसाह्वः स्वस्तिकः क्षितिं¹⁶भूषणः ।
भूजयो विजयो † नन्दी श्री¹⁷नेरुः प्रमदाप्रियः ॥ ११ ॥
व्यामिश्रो हस्तिजातीयः कुबेरो वसुधाधरः ।
सर्वभद्रो विमानां¹⁸ख्यो मुक्तकोणश्च नामतः ॥ १२ ॥
चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः ।
वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि²⁰ ॥ १३ ॥
वलयो दुन्दुभिः प्रान्तः पद्म²¹: कान्तश्चतुर्मुखः ।
मौण्डूकारख्यो²²ऽथ कू²³र्मश्च तालीगृह उल्लूपिकः ॥ १४ ॥
१ द. मू.। २ द. मा.। ३ द. मानसानि। ४ द. ये। ५ क. षाकेर्यय, ख. ग. षायग्रथो।
६ ख. ग. घ दारुभिः, द. पक्वेषु दारुभिः। ७ द. येन्। ८ द. रा। ९ द. स्ति। १० द. न्यां तु।
११ द. ॰धासोम्। १२ द. त्वः। १३ द. त्वा। १४ द. र्व्वन्ता॰। १५ क. क्षोऽथ म।
१६ द. वि। १७ क. ख. ग. या। १८ ग. मत्तः प्र। १९ क. ख. ग. नाङ्को; द. नांको। २० द.
पति। २१ द. द्य। २२ क. मान्दूका; ख. ग. द. मन्दुका;। २३ द. क।
§ शालाक्ष्व इति सञ्जणे पाठः। † सञ्जणे तु नन्द इति पश्यते।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। २७१
इति वृत्ताः समासेन प्रासादा दश कीर्तिताः ।
चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि¹ नामतः ॥ १५ ॥
भवो विशालः साम्मुख्यः प्रभवः शिबिरागृहः ।
मुखशालो द्विशालश्च गृहराजोऽमलो विभुः ॥ १६ ॥
एवमेते समुद्दिष्टाश्चतुरश्रायता दश ।
अथ वृत्तायतान् ब्रूमः प्रासादानभिधानतः ॥ १७ ॥
आमोदो रै²तिकस्तुङ्गश्चारुभूतिर्निषेवकः ।
सदा(?)निषेधः सिंहारख्यः सुप्रभो लोचनोत्सवः ॥ १८ ॥
एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश ।
अष्टाश्रीणां ३ च नामानि कथयामि समासतः ॥ १९ ॥
वज्रको नन्दनः शङ्खुर्मेखलो वामनो लयः ।
महापद्मश्च हंसश्च व्योमचन्द्रोदयाविति ॥ २० ॥
अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया ।
भवन्त्येवं चतुष्षष्टिर्लक्ष्मैषामधुनोच्यते ॥ २१ ॥
संस्थानमानविन्यासैर्भद्रस्तम्भादिसङ्ख्ययौ⁵ ।
एषां विशेषा वक्ष्यन्ते पृथक् पृथगनुक्रमात् ॥ २२ ॥
ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः ।
कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥ २३ ॥
ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः ।
भवन्ति सर्वप्रासादा⁶ ज्येष्ठमध्याधमक्रमात् ॥ २४ ॥
चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।
कुर्यात् स्वारोहकाश्वासं पीठमंशसमुद्धृतम् ॥ २५ ॥
तथा तस्योपरि स्थाप्या हंसपृष्ठी⁹ समन्ततः ।
हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥ २६ ॥
१ द. म्नि । २ ख. ग. री; द. रीतिकस्तुंगश्वावभूति° । ३ द. अष्टाश्रीणां तु ना° । ४ क. तु ।
५ द. योः । ६ द. या । ७ द. द । ८ द. मा । ९ क. ष्ठा ।
२७२ समराङ्गणसूत्रधारे ।
ततः पीठस्य तस्यान्तर्द्विभागाय(या)मविस्तृतिः ।
प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥ २७ ॥
सार्धभागेन संछा स्यान् सार्धभागस्तु योऽपरैः(१) ।
छाद्य(द्य)त्रयं सकण्ठं स्यात् तेन सामलसारकम् ॥ २८ ॥
द्वारं भागोच्छ्रितं तस्य कार्य भागार्धविस्तृतम्।
संप्राग्रीवः स कर्तव्यश्चतुर्दशघरावृतः ॥ २९ ॥
ससौधाविन्दकश्चारुरुर्ध्वच्छाद्योपकर्षवान् ।
क्रियतेऽत्र यदा स्तम्भो(म्भैः)द्वाविंशत्या समावृतः ॥ ३० ॥
संपाग्रीवपरिष्कारो भागिकालिन्दशोभितः ।
मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥ ३१ ॥
रुचकः ।
: कैर्णप्राग्रीवकैश्चित्रैः संप्राग्रीवश्च यो वृतः ।
द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥ ३२ ॥
कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा ।
तदानीं चित्रकूटारूयः प्रासादः सोऽभिधीयते ॥ ३३ ॥
चित्रकूटः ।
अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा।
प्राग्रीवकविहीनंश्च स भवेज्जालरूपकः ॥ ३४ ॥
सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः ।
सिंहपञ्जरः ।
कर्णप्राग्रीवकौ द्वौद्वावस्यैव भवतो यदा ॥ ३५ ॥
अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः ।
भद्रः ।
स्याच्चित्रकूट प्राग्रीवैश्चतुर्भिर्दिक्षुचतुष्टये ॥ ३६ ॥
१ द. तस्यां तद्विभागायविस्ततिः । २ ख. ग. स्त। ३ ख. वृत्तसमु । ४ ख. स्तम्भा
स्यान्; द. घा । ५ क. षु । ६ द. छतयं । ७ द. सं। ८ ख. ग. र्ध्व । ९ ख. ग. द. द्या।
१० ख. ग. न । ११ म्भं क. । १२ द. सा। १३ द. शुचकप्रासादो पूर्वकीर्तितः । १४ क. कै;
द. कर्ता । १५ द. क । १६ द. सा। १७ द. दः । १८ ख. ग. प । १९ दः वहीनस्य । २० द. क्षु ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७३
बहिरन्तश्चतुर्द्वारः श्रीकूट^१ इति नामतः ।
श्रीकूटः ।
षड्दारुकसमायुक्तै^२ प्राग्द्वारस्त्वयमेवं^३ चेत् ॥ ३७ ॥
प्रासादस्तम्भगर्भः^४ स्यात् तदोष्णीषोऽभिधीयते ।
उष्णीषः ।
चतुरंशकविस्तीर्णं षडंशविहितायति ॥ ३८ ॥
पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् ।
मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥ ३९ ॥
विधेयं गर्भभवनमलिन्दकपरिष्कृतम् ।
कार्या तस्याग्रतः सीमा भागद्वितयमायता ॥ ४० ॥
भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता ।
तदग्रतोऽपरा सीमा कार्या भागान् षडायता^८ ॥ ४१ ॥
तिर्यक्स्था भांगविस्तीर्णा^९ प्रवेशद्वयशोभिता^१० ।
एष^११ शालागृहः( ?) स्तम्भैर्द्वाविंशत्या समावृतैः^१२ ॥ ४२ ॥
प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः ।
शालास्यः ।
पञ्चभागोन्मिते^१३ न्यासे क्षेत्रभागाष्टकायते ॥ ४३ ॥
पीठं कुर्यादुभैयतः^१४ ससोपानं शिलाचितम् ।
मध्यादपरभागेऽस्य देवागारं निवेशयेत् ॥ ४४ ॥
वि(द्वि)भागायामविस्तारं चतुरश्रं सुसंहितम्^१५ ।
पादोनभागविस्तारमध्यर्धं भागमुच्छ्रितम् ॥ ४५ ॥
तस्य^१६ कार्यं मुखं^१७ मध्ये पार्श्वतश्चयशोभितम् ।
सचया निर्गता सीमा द्वौ भागौ त्रींस्तथायथा(ता) ॥ ४६ ॥
१ द. श्री । २ क. ख. ग. क्तं । ३ क. व. च; द. ॰मेव न् । ४ ख. ग. र्भस्य; द. गर्भस्य तदष्णीषोऽभि॰ । ५ द. ह । ६ द.पीठशाल । ७ क. ख. ग. यस्त; द. कार्यस्तस्याग्रवः शीवा भाग° ।
८ द. पजायता । ९ द. ना । .१० ख. ग. द. ताः । ११ क. ख. ग. द. षा । १२ ख. ग. ता; द. समानावृतः । १३ द. ॰गो निमित्न्यां॰ । १४ द. कुर्याद्द्वयतकार्यो । १५ ख. ग. द. ह । १६ ख. स्य मध्ये मुखं कार्यं पा । १७ द. मु ।
वा. ३५
२७४ समराङ्गणसूत्रधारे
चतुरश्रा चतुःस्तम्भा तदग्रे भागविस्तृता ।
पञ्चभागायता तिर्यक् कार्या सीमा तथापरा ॥ ४७ ॥
द्वात्रिंशदत्र कर्तव्याः स्तम्भाः सर्वैकयसङ्ख्यया ।
बहिःपरिसरो गर्भात् ससीग्नो भागविस्तृतः ॥ ४८ ॥
एवं स्याद् वेदिकाजालरूपादिभिरलङ्कृतः ।
बहिर्व(श्र)योच्छ्रितश्चैष प्रासादो गजयूथपः ॥ ४९ ॥
गजयूथपः ।
षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ।
गर्भो द्विभागिकैः कार्यो द्वारं भागसमुच्छ्रितम् ॥ ५० ॥
भागार्धं द्वारविस्तारः प्रासादस्योच्छ्रितिं पुनः ।
कुर्वीत चतुरो भागान् छादयेच्चित्रकूटवत् ॥ ५१ ॥
कार्या द्विभागिकाः शालाः सालिन्दास्तस्य बाह्यतः ।
बहिर्भित्तिपरिक्षिप्ताश्चतुर्भागायताः शुभाः ॥ ५२ ॥
द्वौ द्वौ गवाक्षकौ स्तम्भाः प्रतिशालं भवन्ति षट् ।
चतुःस्तम्भघृतैर्युक्तः कार्या वा धार्मिकालयेः ॥ ५३ ॥
नन्द्यावर्तोऽयमेवं स्यात् सप्राग्रीवचतुष्टयः ।
प्रागु(?)द्वारक्षणोपेतः प्रासादः शुभलक्षणः ॥ ५४ ॥
नन्द्यावर्तः ।
क्षेत्र(त्रे)षड्भागविस्तारे दशभागकृतायतौ ।
मध्यादपरभागेऽस्य देवकोष्ठं निवेशयेत् ॥ ५५ ॥
चतुरंशप्रतिन्यासं चतुरश्रं समन्ततः ।
द्वारं तस्य विधातव्यं भागमध्यर्धमुच्छ्रितम् ॥ ५६ ॥
पादोनं भागविस्तारं सिंहवक्त्रविभूषितम् ।
सीमा तस्याग्रतः कार्या देवकोष्ठेन सम्मितां ॥ ५७ ॥
१ द. ॰विस्मृताः । २ ख. ग. द. सर्वे व्यसंख्यया । ३ ख. ज्झि; द. ष्पिता ।
४ द. कार्ता । ५ द. र्द्धं । ६ द. लां । ७ ख. ग. द. क्ता । ८ क. गस्थादे; ख. ग. गस्थ्यदै;
द. मघादपरभागस्थां । ९ ख. ग. व्या; द. ॰श्ययतिव्यासं । १० द. तः ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७५
स्तम्भैः षोडशभिर्युक्ता भागद्वितयमुच्छ्रितैः ।
ससीम्नो देवकोष्ठस्य समन्ताद् भित्तिवेष्टितः ॥ ५८ ॥
अलिन्दो भागिकः कार्यो गवाक्षैरुपशोभितः ।
(तत्)सीम्नोश्चाग्रतः पार्श्वे षड्दारुकयुता बहिः ॥ ५९ ॥
कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः ।
द्विद्विस्तम्भधृताः सर्वे पार्श्वतश्चाश्रयशोभिताः ॥ ६० ॥
अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः ।
अवतंसक इत्येष सर्वलक्षणसंयुतः ॥ ६१ ॥
प्रासादः कथितः सम्यक्
अवतंसः ।
स्वस्तिकः प्रोच्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिते ॥ ६२ ॥
प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम् ।
द्वारपाशोऽस्य भागार्धविस्तृतो भागिकोदयः ॥ ६३ ॥
गर्भवेश्म चतुःस्तम्भमलिन्दो भागिको बहिः ।
तस्य स्युर्द्वादश स्तम्भा भागिकोऽलिन्दकोऽपरः ॥ ६४ ॥
विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः ।
चयावृतंश्च पुरतो भागो वाष्ठधरान्वितः ॥ ६५ ॥
भागमेकैकमुत्सृज्य कर्णाभ्यां भागविस्तृतौ ।
भागिकोच्छ्रायनिष्कासौ कार्यौ प्राग्रीवकौ पुनः ॥ ६६ ॥
बाह्यतो भित्तिसंश्लिष्टौ त्रिदिशं सगवाक्षकौ ।
स्वस्तिकोऽयं समाख्यातः प्रासादश्चित्रलक्षणः ॥ ६७ ॥
स्वस्तिकः ।
१ द. आ । २ ख. ग. द. श्रायतः । ३ द. पार्श्वयोश्चषद्दारुकयुचां । ४ क. द्व; ५ द. आ ।
६ द. पाः । ७ द. सृ । ८ क. धै । ९ द. ०विस्मृतौ । १० क. द. ०तं । ११ द.
वाष्टवरांचितः । १२ द. सृ° । १३ द. का. आय । १४ द. ०संश्निग्धौ । १५ क. दं, ख. ग. द. द ।
१६ द. ०क्षि° ।
अथाभिधीयतेऽधुना प्रासादः § शुभलक्षणः ।
षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥ ६८ ॥
द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत् ।
भागद्वयोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥ ६९ ॥
निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत् ।
तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥ ७० ॥
गर्भस्तम्भप्रमाणे न तानि स्तम्भद्वयेन वा ।
समुत्क्षिप्तानि युक्तानि कलशै रविमण्डलैः ॥ ७१ ॥
पल्लवैः पत्रजात्यादिविन्यासैश्चाप्यनेकंशः ।
भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥ ७२ ॥
स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ ।
अन्योन्याभिमुखे श्लिष्टे कुर्यान्मकरयोर्मुखे ॥ ७३ ॥
चतुर्णामपि निर्दिष्टैस्तोरणानां मया विधिः ।
अलिन्दो भागिकश्चान्यो बहिर्भागे प्रकीर्तितः ॥ ७४ ॥
स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च ।
वेष्टितानि बहिर्भित्या सम्मुखानि परस्परम् ॥ ७५ ॥
धार्मिकालयभित्तीनां भूमिर्या बाह्यतो भवेत् ।
तस्याः षड्दारुकाणि स्युर्भागमात्रोच्छ्रितानि च ॥ ७६ ॥
प्राग्रीवकैः ससोपानैर्दिक्कवत्रैस्तानि भूषयेत् ।
अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥ ७७ ॥
मध्ये द्विभागविस्तीर्णं देवकोष्ठं निवेशयेत् ।
द्वारपाशं च कुर्वीत तस्योक्तं(र्ध्वं) भागमुच्छ्रितम् ॥ ७८ ॥
तथा भागार्धविस्तारमित्येष क्षितिभूषणः ।
प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥ ७९ ॥
१ द. पट्टेपु । २ ख. ग. द. त्रि। ३ द. वेय । ४ ख. खों; द. खो । ५ द. ष्टा । ६ द.
आ । ७ द. स्फगिकान्य°। ८ द. वि°। § 'क्षितिभूषण' इति पाठः । स्यान् ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७७
क्षितिभूषणः ।
क्षेत्रस्य चतुरश्रस्य भागान् द्वादश कल्पयेत् ।
मध्ये गर्भं चतुःस्तम्भं तस्य कुर्याद् द्विभागिकम् ॥ ८० ॥
तद्बहिर्भागिकोऽलिन्दो द्वादशस्तम्भगवान् भवेत् ।
मध्येऽपरस्यां यौ स्तम्भौ ताभ्यां कुर्वीत तोरणम् ॥ ८१ ॥
अलिन्दो भागिकः कार्यो भित्त्या भागिकया वृतः ।
प्राच्यां षड्दारुकं¹ मध्ये गर्भव्यासोन्मितायति ॥ ८२ ॥
तृतीयो भागिकोऽलिन्दः स्याद् भित्त्या परिवेष्टितः ।
चतुर्भागायतं भूयस्तत्र षड्दारुकं भवेत् ॥ ८३ ॥
प्राग्रीवं भागविष्कम्भं कुर्याद् भागद्वयायतम् ।
अग्रतः स्तोभितं स्तम्भैर्भागान्तस्थचयावृतम् ॥ ८४ ॥
यथा प्राच्यां तथोदीच्यां याम्यायामपि कीर्तितम् ।
दिशि प्रतीच्यां तु पुनर्द्वितीयालिन्दकाद् बहिः ॥ ८५ ॥
द्विभागायामविष्कम्भं देवकोष्ठं निवेशयेत् ।
सपक्षद्वारकं श्रीमद् द्वारपाशोपशोभितम् ॥ ८६ ॥
भागिकोऽलिन्दकस्तस्माद् बहिर्भित्त्याभिवेष्टितः ।
बहिश्चयावृतो वा स्याद् गवाक्षैर्वा विभूषितः ॥ ८७ ॥
पृथिवी विजयते यस्मात् तेनासौ पृथिवीजयः ।
भूजयः ।
यदा पृथ्विजयस्यैव कर्णप्राग्रीवकावुभौ ॥ ८८ ॥
कोणेषु भागिकौ स्यातां विज्ञेयो विजयस्तदा ।
विजयः ।
अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥ ८९ ॥
मध्यमालिन्दसौधस्थ( स्थ )कर्णप्रासादकैश्चितः ।
प्रथमालिन्दगर्भौ च समुत्क्षिप्ततरौ ततः ॥ ९० ॥
स्यातां छाद्यद्वयच्छन्नौ तदा नन्दोऽभिधीयते ।
१ ग. कां । २ क. र्भं ।
२७८ समराङ्गणसूत्रधारे
नन्दः ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ ९१ ॥
चतुरश्रो भवेन्मध्ये देवकोष्ठो द्विभागिकः ।
द्वारबन्धोऽस्य भागोच्चः कार्यो भागार्धविस्तृतः ॥ ९२ ॥
स्याद् बहिर्द्वादशधरोऽलिन्दको¹ देवकोष्ठतः ।
भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥ ९३ ॥
अयं द्विभागिकैर्युक्तः प्राग्रीवैर्भागनिर्गमैः ।
तथा तृतीयोऽलिन्दः स्यात् समन्ताद् भित्तिवेष्टितः ॥ ९४ ॥
प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैर्विभूषितः ।
भागिकी स्याद् बहिर्भित्तिरितरा तु धरैः समा ॥ ९५ ॥
इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः ।
श्रीतरुः ।
अस्यैव स्तम्भगर्भस्य द्वितीयालिन्दभित्तिषु ॥ ९६ ॥
षड्दारूणि विधेयानि पूर्वरूपव्यवस्थिते² ।
द्वौ द्वौ प्राग्रीवकौ कार्यौ तृतीयालिन्दकाद् बहिः ॥ ९७ ॥
तौ च द्वि(भागा)न्तरितौ सर्वतो भागनिर्गतौ ।
एवं पञ्चांशता (?) स्तम्भैर्द्वाभ्यां च परिवेष्टितः ॥ ९८ ॥
चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः ।
प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥ ९९ ॥
प्रमदाप्रियः ।
भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा ।
भिन्नालिन्दाग्रतस्तिर्यग् द्वे शाले तन्मुखं शुभम् (?) ॥ १०० ॥
द्वितीयालिन्दकस्थाने कर्णप्रासादकैर्युतः ।
एवं व्यामिश्रसंज्ञोऽयं प्रासादः परिकीर्तितः ॥ १०१ ॥
१ क. ग. तो । २ क. ते, ख. तैः ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७९
व्यामिश्रः ।
विजयस्यास्य च यदा कर्णलाङ्गलकैर्युता ।
भवेद् भित्तिस्तदा हस्तिजातीय इति कथ्यते ॥ १०२ ॥
हस्तिजातीयः ।
सीमाप्राग्रीवभूमीषु यदा स्युः पृथिवीजये ।
द्विभागाश्चाभितोऽलिन्दास्तिर्यक्शालामुखेषु च ॥ १०३ ॥
अलिन्दे पश्चिमा शाला सर्व(र्वा)शालोकना शुभा ।
षड्दारुकं तथैवात्र चतुर्भागायतं भवेत् ॥ १०४ ॥
पूर्ववत् सर्वमन्यच्च कुबेरः स तदा भवेत् ।
कुबेरः ।
प्रासादः कथ्यतेऽन्यश्च सम्प्रतीह धराधरः ॥ १०५ ॥
कुबेरोपत्तरोक्षिप्तः(?) कर्णप्रासादभूषितः ।
मध्यद्वारान्वितः श्रीमान् धराधर इति स्मृतः ॥ १०६ ॥
वसुधाधरः ।
यत्रायतश्चित्रकूटस्तस्माद् यः सर्वतोदिशम् ।
धराधरतदम्भासः(?) सर्वतोभद्र उच्यते ॥ १०७ ॥
सर्वतोभद्रः ।
कर्णप्राग्रीवकौ द्वौ द्वौ शालाप्राग्रीवंकाअ(व)पि ।
स्यातां यर्दास्य प्रोक्तोऽसौ विमानाख्यस्तदा शुभः ॥ १०८ ॥
विमानाख्यः ।
विमानंपीठे निर्मुक्तः शालाभिः सर्वतो वृतः ।
अन्योन्यशालासम्बन्धे विमानो न्यस्यते यदा ॥ १०९ ॥
कर्णप्रासादकोपेताः कोणैः शालोज्झितैर्युतः ।
स विमुक्तकोणः स्यात् प्रासादोऽत्यर्थशोभितः ॥ ११० ॥
१ ख. ॰वेद्भस्तितदा । २ क. क्तालमु । ३ क. ख. ग. आ । ४ ख. ग. न्दो । ५ क. धाग्रभश्चि ।
६ द. ग्री । ७ द. ग्री । ८ द. द्य । ९ क. नं । १० क. त्ता । ११ ख. ग्रीवको; द. ग्रीव° ।
२८० समराङ्गणसूत्रधारे
मुक्तकोणः ,
प्रासादाश्चतुरश्राः स्वैर्विशेषैर्वर्णिताः पृथक् ।
इदानीमभिधीयन्ते वृत्ताः स्वैः स्वैर्विशेषणैः ॥ १११ ॥
तत्रादौ वलयाकारो वलयः स च कथ्यते ।
समन्ताद् वर्तिते क्षेत्रे चतुर्भागविभाजिते ॥ ११२ ॥
कुर्यात् सारोहणं पीठं सार्धभागोच्छ्रितं शुभम् ।
परिक्षिप्तं गजमुखैर्मकर(रा)स्याम्बुनिर्गतम् ॥ ११३ ॥
बहिर्भागसमोपेतस्तस्मिन् कार्यः सुरालयः ।
पादोनविस्तृतिर्द्विघ्नद्वारोच्छ्रायविभूषितः ॥ ११४ ॥
तस्याष्टस्तम्भकोऽलिन्दो बहिर्वलय इत्यसौ ।
वृत्तच्छायः सिंहकर्णैस्तथा जालकरूपवान् ॥ ११५ ॥
† भूलवयः ।
प्राग्रीवका(वृतः) स स्याद् यद्वा §स्तम्भोच्छ्रैयानतः ।
तदैष *दुन्दुभिः प्रोक्तस्त्रिभिस्तैः प्रान्त उच्यते ॥ ११६ ॥
अयमेव चतुर्भिः स्यात् पद्मः प्राग्रीवकैः शुभैः ।
स्तम्भैश्चतुर्भिस्तस्यैव यदा पश्चान्निवेश्यते ॥ ११७ ॥
मध्यवृत्तो गर्भकोष्ठो भित्तिश्चोभयतः स्थितां ।
स कान्त इति विख्यातः प्रासादो वर्तुलाकृतिः ॥ ११८ ॥
चत्वारि वलयस्यैव यत्र द्वाराण्यलिन्दकः ।
स्याच्चतुर्विंशतिस्तम्भैर्द्वितीयो भागसम्मितः ॥ ११९ ॥
प्राग्रीवकाश्च स्तम्भाभ्यां द्वाभ्यां द्वाभ्यां समन्विताः ।
चत्वारो यत्रं स प्रोक्तः प्रासादोऽत्र चतुर्मुखः ॥ १२० ॥
१ द. र्तं । २ क. तिर्द्विघ्न । ३ क. °र्गतदीयजा°; द. त । ४ द. ग्री । ५ ख. च्छ्रय-
द्वयान्वितः; द. य. द्वयान्वित । ६ ख. द. तदेव । ७ क. ख. द. °श्येत् । ८ द. ताः । ९ द.
ग्री । १० द. स्य ।
† लक्ष्ये लक्षणे च वलय इत्ययं पठितः । §स्तम्भद्वयान्वितः इति पाठः स्यात् । * इत
आरभ्य तत्तत्प्रासादनामानि पृथक्तया मातृकायां न लिखितानि ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८१
अस्यैवैकं यदा द्वारं प्राग्रीवोऽलिन्दवेष्टितः ।
एक एव तथाचान्यः प्राग्रीवस्तस्य चाग्रतः ॥ १२१ ॥
ख्यातो माण्डूक इत्येष वृत्तप्रासादसत्तमः (वृत्तः ?) ।
दिक्कोणेषु यदास्यैव भवेत् प्राग्रीवकल्पना ॥ १२२ ॥
प्रासादोऽयं तदा कूर्मसंज्ञः स्यादपराजितः ।
कूर्मस्यैव यदा दिक्षु स्तम्भैरष्टाभिरष्टभिः ॥ १२३ ॥
प्राग्रीवकाः प्रकल्प्यन्ते चत्वारोऽलिन्दवेष्टिताः ।
प्र.ग्रीवकास्तिर्यगग्रे भवन्त्यन्ये तदग्रतः ॥ १२४ ॥
षोडशस्तम्भयुक्तस्य मध्यभागे यदा भवेत् ।
† जानीयाद्दोषविज्ञेयाः प्राग्रीवहरितोत्तमः (?) ॥ १२५ ॥
इति वृत्ताः समाख्याताः प्रासादा नामलक्षणैः ।
चतुरश्रायतान् ब्रूमः प्रासादानिह साम्प्रतम् ॥ १२६ ॥
अष्टभागायते क्षेत्रे चतुरंशकविस्तृते ।
द्विभागसार्धभागैकभागोऽयं पीठे इष्यते ॥ १२७ ॥
पश्चिमं भागमुत्सृज्य देवकोष्ठं द्विभागिकम् ।
तस्मिन् निवेशयेत् सीमा स्यादस्याग्रेऽष्टभिर्घटैः ॥ १२८ ॥
ससीम्नो देवकोष्ठस्यै भागिकालिन्दको बहिः ।
युक्तो धराणां विंशत्या वेदिकाजालवेष्टितः ॥ १२९ ॥
प्राग्रीवकस्य तस्याग्रे स्तम्भद्वितयभूषितः ।
द्विच्छाद्यच्छादितः श्रीमान् सिंहकर्णैरलङ्कृतः ॥ १३० ॥
प्रासादोऽयं भवो नाम विशालः कथ्यतेऽधुना ।
यदास्यैवं सनिष्क्रान्ते सीमायामे च वर्ध(र्धि)ते ॥ १३१ ॥
१ द. °दां । २ क. वा । ३ क. ख. न्डू; द. मांडूक । ४ द. ची । ५ क. कत्र्तः; द. क ।
६ ट. र्मा । ७ द. ता । ८ क. °णैः । वृत्तप्रासादः । चं । ९ ख. द. टमिव्य; । १० द. र्हं ।
११ द. °ष्ठः स्यात् । १२ द. मु । १३ द. वाश । १४ क. ख. द. योगे च वर्धते ।
† इह कियांश्चिद् ग्रन्थो गलित इव भाति, यतो वृत्तप्रासादभेदेषु लक्ष्ये परिगणितयोरुपान्त्ययोः
तालीगृहोलूपीनामकयोर्लक्षणं न दर्शितम्, अत्र दृश्यमानस्य च श्लोकार्धस्य नार्थसामञ्जस्यम् ।
वा. ३६
२८२ समराङ्गणसूत्रधारे
वलभ्यौ पार्श्वयोः स्यातां विशालाख्यस्तदा भवेत् ।
विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ॥ १३२ ॥
द्वौ द्वौ गवाक्षकौ चापि साम्मुख्यैः स भवेत् तदा ।
प्राग्रीवास्त्रिदिंशं तस्य गर्भकोष्ठायता यदा ॥ १३३ ॥
हित्वा वलभ्यौ प्राग्रीवौ विधीयेते तथापरौ ।
कर्णेषु भागमेकैकं त्यक्त्वा स्यात् प्रभवस्तदा ॥ १३४ ॥
एतस्यैव मुखे स्यातां यदा प्राग्रीवकावुभौ ।
पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतॊ यदा ॥ १३५ ॥
कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिबिराग्रहः ।
यदास्यैव मुखे शाला भागद्वितयविस्तृतां ॥ १३६ ॥
आयामेन च षड्भागा प्राग्रीवौ द्वौ तदग्रतः ।
द्वौ द्वौ गवाक्षकौ स्यातां तद्भित्त्योरुभयोरपि ॥ १३७ ॥
सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत् ।
अलिन्दो भागिकः कार्यों विशालंस्यैव बाह्यतः ॥ १३८ ॥
प्राग्रीवभूमिषु वृतो भित्त्या च सगवाक्षकः ।
अग्रतः सहितः स्तम्भैः षड्भिश्च क्रियते यदा ॥ १३९ ॥
द्विशाल इति विख्यातः प्रासादो जायते तदा ।
यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥ १४० ॥
प्राग्रीवकौ चोभयतो गृहराजस्तदा भवेत् ।
सर्वस्यैव (?) यदालिन्दः स्यादन्यो भागविस्तृतैः ॥ १४१ ॥
सीमान्तविस्तृते स्यातां वलभ्यौ भागनिस्सृते ।
भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ॥ १४२ ॥
मुखे षड्दारुकं च स्यात् तदा स्यादमलाभिधः ।
एकादशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १४३ ॥
१. क. त । २ क. स्यात् स; द. सोऽमुख्या । ३ द. द । ४ द. य । ५ द. त । ६ द. वो ।
७ द. ते । ८ द. त् स्थविरग्रहः । ९ द. ताः । १० क. ॰लाल्ये च बा॰ । ११ क. तौ । १२ क. वि ।
१३ द. स्तृ॑ । १४ द. भ्यो । १५ क. विस्तृते । १६ द. षड्ढारकं ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । १८३
मुक्त्वा भागद्वयं पश्चाद् देवकोष्ठं निवेशयेत् ।
भागं मुक्त्वाग्रतः कुर्यात् सीमां भागचतुष्टयम् ॥ १४४ ॥
अष्टस्तम्भास्ततोऽलिन्द विंशतिस्तम्भभागिकोः ।
भागिकः परितोऽलिन्दोऽष्टाविंशतिघरोऽपरः ॥ १४५ ॥
द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः ।
सीमासँमे वलभ्यौ च प्राग्रीवौ मध्यतस्तयोः ॥ १४६ ॥
द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ ।
वेदिकाजालरूपाढ्यः सिंहकर्णोपशोभितः ॥ १४७ ॥
प्रासादोऽयं विसुर्नाम कथितो भर्तृनन्दनः ।
एवमेते समाख्याताश्चतुरश्रायता दश ॥ १४८ ॥
चतुरश्रांयतांस्तिर्यगायत्यांथापरानपि ।
प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ॥ १४९ ॥
द्वौ भागौ विस्तीर्गर्भे द्विगुणां तिर्यगायतिः ।
मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ॥ १५० ॥
स्तम्भश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः ।
द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥ १५१ ॥
तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत् ।
भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥ १५२ ॥
षड्दारुकयुतो ह्येष प्रासादो भव उच्यते ।
अस्यैव भागनिष्कासा शाला मुखचतुष्टये ॥ १५३ ॥
यदा षड्दारुकोपेता विशालः स तदोच्यते ।
स्तम्भैर्मुखैमुखे षड्भिर्बहिः साम्मुख्य इत्यसौ ॥ १५४ ॥
अस्यैव सं.मा कर्णस्था द्विद्विस्तम्भयुता यदा ।
प्राग्रीवैभागनिष्क्रान्ता बहिस्था प्रभवस्तदा ॥ १५५ ॥
१ द. म्भ । २ द. मासिकाः । ३ क. त । ४ द. सी । ५ क. व्ययप; द. ग्याथो । ६ ख.
भाग । ७ द. णो । ८ द. काः । ९ द. र । १० ख. द. ते । ११ ख. ६।; द. यद्वा षड्दारको ।
१२ द. स्ये । १३ ख. द. वभाग; ।
१८४ समराङ्गणसूत्रधारे
सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत् ।
प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिबिराग्रहः ॥ १५६ ॥
विशालसन्निवेशस्य मुखे शाला भवेद् यदा ।
पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥ १५७ ॥
निष्क्रान्तभाग एकैकैः स्तम्भद्वितयसंयुतः ।
प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥ १५८ ॥
मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश ।
प्राग्रीवो द्विविधश्चाग्रे द्विशालः स तदा भवेत् ॥ १५९ ॥
†भित्तिस्तदानीं(?) प्रासादो गृहराजः प्रजायते ।
गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥ १६० ॥
चतुश्चतुर्धरौ यत्र प्राग्रीवौ द्वौ च पार्श्वयोः ।
तौ तु द्विद्विधरौ गर्भविस्तारेण तु संमितौ ॥ १६१ ॥
अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः ।
अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ॥ १६२ ॥
प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः ।
प्रासादान् कथयामोऽन्यान दश वृत्तायतान् पुनः ॥ १६३ ॥
अष्टभागमुखायतया विस्तृत्या चतुरश्रकम् ।
वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ॥ १६४ ॥
गर्भं पश्चिमभागेऽस्य चतुर्भागं समन्ततः ।
कुर्यात् तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥ १६५ ॥
भागत्रयमितां भागेनैकेनान्तरितां च ताम् ।
संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥ १६६ ॥
अलिन्देन परिक्षिप्तां ससीमा देवकोष्ठकम् ।
षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ॥ १६७ ॥
१ द. 'मेकेकं । २ द. तं । ३ द. प्रा ।
† इहापि कियांश्चिद् ग्रन्थो गलित इव । इतः श्लोकद्वयात् प्रागेव क. पुस्तके पत्राणि आचतु-
ष्पञ्चाशाध्यायैकद्दे.। लुप्तानि । ग. ग्रन्थस्तु पुरैवावसितः ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८९
छन्नाइछाद्यद्वयेनायमामोद इति कीर्तितः ।
वृत्तायतेषु प्रथमः प्रासादः स्वामिनो हितः ॥ १६८ ॥
समाहितौ यदास्यैव प्राग्रीवौ भागमिश्रितौ ।
चतुःस्तम्भै रैकिकस्तु वृत्ताभ्यां तुङ्ग उच्यते ॥ १६९ ॥
यदा सीमावधिर्भिर्त्तिर्गवाक्षैरुपशोभिना ।
वृत्तप्राग्रीव एकोऽन्ये (?) तदा चारुरुदाहृतः ॥ १७० ॥
सीमामध्ये विधातव्यौ प्राग्रीवौ भागविस्तृतौ ।
विस्तारसदृशायामौ दक्षिणेति (?) त्रिषु त्रयः ॥ १७१ ॥
कार्याः प्राग्रीवकास्ते च गर्भकोष्ठेन सम्मिताः ।
भूतिरित्येष (सं)प्रोक्तः प्रासादः शुभलक्षणः ॥ १७२ ॥
मुखायतौ स्याच्चतुरो भागान्यत्तिर्यगायतान्(?) ।
क्षेत्रवृत्तं ततः कुर्यात् तन्मध्ये गर्भवेश्म च ॥ १७३ ॥
चतुर्भागायतं तत् स्याद् भागद्वितयविस्तृतम् ।
अलिन्दो बाह्यतस्तस्य द्वादशस्तम्भसंयुक्तः ॥ १७४ ॥
भागद्वितयविस्तारः प्राग्रीवश्चांशनिर्गतः ।
निषेध इति वि(वक इति ) ख्यातः प्रासादोऽयं पुरातनैः ॥१७५॥
यदा(?) निषेधः स्यादस्य पुरः प्राग्रीवको यदि ।
चतुर्द्वारपरिक्षिप्तोऽलिन्देनाष्टधरेण वा ॥ १७६ ॥
अयमेवांशकेन स्याद् यदालिन्देन वेष्टितः ।
मुखभागत्रयं मुक्त्वा भित्त्या च परिवेष्टितः ॥ १७७ ॥
यदा च कर्णप्राग्रीवौ प्राग्रीवश्चाग्रतो भवेत् ।
विशेषरचना या च द्वा.विंशतिधरान्वितौ(?) ॥ १७८ ॥
गवाक्षैः शोभनैर्युक्तस्तदा सिंहः प्रकीर्तितः ।
द्वादशांशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १७९॥
१ द. रिरिकस्तु । २ द. रि । ३ द. मुखायतो ।
३८६ समराङ्गणसूत्रधारे।
पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तृतः ।
देवकोष्ठो विधातव्यस्तद्द्वारं भागमुच्छ्रितम् ॥ १८० ॥
सीमाग्रे सान्तरा द्व्यंशविस्तृता चतुरानता ।
अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥ १८१ ॥
अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपि च ।
सीमाप्राग्रीव१कालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥ १८२ ॥
प्राग्रीवौ पार्श्वयोः सीमासमौ भागविनिर्गतौ ।
द्वाभ्यां द्वाभ्यां युतौ ज्ञेयौ२ स्तम्भाभ्यां वर्तुलाकृती ॥ १८३ ॥
एतत्सर्वं विधानव्यमलिन्देनाभिवेष्टितम् ।
चतुर्विंशधरोऽयं३ च भागिकोऽयं प्रशस्यते ॥ १८४ ॥
द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद् गर्भस्य दिक्त्रये ।
एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥ १८५ ॥
भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्त्तिताः ।
चतुरश्रास्त एव स्युर्द्विद्विस्तम्भयुता यदि ॥ १८६ ॥
शेषा भवति भित्तिश्च गवाक्षैरुपशोभिता ।
प्रासादोयं तदा ज्ञेयो दशमो४ लोचनोत्सवः ॥ १८७ ॥
अष्टाश्रमथ वक्ष्यामः प्रासादांल्लक्षणैः सह ।
चतुर्भागान्विते क्षेत्रे तथाष्टाश्रीकृते पुनः ॥ १८८ ॥
द्वौ भागौ गर्भकोष्ठः स्यादलिन्दो भागिकस्तदा ।
स्तम्भाष्टकमलिन्दे स्यात् प्राग्रीवस्तस्य चाग्रतः ॥ १८९ ॥
द्व्युच्छ्रायच्छा(च्छा)दिनः श्रीमान् प्रासादो वज्रको भवेत् ।
अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥ १९० ॥
स्याच्चतुर्विंशतिस्तम्भश्चालिन्दो भागिकोऽपरः ।
नन्दनोऽयं समाख्यातः शङ्कुः प्राग्रीवकैस्त्रिभिः ॥ १९१ ॥
--------- १ द. को। २ द. यं। ३ द. यांश्च। ४ द. क। ५ द. नाः। ६ द. नो। ७ द.
था। ८ द. राः।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८७
तस्य भित्तिर्विधानव्या क्षेत्रेऽष्टाश्रियुते बुधैः ।
वामनश्च(स्य) पुनद्वौँद्वौ गवाक्षौ दिक्त्रये मतौ ॥ १९२ ॥
अस्यैवाग्रे यदा सीमाभागाद् भागत्रयायता ।
द्विभागं विस्तृता ह्यंशसमुच्छेदाष्टभिर्धरैः (?) ॥ १९३ ॥
अलिन्दोवेष्टिता युक्ता प्राग्रीवैर्मेखलेऽ१तदा ।
भित्तिक्षेत्रे यदास्यैव प्राग्रीवाः परिवेष्टिताः ॥ १९४ ॥
अलिन्देन धरैः षड्भिः षड्भिर्युक्तास्तदा लयः ।
अष्टभागमिते क्षेत्रे कृतेऽष्टाश्रिणि सर्वतः ॥ १९५ ॥
भागद्वयमितं कुर्याद् देवकोष्ठं मनोरमम् ।
चतुर्भिः शोभितं द्वारैर्भागिका(लिन्दवेष्टितम्) ॥ १९६ ॥
अलिन्दस्य विधानव्याः स्तम्भाश्चाष्टौ ततोऽपरः ।
स्याच्चतुर्विंशतिस्तम्भो भागिकोऽलिन्दकः पुनः ॥ १९७ ॥
तथाविधस्तृतीयोऽपि प्राग्रीवाश्च चतुर्दिशम् ।
प्रासादोऽयं महापद्मो ब्रह्मणः शङ्करस्य च ॥ १९८ ॥
द्वितीयो(ये)ऽलिन्दक(के)ऽस्यैव प्राग्रीवाः स्युश्चतुर्दिशम् ।
अलिन्देन परिक्षिप्तो हंस एष प्रकीर्तितः ॥ १९९ ॥
प्राग्रीवोऽस्य महापद्मस्यालिन्देनाष्टनो यदा ।
कर्णप्राग्रीवकौ द्वौ द्वौ व्योमसंज्ञस्तदा भवेत् ॥ २०० ॥
हंसस्यैव वलभ्यः स्युः प्राग्रीवाणां५ पदे यदा ।
चतुःस्तम्भाः परिक्षिप्ता अलिन्देन चतुर्दिशम् ॥ २०१ ॥
तदा चन्द्रोदयो नाम प्रासादो जायते शुभः ।
एवमेषां चतुष्षष्टिः प्रासादानामुदाहृता ॥ २०२ ॥
इति सुरभवनानां सप्ततिर्दारवाणा-
मिह सदनचतुष्केणान्वितेयं प्रदिष्टा ।
१ द. न्द । २ द. ॰लैस्तदा । ३ द. स्त्रि । ४ द. गो । ५ द. वा । ६ द. ॰नां पदे
यथा । ७ द. आ । ८ द. ताः ।
§ इहानुक्रमो व्यत्यस्तः । § लदये तु मेखल इति पठितः ।
२८८ समराङ्गणसूत्रधारे
जनमयमवकोशानन्दशुभ्रांशुलेखा (?)
भवति सुविदितैषा शिल्पिनां कामधेनुः ॥ २०३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः।
अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः।
प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये ।
प्रशस्ताश्चाप्रशस्ताश्च तस्मिन्नवनिमण्डले ॥ १ ॥
ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः ।
नैवोच्चा नातिह्रस्वाश्च कर्णायामादविह्वलाः ॥ २ ॥
असंमूढा विभागेन प्रमाणेन सुसंस्थिताः ।
ऊर्ध्वाधः कर्णपादीभिरुपेताः सलिलान्तरैः ॥ ३ ॥
असङ्कीर्णोद्यैश्छद्यैः स्वमानपरिकल्पितैः ।
सुविभक्ताः सुसंस्थाश्च रेंम्यैरविकलैः कृताः ॥ ४ ॥
समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः ।
स्वजातिपरिवेषाय्या नान्यजातिप्रदूषिताः ॥ ५ ॥
असङ्कीर्णाः शरीरंण संस्थानेन सुसंस्थिताः ।
केवला जातिशुद्धाश्च प्रासादाः शुभदा नृणाम् ॥ ६ ॥
सुदृढैर्मूलपादैश्च दृढाश्चामूलमस्तकम् ।
नाधरोत्तरयुक्ताश्च सुश्लिष्टद्रव्यसन्धिभिः ॥ ७ ॥
देव(श)जातिप्रसिद्धैश्च भूषणैः सुविभूषिताः ।
प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनैः ॥ ८ ॥
कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात् ।
अभ्रमानपि वक्ष्यामः प्रासादानवलक्षणैः ॥ ९ ॥
१ द. वा । २ द. द्व । ३ द. क्ता । ४ द. र्णा । ५ द. ता । ६ द. ०हैद्रैं० ।
७ द. ना ।