सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 340, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 340

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७५
स्तम्भैः षोडशभिर्युक्ता भागद्वितयमुच्छ्रितैः ।
ससीम्नो देवकोष्ठस्य समन्ताद् भित्तिवेष्टितः ॥ ५८ ॥
अलिन्दो भागिकः कार्यो गवाक्षैरुपशोभितः ।
(तत्)सीम्नोश्चाग्रतः पार्श्वे षड्दारुकयुता बहिः ॥ ५९ ॥
कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः ।
द्विद्विस्तम्भधृताः सर्वे पार्श्वतश्चाश्रयशोभिताः ॥ ६० ॥
अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः ।
अवतंसक इत्येष सर्वलक्षणसंयुतः ॥ ६१ ॥
प्रासादः कथितः सम्यक्
अवतंसः ।
स्वस्तिकः प्रोच्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिते ॥ ६२ ॥
प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम् ।
द्वारपाशोऽस्य भागार्धविस्तृतो भागिकोदयः ॥ ६३ ॥
गर्भवेश्म चतुःस्तम्भमलिन्दो भागिको बहिः ।
तस्य स्युर्द्वादश स्तम्भा भागिकोऽलिन्दकोऽपरः ॥ ६४ ॥
विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः ।
चयावृतंश्च पुरतो भागो वाष्ठधरान्वितः ॥ ६५ ॥
भागमेकैकमुत्सृज्य कर्णाभ्यां भागविस्तृतौ ।
भागिकोच्छ्रायनिष्कासौ कार्यौ प्राग्रीवकौ पुनः ॥ ६६ ॥
बाह्यतो भित्तिसंश्लिष्टौ त्रिदिशं सगवाक्षकौ ।
स्वस्तिकोऽयं समाख्यातः प्रासादश्चित्रलक्षणः ॥ ६७ ॥
स्वस्तिकः ।
१ द. आ । २ ख. ग. द. श्रायतः । ३ द. पार्श्वयोश्चषद्दारुकयुचां । ४ क. द्व; ५ द. आ ।
६ द. पाः । ७ द. सृ । ८ क. धै । ९ द. ०विस्मृतौ । १० क. द. ०तं । ११ द.
वाष्टवरांचितः । १२ द. सृ° । १३ द. का. आय । १४ द. ०संश्निग्धौ । १५ क. दं, ख. ग. द. द ।
१६ द. ०क्षि° ।