सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 341, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 341

अथाभिधीयतेऽधुना प्रासादः § शुभलक्षणः ।
षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥ ६८ ॥
द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत् ।
भागद्वयोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥ ६९ ॥
निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत् ।
तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥ ७० ॥
गर्भस्तम्भप्रमाणे न तानि स्तम्भद्वयेन वा ।
समुत्क्षिप्तानि युक्तानि कलशै रविमण्डलैः ॥ ७१ ॥
पल्लवैः पत्रजात्यादिविन्यासैश्चाप्यनेकंशः ।
भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥ ७२ ॥
स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ ।
अन्योन्याभिमुखे श्लिष्टे कुर्यान्मकरयोर्मुखे ॥ ७३ ॥
चतुर्णामपि निर्दिष्टैस्तोरणानां मया विधिः ।
अलिन्दो भागिकश्चान्यो बहिर्भागे प्रकीर्तितः ॥ ७४ ॥
स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च ।
वेष्टितानि बहिर्भित्या सम्मुखानि परस्परम् ॥ ७५ ॥
धार्मिकालयभित्तीनां भूमिर्या बाह्यतो भवेत् ।
तस्याः षड्दारुकाणि स्युर्भागमात्रोच्छ्रितानि च ॥ ७६ ॥
प्राग्रीवकैः ससोपानैर्दिक्कवत्रैस्तानि भूषयेत् ।
अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥ ७७ ॥
मध्ये द्विभागविस्तीर्णं देवकोष्ठं निवेशयेत् ।
द्वारपाशं च कुर्वीत तस्योक्तं(र्ध्वं) भागमुच्छ्रितम् ॥ ७८ ॥
तथा भागार्धविस्तारमित्येष क्षितिभूषणः ।
प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥ ७९ ॥


१ द. पट्टेपु । २ ख. ग. द. त्रि। ३ द. वेय । ४ ख. खों; द. खो । ५ द. ष्टा । ६ द.
आ । ७ द. स्फगिकान्य°। ८ द. वि°। § 'क्षितिभूषण' इति पाठः । स्यान् ।