समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 347, कुल 726 में से
संदर्भ में पढ़ें२८२ समराङ्गणसूत्रधारे
वलभ्यौ पार्श्वयोः स्यातां विशालाख्यस्तदा भवेत् ।
विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ॥ १३२ ॥
द्वौ द्वौ गवाक्षकौ चापि साम्मुख्यैः स भवेत् तदा ।
प्राग्रीवास्त्रिदिंशं तस्य गर्भकोष्ठायता यदा ॥ १३३ ॥
हित्वा वलभ्यौ प्राग्रीवौ विधीयेते तथापरौ ।
कर्णेषु भागमेकैकं त्यक्त्वा स्यात् प्रभवस्तदा ॥ १३४ ॥
एतस्यैव मुखे स्यातां यदा प्राग्रीवकावुभौ ।
पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतॊ यदा ॥ १३५ ॥
कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिबिराग्रहः ।
यदास्यैव मुखे शाला भागद्वितयविस्तृतां ॥ १३६ ॥
आयामेन च षड्भागा प्राग्रीवौ द्वौ तदग्रतः ।
द्वौ द्वौ गवाक्षकौ स्यातां तद्भित्त्योरुभयोरपि ॥ १३७ ॥
सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत् ।
अलिन्दो भागिकः कार्यों विशालंस्यैव बाह्यतः ॥ १३८ ॥
प्राग्रीवभूमिषु वृतो भित्त्या च सगवाक्षकः ।
अग्रतः सहितः स्तम्भैः षड्भिश्च क्रियते यदा ॥ १३९ ॥
द्विशाल इति विख्यातः प्रासादो जायते तदा ।
यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥ १४० ॥
प्राग्रीवकौ चोभयतो गृहराजस्तदा भवेत् ।
सर्वस्यैव (?) यदालिन्दः स्यादन्यो भागविस्तृतैः ॥ १४१ ॥
सीमान्तविस्तृते स्यातां वलभ्यौ भागनिस्सृते ।
भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ॥ १४२ ॥
मुखे षड्दारुकं च स्यात् तदा स्यादमलाभिधः ।
एकादशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १४३ ॥
१. क. त । २ क. स्यात् स; द. सोऽमुख्या । ३ द. द । ४ द. य । ५ द. त । ६ द. वो ।
७ द. ते । ८ द. त् स्थविरग्रहः । ९ द. ताः । १० क. ॰लाल्ये च बा॰ । ११ क. तौ । १२ क. वि ।
१३ द. स्तृ॑ । १४ द. भ्यो । १५ क. विस्तृते । १६ द. षड्ढारकं ।