सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 343, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 343

२७८ समराङ्गणसूत्रधारे
नन्दः ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ ९१ ॥
चतुरश्रो भवेन्मध्ये देवकोष्ठो द्विभागिकः ।
द्वारबन्धोऽस्य भागोच्चः कार्यो भागार्धविस्तृतः ॥ ९२ ॥
स्याद् बहिर्द्वादशधरोऽलिन्दको¹ देवकोष्ठतः ।
भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥ ९३ ॥
अयं द्विभागिकैर्युक्तः प्राग्रीवैर्भागनिर्गमैः ।
तथा तृतीयोऽलिन्दः स्यात् समन्ताद् भित्तिवेष्टितः ॥ ९४ ॥
प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैर्विभूषितः ।
भागिकी स्याद् बहिर्भित्तिरितरा तु धरैः समा ॥ ९५ ॥
इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः ।
श्रीतरुः ।
अस्यैव स्तम्भगर्भस्य द्वितीयालिन्दभित्तिषु ॥ ९६ ॥
षड्दारूणि विधेयानि पूर्वरूपव्यवस्थिते² ।
द्वौ द्वौ प्राग्रीवकौ कार्यौ तृतीयालिन्दकाद् बहिः ॥ ९७ ॥
तौ च द्वि(भागा)न्तरितौ सर्वतो भागनिर्गतौ ।
एवं पञ्चांशता (?) स्तम्भैर्द्वाभ्यां च परिवेष्टितः ॥ ९८ ॥
चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः ।
प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥ ९९ ॥
प्रमदाप्रियः ।
भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा ।
भिन्नालिन्दाग्रतस्तिर्यग् द्वे शाले तन्मुखं शुभम् (?) ॥ १०० ॥
द्वितीयालिन्दकस्थाने कर्णप्रासादकैर्युतः ।
एवं व्यामिश्रसंज्ञोऽयं प्रासादः परिकीर्तितः ॥ १०१ ॥


१ क. ग. तो । २ क. ते, ख. तैः ।