सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

प्रथमः सर्गः । ३
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥
सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले
निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः ।
सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं
हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्यो-
च्छ्वासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमु-
द्दीपकं सुतन्त्रिणा गीतं गानं च । 'गीतं गानमिमे समे'
इत्यमरः । अनुभवन्त्यास्वादयन्तीत्यर्थः । एतेनापि ग्री-
ष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥
नितम्बबिम्बैः संदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४ ॥
नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मे-
खला रसनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः क-
टिपश्चाद्भागैः । 'पश्चान्नितम्बः स्त्रीकट्याः' इत्यमरः । हारा-
आभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दन-
लिप्तैः स्तनैः । स्नाने स्नानकाले यः कषायो लापितसुगन्धि-
द्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः
कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥
नितान्तलाक्षारसरागरञ्जितै-
र्नितम्बिनीनां चरणैः सनूपुरैः ।
१. 'सुदुकूल.' २. 'लोहितैः.'

४ ऋतुसंहारे.
पदे पदे हंसरुतानुकारिभि-
र्जनस्य चित्तं क्रियते समन्मथम् ॥ ५ ॥
नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण र-
ञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः । 'मञ्जीरो नू-
पुरोऽस्त्रियाम्' इत्यमरः । पदे पदे प्रतिपदं हंसरुतं
मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जन-
स्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् ।
मदनो मन्मथो मारः' इत्यमरः । क्रियत इत्यर्थः ॥
पयोधराश्चन्दनपङ्कचर्चिता-
स्तुषारगौरार्पितहारशेखराः ।
नितम्बदेशाश्च सहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६ ॥
पयोधरा इति ॥ चन्दनस्य पङ्केन द्रवेण चर्चिता लिप्ताः ।
तुषारवद्गौराः शुभ्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते
तथोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरसनासहि-
ताः। 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः ।
नितम्बदेशाः श्रोणीबन्धाश्च कस्य मनः सोत्सुकं सोत्कण्ठं न
प्रकुर्वते प्रकर्षेण न कुर्वन्ति । अपि तु सर्वस्यापीत्यर्थः ॥
समुद्गतस्वेदशिताङ्गसंधयो
विमुच्य वासांसि गुरूणि सांप्रतम् ।
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ति प्रमदाः सयौवनाः ॥ ७ ॥


१. 'शीतलाः.' २. 'बिम्बाश्चलहेम'. ३. 'समुद्यत.'

प्रथमः सर्गः । ५
समुद्गतेति ॥ समुद्गतो निर्गतो यः खेदो घर्मस्तेन चिता
व्याप्ता अङ्गसंधयो बाहुमूलादयो यासां तास्तथोक्ताः स-
यौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः
स्त्रियः सांप्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि
विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः क-
ञ्चुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पणैः ।
सवल्लकीकाकलिगीतनिस्वनै-
र्विबोध्यते सुप्त इवाद्य मन्मथः ॥ ८ ॥
सेति। चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत्।
सहितं युक्तं यद्व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः ।
हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्ड-
लानि कुचमण्डलानि तेषामर्पणैः। वल्लक्या वीणया सहिताश्च
ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः।
‘वीणा तु वल्लकी’ इत्यमरः। ‘काकली तु कले सूक्ष्मे’ इत्यमरः।
‘गीतं गानमिमे समे’ इत्यमरः । अद्य मन्मथः कामः सुप्त
इव निद्रित इव । राजेवेत्यर्थः । विबोध्यत उद्बुध्यते ।
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः ।
विलोक्य नूनं भृशमुत्सुकश्चिरं
निशाक्षये याति हियेर्वे पाण्डुताम् ॥ ९ ॥
सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु
१. ‘अर्पितैः.’ २. ‘प्रबुध्यते’, ‘प्रबोध्यते.’ ३. ‘नियन्त्रणम्.’ ४. ‘एव.’

हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि
मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशम-
त्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव ल-
ज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति। नूनमिति वितर्के॥
असह्यवातोद्धतरेणुमण्डला
प्रचण्डसूर्यातपतापिता मही।
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः॥ १०॥
असह्येति॥ प्रियावियोगः कान्तावियोगः स एवानलो-
ऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्त-
थोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो
वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथो-
क्ता। प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन
तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते। गन्तुं
न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः॥
मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कताल्वः।
वनान्तरे तोयमिति प्रधाविता
निरीक्ष्य भिन्नाञ्जनसंनिभं नभः॥ ११॥
मृगा इति॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप
उष्णं तेन तापिताः संतापिताः। महत्या तृषा पिपासया
परिशुष्काः संशुष्कास्तालवो तेषां ते तथोक्ता मृगा हरिणा
१. 'वातोद्धत.'

प्रथमः सर्गः । ७
भिन्नेनाञ्जनेन संनिभं तुल्यं नभ आकाशं निरीक्ष्य वीक्ष्य
तोयं जलमिति शङ्कया वनान्तरेऽन्यद्वने प्रधाविता दुद्रुवुः ॥
सविभ्रमैः सस्मितजिह्मवीक्षितै-
र्विलासवत्यो मनसि प्रवासिनाम् ।
अनङ्गसंदीपनमाशु कुर्वते
यथा प्रदोषाः शशिचारुभूषणाः ॥ १२ ॥
सविभ्रमैरिति ॥ यथा शशिचारुभूषणाः शश्येव चन्द्र एव
चारु सुन्दरं भूषणं येषां ते तथोक्ताः प्रदोषाः संध्यासमयाः
प्रवासिनां मनस्यन्तःकरणेऽनङ्गसंदीपनं कामसंदीपनं कुर्वते ।
तथेत्यध्याहार्यम् । शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारूणि
सुन्दराणि भूषणानि यासां तास्तथोक्ता विलासवत्यो विलासि-
न्यः सविभ्रमैर्विभ्रमसहितैः सस्मितानि सहास्यानि जिह्मानि
कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां
मनस्याशु झटित्यनङ्गसंदीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ॥
रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांसुभिः ।
अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः
फणी मयूरस्य तले निषीदति ॥ १३ ॥
रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । 'किर-
णोस्त्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । अभिता-
पितः संतापितः । भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्ण-
रेजोभिर्विदह्यमानः । अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटि-
लगमनो मुहुर्वारंवारं श्वसञ्छासोच्छ्वासं कुर्वन्फणी सर्पो

१. प्रथम सर्ग: ग्रीष्म वर्णन (दवानल, पिपासा व प्रकृति-दशा)

८ ऋतुसंहारे

मयूरस्य बर्हिणः । 'मयूरो बर्हिणो बर्ही' इत्यमरः ॥
तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥
तृषा महत्या हतविक्रमोद्यमः
श्वसन्मुहुर्दूरंविदारिताननः ।
न हन्त्यदूरेऽपि गजान्मृगेश्वरो
विलोलजिह्वश्चलिताग्रकेसरः ॥ १४ ॥
तृषेति ॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्यो-
द्यम उद्योगो यस्य स तथोक्तः । मुहुर्वारंवारं दूराद्विदारितं
विस्तारितमाननं मुखं येन स तथोक्तः । विलोलजिह्वश्चलिताश्च-
ञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः ।
सिंहो मृगेन्द्रः पञ्चास्यः' इत्यमरः । अदूरेऽपि । समीपे वर्त-
मानानिति शेषः । गजान्मातङ्गान्न हन्ति न मारयतीत्यर्थः ।
न हि जायते स्वस्मिन्क्लेशिते परहनने प्रवृत्तिरिति भावः ॥
विशुष्ककण्ठाहृतसीकराम्भसो
गभस्तिभिर्भानुमतोऽनुतापिताः ।
प्रवृद्धतृष्णोपहता जलार्थिनो
न दन्तिनः केसरिणोऽपि बिभ्यति ॥ १५ ॥
विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकरा-
म्भस्तुषारजलं यैस्ते तथोक्ताः । भानुमतः किरणमालिनः
सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः संतापिताः । प्रवृद्धतृ-
ष्णयात्यधिकपिपासयोपहताः पीडिता अतएव जलार्थिनो


१. 'भूरि.' २. 'मृगम्.' ३. 'मृगाधिपः' ४. 'चलितखकेसरः.'
५. 'कण्ठाहत'; 'कण्ठोद्धत.' ६. 'अभितापिताः.'

प्रथमः सर्गः ९
जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न
बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥
हुताग्निकल्पैः सवितुर्गभस्तिभिः
कलापिनः क्लान्तशरीरचेतसः ।
न भोगिनं घ्नन्ति समीपवर्तिनं
कलापचक्रेषु निवेशिताननम् ॥ १६ ॥
हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुत-
श्चासावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति
यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च
येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्ड-
लेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपव-
र्तिनं भोगिनं सर्पं न घ्नन्ति न मारयन्तीत्यर्थः ॥
³सभद्रमुस्तं ⁴परिशुष्ककर्दमं
सरः खनन्नायतपोतृ⁵मण्डलैः ।
६रवेर्मयूखैरभितापितो भृशं
वराहयूथो विशतीव भूत लम् ॥ १७ ॥
सभद्रेति ॥ भद्रमुस्तेन 'भद्रमोथा' इति प्रसिद्धेन
सहितं परिशुष्कः कर्दमः पङ्को यस्मिंस्तत्तथोक्तं सरः सरो-
वरमायतानि दीर्घाणि यानि पोतृमण्डलानि तैः कृत्वा ख-
नन् । रवेः सूर्यस्य मयूखैः किरणैर्भृशमत्यन्तमभितापितः
संतापितो वराहयूथः सूकरसमूहः । 'वराहः सूकरो घृष्टिः'
इत्यमरः । भूतलं भूगर्भं विशतीव प्रविशतीवेत्युत्प्रेक्षा ॥
१. 'मरीचिभिः.' २. 'चेतनाः.' ३. 'सुभद्रमुस्तम्.' ४. 'परिपण्डू.'
५. 'पोत्र.' ६. 'प्रदीप्तभासा रविणाभितापितः.'
२

१० ऋतुसंहारे
विवस्वता तीक्ष्णतरांशुमालिना
सपङ्कतोयात्सरसोऽभितापितः ।
उत्प्लुत्य भेकस्तृषितस्य भोगिनः
फणातपत्रस्य तले निषीदति ॥ १८ ॥
विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मालते
शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः ।
‘भेके मण्डूकवर्षाभू-’ इत्यमरः । पङ्कतोयेन कर्दमजलेन
सहितं युक्तं तस्मात्तथोक्तात्सरसः सरोवरादुत्प्लुत्य तृषितस्य
भोगिनः पन्नगस्य । ‘उरगः पन्नगो भोगी’ इत्यमरः ।
फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति तिष्ठतीत्यर्थः॥
समुद्धृताशेषमृणालजालकं
विपन्नमीनं द्रुतभीतसारसम् ।
परस्परोत्पीडनसंहतैर्गजैः
कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९ ॥
समुद्धृतेति ॥ समुद्धृतं निष्काशितमशेषं संपूर्णं मृणालजालकं
बिससमूहो यस्मात्तथोक्तं विपन्नमीनं समापन्नमीनं द्रुताः
पलायिता भीताश्च ते सारसाश्च यस्मात्तथोक्तं सरः सरोवरं
परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निबिडो विमर्दः
सङ्ग्रामः कर्दमः पङ्कश्च यस्मिंस्तत्तथा । यद्वा । सान्द्रो निबिडो
विमर्देन सङ्ग्रामेण कर्दमः पङ्को यस्मिंस्तत्तथा भूतमित्यर्थः॥
रविप्रभोद्भिन्नशिरोमणिप्रभो
विलोलजिह्वाद्वयलीढमारुतः ।
१. ‘तीव्रतर.’

प्रथमः सर्गः । ११
विषाग्निसूर्यातपतापितः फणी
न हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥
रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गताः शिरो-
मणेर्मूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । विलोलेन
चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः पवनो येन
स तथोक्तः । विषाग्निसूर्यातपतापितो विषं गरलमग्निर्दावा-
नलः सूर्यातप उष्णं तैस्तापितोऽतएव तृषाकुलः फणी सर्पो
मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः ॥
सफेनलोलायतवक्त्रसंपुटं
²विनिःसृतालोहितजिह्वमुन्मु³खम् ।
तृषाकुलं निःसृतमद्रिगह्वरा-
⁵दैवेक्ष्यमाणं महिषीकुलं जलम् ॥ २१ ॥
सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं वक्त्रसंपुटं
मुखसंपुटं यस्य तत्तथोक्तम् । विनिःसृता निर्गता आसमन्ता-
ल्लोहिता रक्ता जिह्वा यस्य तत्तथोक्तमुन्मुखमूर्ध्वमुखम् ।
तृषा पिपासयाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं
निरीक्ष्यमाणं महिषीकुलमद्रिगह्वराद्द्रिगह्वरान्निस्सृतं निर्गत-
मित्यर्थः । 'अद्रिगोत्रगिरिग्रावा—' इत्यमरः ॥
पटुतरदवदाहोच्छुष्कसँस्यप्ररोहाः
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः ।
१. 'लालावृत.' २. 'विनिर्गता.' ३. 'उत्सुकम्.' ४. 'कन्दरात्.'
५. 'गवेषमाणम्.' ६. वनदाहात्प्लुष्ट.' ७. 'शष्प.' ८. 'वेगात्.'

१२ ऋतुसंहारे
दिनकरपरितापक्षीणतोयाः समन्ता-
द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः॥२२॥
पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दाहो-
च्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते
तथोक्ताः। परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्ता-
न्यूर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः।
समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि
येषु ते तथोक्ताः। उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना
वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः । मालिनीवृत्तमेतत् ।
तल्लक्षणं तु—'ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् ।
भ्रमति गवययूथः सर्वतस्तोयमिच्छ-
ञ्छरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात्॥२३॥
श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि
यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथो-
क्तो विहगवर्गः पक्षिसमुदायः श्वसिति श्वासोच्छ्वासं करोति ।
क्लान्तं म्लानं कपिकुलं वानरसमूहोऽद्रेः पर्वतस्य निकुञ्जं
लतागृहम् । 'निकुञ्जकुञ्जौ वा क्लीबे' इत्यमरः । उपयाति
गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः
समुदायस्तोयं जलमिच्छन्सर्वत इतस्ततो भ्रमति । अजि-
ह्ममकुटिलं शरभानां कुलं शरभा अष्टापदपक्षिविशेषास्तेषां
१. 'परितापात्.' २. 'निकुञ्जे.'

प्रथमः सर्गः । १३
कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
१प्रबलपवनवेगोद्भूत२वेगेन तूर्णम् ।
तटविटपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥
विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्त-
द्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य
तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो
यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां
लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन
तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं
भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥
३ज्वलति पवनवृद्धः४ पर्वतानां५ दरीषु
स्फुटति पटुनिनादैः६ शुष्कवंशस्थलीषु ।
प्रसरति तृणमध्ये७ लब्धवृद्धिः क्षणेन
८ग्लपयति मृगवर्गं९ प्रान्तलग्नो दवाग्निः ॥२५॥
ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धिं प्राप्तो दवा-
ग्निर्दवानलः । ‘दवदावौ वनानिलौ’ इत्यमरः । पर्वतानां
दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु
ताः स्थल्यः अकृत्रिमभूमयस्तासु पटुनिनादैः स्फुटतरध्वनिभिः
स्फुटति विकाशभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा
१. ‘परुष.’ २. ‘वेगोद्धत.’ ३. ‘ध्वनति.’ ४. ‘विद्धः.’ ५. ‘पर्व-
तान्तर्द्दरीषु.’ ६. ‘पटुनिनादः.’ ७. ‘तृणमध्यम्.’ ८. ‘क्षपयति.’
९. ‘मृगयूथम्.’

१४ ऋतुसंहारे
प्राप्ता वृद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति । तथा प्रान्तलग्नः
सन्मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।
१परिणतदलशाखानुत्पतन्प्रांशुवृक्षा-
न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥
बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचु-
ररूपो जात इव स्फुरति । द्रुमाणां कोटरेषु शाखागह्वरेषु
कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः
कम्पितः सन्नत एव परिणताः परिपक्वा दलानि पर्णानि
शाखाश्च येषां तांस्तथोक्तान्प्रांशुवृक्षानुन्नतद्रुमानुत्पतन्सन् ।
सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥
गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः
सुहृद इव २समेता द्वन्द्वभावं विहाय ।
हुतवहपरिखेदादाशु निर्गत्य कक्षा-
द्विपुलपुलिनदेशान्निम्नगां ३संविशन्ति ॥२७॥
गजेति ॥ वह्निना दावाग्निना संतप्तो देहः शरीरं येषां ते
तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो
मित्राणीव समेताः संगता गजगवयमृगेन्द्रा गजो हस्ती
गवयो गोसदृशो मृगविशेषो मृगेन्द्रः सिंहश्च ते हुतवहस्य
वह्नेः परिखेदात्संतापात् । यद्वा हुतवहस्य परिखेदो यत्र
तस्मात्तथोक्तात् । कक्षाद्गिरिगह्वरादाशु झटिति निर्गत्य वि-
१. ‘परिणवदलशाखादुत्पतत्याशु वृक्षात्.’ २. ‘समन्तात्.’ ३. आ-
श्रयन्ते.’

प्रथमः सर्गः । १५
पुलो महान्पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तां निम्नगां
नदीं संविशन्त्याश्रयन्त इत्यर्थः ॥
कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः१।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ २८ ॥
कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्त-
स्याः संबोधन हे सुललितगीते । कमलानां पङ्कजानां वनेन
समुदायेन चितं व्याप्तमम्बु जलं यस्मिन्स तथोक्तः । पाट-
लानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मि-
न्स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति ।
सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन्स तथोक्तः।
सेव्याः सेवितुं योग्याश्चन्द्रस्यांशवः किरणा हाराः कुसुममा-
लाश्च यस्मिन्स तथोक्तः कामिनीभिः समेतो युक्तो निदाघो
निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव
व्रजतु गच्छत्वित्यर्थः ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
ग्रीष्मवर्णनं नाम प्रथमः सर्गः ।
१. 'जालः.' २. 'सुललितगीतैः.'

१६ ऋतुसंहारे
द्वितीयः सर्गः।
अथ क्रमप्राप्तं वर्षाकालं वर्णयति—
ससीकराम्भोधरमत्तकुञ्जर-
स्तडित्पताकोऽशनिशब्दमर्दलः।
समागतो राजवदुद्धतद्युति-
र्धनागमः कामिजनप्रियः प्रिये ॥ १ ॥
ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भो-
धरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स
तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति ।
'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तडिद्विद्युदेव पताका
यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । 'तडि-
त्सौदामिनी विद्युत्' इत्यमरः । अशनिशब्द एव मर्दलः ।
पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो
वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः
कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागत आगत
इत्यर्थः । वंशस्थं वृत्तम् । लक्षणं तूक्तम् ॥
नितान्तनीलोत्पलपत्रकान्तिभिः ।
क्वचित्प्रभिन्नाञ्जनराशिसंनिभैः ।
क्वचित्सगर्भप्रमदास्तनप्रभैः
समाचितं व्योम घनैः समन्ततः ॥ २ ॥
नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि
यान्युत्पलानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव
१ 'वारणः' २. 'उन्नतध्वनिः'

द्वितीयः सर्गः । १७
कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्ज-
नराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां
गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्र-
भा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्त-
तः समाचितं व्याप्तमित्यर्थः ॥
तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुधोरवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥
तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां
कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणा-
वलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां
यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य
मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाह-
का मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्य-
मरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ॥
बलाहकाश्चाशनिशब्दमर्दलैः
सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
सुतीक्ष्णधारापतनोग्रसायकै-
स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ४ ॥
बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य
शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः ।
तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या
१. 'नव.' २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.'
५. 'ध्वनिभिः.'

१८ ऋतुसंहारे
शिञ्जिनी गुणः' इत्यमरः । सुरेन्द्रचापमिन्द्रधनुः । 'धनुश्चापौ
धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । दधतो धारयन्तो
बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्ये-
वोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां
चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ॥
प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः ।
विभाति शुक्लेतररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥
प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृ-
शास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि
निर्गतानि यानि कन्दलीनां दलानि पत्राणि तैः । 'द्रोणपर्णी
स्निग्धकन्दा कन्दली' इति शब्दार्णवः । इन्द्रगोपकैः कृमि-
विशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री । 'धरा धरित्री
धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । शुक्लेतरैः
कृष्णादिवर्णै रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तम-
नायिकेव विभाति शोभत इत्यर्थः ॥
सदा मनोज्ञं स्वनदुत्सवोत्सुकं
विकीर्णविस्तीर्णकलापशोभितम् ।
ससंभ्रमालिङ्गनचुम्बनाकुलं
प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६ ॥
१. 'मनोज्ञस्तनितोत्सुखोन्मुखम्'; 'मनोज्ञाम्बुदनादसोत्सुकम्.'
२. 'विभाति.' ३. 'सविभ्रमा.'

द्वितीयः सर्गः । १९
सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं स्वनच्छब्दायमा-
नमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यद्गोत्सवे हर्ष उत्सुकमु-
त्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः
कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं
परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिनां
कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥
निपातयन्त्यः १ परितस्तटद्रुमा-
न्प्रवृद्धवेगैः २ सलिलैरनिर्मलैः ।
स्त्रियः ३ सुदुष्टा इव ४ जातिविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७ ॥
निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाह उत्साहो वा
येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलैर्ला-
वण्यजलैर्वा । 'सलिलं कमलं जलम्' इत्यमरः । परितः स-
मन्ततस्तटद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभिभावकान्वा
निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रिय
इव जात उत्पन्नो विभ्रमः शृङ्गारादिचेष्टाभेदो यासां तास्त-
थोक्ताः । जातविभ्रमाः समुत्पन्नभ्रमविशिष्टाः नद्यस्त्वरितं
शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥
तृणोत्करैरुद्गतकोमलाङ्कुरै- ३
र्विचित्रैनीलैर्हरिणीमुखक्षतैः ।
१. 'विपाटयन्त्यः' २. 'प्रहृष्टाः'; 'प्रकामाः'. ३. 'तृणोद्गमैः'
४. 'चितानि.' ५. 'लेखैः'.

२० ऋतुसंहारे
वनानि वैन्ध्यानि हरन्ति मानसं
विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥ ८ ॥
तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां
तैस्तथोक्तैः । विचित्रनीलैर्हरिणीमुखैः क्षता खण्डितास्तैस्त-
थोक्तैस्तृणोत्करैरुद्गता निर्गताः पल्लवाः किसलयानि येषां
तैस्तथोक्तैः । ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः । द्रुमैर्वृक्षैः
कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसंबंधीनि
वनानि काननानि । ‘गहनं काननं वनम्’ इत्यमरः । मान-
समन्तःकरणं हरन्तीत्यर्थः ॥
विलोलनेत्रोत्पलशोभिताननै-
र्मृगैः समन्तादुपजातसाध्वसैः ।
समाचिता सैकतिनी वनस्थली
समुत्सुकत्वं प्रकरोति चेतसः ॥ ९ ॥
विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पला-
न्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि
वदनानि येषां तैस्तथोक्तैः । ‘वक्त्रास्ये वदनं तुण्डमाननं
लपनं मुखम्’ इत्यमरः । उपजातसाध्वसैः संजातभयैर्मृगैर्ह-
रिणैः । ‘मृगे कुरङ्गवातायुहरिणाजिनयोनयः’ इत्यमरः ।
समन्तादितस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंब-
न्धिनी वनस्थल्यकृत्रिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सु-
कत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः ॥
१. ‘रम्याणि’. २. ‘पल्लवद्रुमैः’. ३. ‘शैवलिनी’.

द्वितीयः सर्गः । २१
^१अभीक्ष्णमुच्चैर्ध्व^२नता प^३योमुचा
घ^४नान्धकारीकृतशर्वरीष्वपि ।
तडित्प्रभादर्शितमार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १० ॥
अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । 'मुहुर्मुहुः पुनः
शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । उच्चैरुच्चस्वरेण ध्वनता
शब्दं कुर्वता पयोमुचा मेघेन घनान्धकारीकृतशर्वरीष्वप्यघना-
न्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वर्यो
रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शिता
मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागा-
त्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्ती-
त्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन—'कान्तार्थिनी
तु या याति संकेतं साभिसारिका' इति ॥
पयोधरैर्भीमगभीरनिस्वनै-
स्त^५डिद्भिरुद्वेजितचेतसो भृशम् ।
कृतापराधानपि योषितः प्रिया-
न्परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥
पयोधरैरिति ॥ भीमो भयानकोगभीरो गम्भीरो निस्वनो
निर्घोषो येषां तैस्तथोक्तैः । 'स्वाननिर्घोषनिर्ह्रादनादनिस्वान-
निस्वनाः' इत्यमरः । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशम-
त्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता यो-
षितो नार्यः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी
१ 'सुतीक्ष्णम्'. २ 'ध्वनताम्'. ३ 'पयोमुचाम्'. ४ 'घनान्ध-
कारावृत'. ५ 'ध्वनद्भिः'.
३

२२ ऋतुसंहारे
वधूः' इत्यमरः । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणा-
दियैस्तांस्तथोक्तानपि प्रियाञ्शयने निरन्तरं निरवकाशं यथा
भवति तथा परिष्वजन्त आलिङ्गन्त इत्यर्थः ॥
विलोचनेन्दीवरवारिविन्दुभि-
र्निषिक्तबिम्बाधरचारुपल्लवाः ।
निरस्तमाल्याभरणानुलेपनाः
स्थि¹ता निराशाः प्रमदाः प्रवासिनाम् ॥१२॥
विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलो-
त्पलानीवेति विलोचनेन्दीवराणि तेषां ये वारिविन्दवो जल-
बिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृ-
शाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बप-
देनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि
त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दना-
दीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो
निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थि-
ता आसन्नित्यर्थः ॥
विपा²ण्डुरं कीटरजस्तृणान्वितं
भुजंगवद्वक्रगतिप्रसर्पितम् ।
ससाध्वसैर्भेककुलैर्निरीक्षि³तं
प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥
विपाण्डुरमिति ॥ विपाण्डुरं पाण्डुरवर्णं कीटांश्च रजांसि
च तृणानि च तैरन्वितं युक्तं भुजंगवत्सर्पवद्वक्रगतिस्तिर्यग्ग-
१ 'कृताः'. २ 'विपाण्डवम्'. ३ 'विलोकितम्'.