ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 8, कुल 91 में से
संदर्भ में पढ़ेंप्रथमः सर्गः । ५
समुद्गतेति ॥ समुद्गतो निर्गतो यः खेदो घर्मस्तेन चिता
व्याप्ता अङ्गसंधयो बाहुमूलादयो यासां तास्तथोक्ताः स-
यौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः
स्त्रियः सांप्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि
विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः क-
ञ्चुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पणैः ।
सवल्लकीकाकलिगीतनिस्वनै-
र्विबोध्यते सुप्त इवाद्य मन्मथः ॥ ८ ॥
सेति। चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत्।
सहितं युक्तं यद्व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः ।
हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्ड-
लानि कुचमण्डलानि तेषामर्पणैः। वल्लक्या वीणया सहिताश्च
ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः।
‘वीणा तु वल्लकी’ इत्यमरः। ‘काकली तु कले सूक्ष्मे’ इत्यमरः।
‘गीतं गानमिमे समे’ इत्यमरः । अद्य मन्मथः कामः सुप्त
इव निद्रित इव । राजेवेत्यर्थः । विबोध्यत उद्बुध्यते ।
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः ।
विलोक्य नूनं भृशमुत्सुकश्चिरं
निशाक्षये याति हियेर्वे पाण्डुताम् ॥ ९ ॥
सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु
१. ‘अर्पितैः.’ २. ‘प्रबुध्यते’, ‘प्रबोध्यते.’ ३. ‘नियन्त्रणम्.’ ४. ‘एव.’