सामग्री पर जाएँ
सर्वकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 6, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 6

प्रथमः सर्गः । ३
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥
सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले
निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः ।
सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं
हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्यो-
च्छ्वासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमु-
द्दीपकं सुतन्त्रिणा गीतं गानं च । 'गीतं गानमिमे समे'
इत्यमरः । अनुभवन्त्यास्वादयन्तीत्यर्थः । एतेनापि ग्री-
ष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥
नितम्बबिम्बैः संदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४ ॥
नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मे-
खला रसनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः क-
टिपश्चाद्भागैः । 'पश्चान्नितम्बः स्त्रीकट्याः' इत्यमरः । हारा-
आभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दन-
लिप्तैः स्तनैः । स्नाने स्नानकाले यः कषायो लापितसुगन्धि-
द्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः
कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥
नितान्तलाक्षारसरागरञ्जितै-
र्नितम्बिनीनां चरणैः सनूपुरैः ।
१. 'सुदुकूल.' २. 'लोहितैः.'