ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः
सामान्याच्च गतेरधाप्यनुभवे विद्योतते शंकरः ॥ २.८॥
श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमा-
सनाथो नाथानां स च किल न कश्चिज्जनिभवः ।
स एवानन्दात्मा श्रुतिकथितकोशादिरहितो
विकारप्राचुर्यान्न हि भवति कार्यं च करणं ॥ २.९॥
तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृत्
मन्त्रैर्वर्णकृत्क्रमेण भगवान् सत्याद्यनन्तोच्यते ।
नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः
कामाच्चाननुभावतो ह्यदि भिदा जायेद्द्वयं संसृतेः ॥ २.१०॥
पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेशी महेशोऽव्ययः ।
आकाशान्तरतोऽपि भौतिकहृदाकाशात्कृता वाक्यतो
ब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पितः ॥ २.११॥
सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवे
अतोत्थानं द्वैते न भवति परे वै विलयने ।
तदर्हं यत्स्वप्नं जगदिदमनाकारमरसं
न गन्धं न स्पर्शं भवति परमेशे विलसितं ॥ २.१२॥
अभिनं चार्थं तद्भवति पुनरेवेक्षणपरं
स्वतन्त्रेच्छा शम्भोर्न खलु करणं कार्यमपि न ॥ २.१३॥
ज्ञेयत्वावचनाच्च शंकर परानन्दे प्रमोदास्पदे
प्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् ।
न विज्ञेयं देहप्रविलयशतोत्थानगणना
स मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २.१४॥
महद्वच्चाणीयो भवति च समो लोकसदृशा
तथा ज्योतीन्येकं प्रकरणपरं कल्पितवतः ।
न संख्याभेदेन त्रिभुवनविभवादतिकरं
स्वभावोऽयं शश्वन्मुखरयति मोदाय जगतां ॥ २.१५॥
प्राणादुद्धतपञ्चसंख्यजनिता तद्वृप्तिवच्च श्रुतं
तच्चोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।
ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहं
चाकर्मा भवति प्रकर्षजनिते त्वप्रीति वाक्योत्तरं ॥ २.१६॥
जाग्रत्यावचनेन जीवजगतोर्भेदः कथं कथ्यते
लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।
अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः ।
प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २.१७॥
प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं
अभिध्योपादेशाद् भवति उभयाम्नायवचनैः ।
भवत्यात्मा कर्ता कृतिविरहितो योनिरपि च
प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २.१८॥
अभिध्योपादेशात् स बहु भवदीक्षादिवशतः
समासाचोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।
अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां
मृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २.१९॥
आनन्दाभ्यासयोगाद्व्यकृतजगदानन्दजगतो
अतो हेतोर्धर्मो न भवति शिवः कारणपरः ।
हिरण्यात्त्मोऽदित्येऽक्षिणि उदेतीह भगवान्
नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २.२०॥
भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत् किं ततः
आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।
तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो
वेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २.२१॥
भूतादिव्यपदेशतोऽपि भगवत्यस्मिन् महेशे ध्रुवं
यस्माद्भूतवराणि जायत इति श्रुत्योऽस्य लेशांशतः ।
विश्वं विश्वपतेरभूत् तदुभयं प्रामाण्यतो दर्शनात्
प्राणस्यानुगमात् स एव भगवान् नान्यः पथा विद्यते ॥ २.२२॥
न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितः
तथैवायुर्देहे अरणिवहवत् चक्रगमहो ।
अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रिनिवहैः
शिवो देवो वामो मुनिरपि च सारात्यामभजत् ॥ २.२३॥
प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो
महाभूतैर्जातं जगदिति च तज्जादिवचनैः ।
अतोऽणीयान् ज्यायानपि द्विविधभेदव्यपगता
विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २.२४॥
संभोगप्राप्तिरेव प्रकटजगतः कारणतया
सदा व्योमैवेत्थं भवति हृदये सर्वजगतां ।
अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं
महामृत्युर्देशो भवति शिखरन्याद इति च ॥ २.२५॥
प्रकरणवचनेन वेदजाते
भगवति भवनाशने महेशे ।
प्रविशति शिव एव भोगभोक्तृ-
नियमनदर्शनतो हि वाक्यजातं ॥ २.२६॥
विशेषणैः शंकरमेव नित्यं
द्विधा वदत्येवमुपाधियोगात् ।
अतोऽन्तरा वाक्यपदैः समर्थिः
स्थानादियोगैर्भगवानुमापतिः ॥ २.२७॥
सुखाभिधानात् सुखमेव शंभुः
कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।
श्रुतोपवाक्योपनिषत्प्रचोदितः
गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २.२८॥
अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।
भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमंति ॥ २.२९॥
अंतर्यामितयैव लोकमखिलं जानात्युमायाः पतिः ।
भूतेष्वंतर्गतोऽपि भूतनिवहो नो जानते शंकरं ॥ २.३०॥
न तत्स्मृत्या धर्मैरभलषणतो भेदविधुरं
न शारीरं भेदे भवति अगजानायकवरे ।
अदृश्यत्वाद्धर्मैः खलु भगवानन्यदिति च
परादादित्यं चामतिरपि च भेदप्रकलने ॥ २.३१॥
भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।
भावो वा भवति प्रभाविरहितं ब्रह्मेत्यना चाह तत् ॥ २.३२॥
स्मृतं मानं शंभौ भगवति च तत्साधनतया-
प्यतो दैवं भूतं न भवति च साक्षात् परशिवे ।
अभिव्यक्तौ चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते
तथा संपत्तिर्यैर्भुवि भवति किं शंभुकलने ॥ २.३३॥
यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते
भ्यद्वेद्धंधिरपि प्रकीर्णवचनात् सांख्यैव बाह्यांतरा ।
शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन च
तच्चाप्युत्क्रमणस्थितिश्च विलये भुङ्क्त्येऽप्यसौ शंकरः ॥ २.३४॥
तं भूमा संप्रसादाच्छिवमजरमात्मानमधुना
शृणोतीक्ष्येद्वापि क्षणमपि तथान्यं न मनुते ।
तथा धर्मापत्त्वीर्भवति परमाकाशजनितं
प्रशस्तं व्यावृतं दहरमपि दध्याद्यपदिशत् ॥ २.३५॥
अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं
धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।
अतो मर्यान्नायं भवति भवभावात्मकतया
शिवाविर्भावो वा भवति च निरूपे गतधियां ॥ २.३६॥
परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो
निरुक्तं चाल्यं यत् त्यनुकृति तदीयोऽपिहि महसा ।
विभातीदं शश्वत् प्रमतिवरशब्दैः श्रुतिभवैः ॥ २.३७॥
यो व्यापकोऽपि भगवान् पुरुषोऽन्तरात्मा ।
वालाग्रमात्रहृदये किमु संनिविष्टः ॥ २.३८॥
प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं
मानेनापि च संभवात्प्रमपरो वर्गं तथैवाह हि ।
शब्दं चापि तथैव नित्यमपि तत् साम्यानुपत्तिक्रिया
मध्वादिष्वनभिक्यतोऽपि पुरुषो ज्योतिश्चभावो भवेत् ॥ २.३९॥
भावं चापि शुगस्य तच्छ्रवणतो जात्यन्तरासंभवात्
संस्काराधिक्यतोऽपि शंकरपदं ये वक्तुकामा मनाक् ।
ज्योतिर्दर्शनतः प्रसादपरमादस्माच्चिरात् परं
ज्योतिश्चाभिनिविश्य व्योम परमानन्दं परं विन्दति ॥ २.४०॥
स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्न्यवचसा
स एवात्मा दोषैर्विगतमतिकायः परशिवः ।
स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया
समस्तेषु प्रोतो भवति स हि कार्येषु करणं ॥ २.४१॥
प्रधानानां तेषां भवति इतरेषामनुपमो-
प्युलब्धोऽप्यात्म्यां श्रुतिशिरसि चोक्तोऽणुरहितः ।
स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं
असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगं ॥ २.४२॥
असंगो लक्ष्म्याः स भवति हि पंचस्वपि मुधा
अभिमानोद्देशादनुगतिरधाक्षादिरहितः ।
स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं
त्वनिर्मोक्षो भूयादनुमितिकतर्केर्न हि भवेत् ॥ २.४३॥
भोक्तापत्तेरपि विषयतो लोकवेदार्थवादो
नैनं शास्ति प्रभुमतिपरं वाचि वारारंभणेभ्यः ।
भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत्
सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ २.४४॥
युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणं
प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।
परः प्राणोद्देशाद्द्वितकरणदोषाभधिया
तथाश्चाद्या दिव्या ??? द्योतंति देवा दिवि ॥ २.४५॥
प्रसक्तिर्व्या कृत्स्ना श्रुतिवरबलादात्मनि चिरं
स्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।
विकाराणां भेदो न भवति वियोज्यो गुणधियां
अतो लोके लीलापरविषमन्यैर्घ्यविधुरं ॥ २.४६॥
स कार्वारंभाद्या उपलभति यद्येति च परं
सर्वैर्धर्मदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।
भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुक्
अवस्थानं नैव प्रभवति तृणेषूद्यतमते-
स्तथाभावात् पुंसि प्रकटयति कार्यं च करणं ॥ २.४७॥
अंगीत्यानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत्
प्रतिषिद्धे सिद्धे प्रसभमिति मानं हि शरणं ।
महाद्दीर्घं ह्रस्वं उभयमपि कर्मैव करणे
तथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतं ॥ २.४८॥
न स्थानतोऽपि श्रुतिलिंगसन्वयेन
प्रकाशवैयर्ध्यमतो हि मात्रा ।
सूर्योपमा प्रमवतिव्यतथा उदत्वा-
त्तद्दर्शनाच्च नियतं प्रतिबिंबरूपं ॥ २.४९॥
तदव्यक्तं न ततो लिंगमेतत्
तथोभयव्यपदेशाच्च तेजः ।
प्रतिषेधाच्च परमः सेतुरीशः
सामान्यतः स्थानविशेषबुद्ध्या ॥ २.५०॥
विशेषतश्चोपपत्तेस्तथान्यदतः फलं चोपपद्येत यस्मात् ।
महेश्वराच्छ्रुतिभिborder: महेश्वराच्छ्रुतिभिश् चोदितं यत् धर्मं परे चेश्वरं चेति चान्ये ।
न कर्तृवच्चेश्वरे भेदधीर्भः ॥ २.५१॥
भेदान्न चेति परतः परमार्थदृष्ट्या
स्वाध्यायभेदादुपसंहारभेदः ।
अथान्यथात्वं वचसोऽसौ वरीयान्
संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ २.५२॥
सर्वत्राभेदादनयोस्तथान्यत्
प्राधान्यमानन्दमयः शिरस्त्वम् ।
तथेतरे त्वर्थसामान्ययोगात्
प्रयोजनाभावतयाऽप्ययाय ते ॥ २.५३॥
शब्दात्तथा ह्यात्मगृहीतिरुत्तरात्
तथान्वयादितराभ्यानपूर्वम् ।
अशब्दत्वादेवमेतत् समान-
मेवं च संविद्व्यचनाविशेषात् ॥ २.५४॥
तद्दर्शनात् संख्यतं चैवमेषोऽनाम्नायाद्येद्यभेदात् परेति ।
गतेरर्थादुपपन्नार्दलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ २.५५॥
यथाधिकारं स्थितिरेव चान्तरा
तत्रैव भेदाद्विशशीन्वितरवत् ।
अन्यत्तथा सत्यकृत्या तथैके
कामादिरत्रायतनेषु चादरात् ॥ २.५६॥
उपस्थिते तद्वचनात् तथाग्नेः
संलोप एवाग्निभवः प्रदाने ।
अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः
क्रिया परं चासमानाच्च दृष्टेः ॥ २.५७॥
श्रुतेर्बलादनुबन्धेमखे वै
भावापत्तिश्चात्मनश्चैक एव ।
तद्भावभावादुपलब्धिरीशे
सद्भावभावादनुभावतश्च ॥ २.५८॥
अङ्गावबद्धा हि तथैव मन्त्रतो
भूम्नः क्रतोर्जायते दर्शनेन ॥ २.५९॥
रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं
अग्राह्यः सकलानपेक्षकरणं प्राधान्यावादेन हि ।
तत्प्राप्तिः समुदायेकेऽपि इतरे प्रत्ययिकेनापि यत्
विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ २.६०॥
दोषोभयोरपि तदा स्वगमोऽभ्युपेया ।
स्मृत्या सतो दृशि उदासीनवद्व्रजेत ॥ २.६१॥
नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्याद्यदिवत्
भावेनाप्युपलब्धरीशितुरहो सो वै क्षणं कल्पते ।
सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः ।
कार्येष्वान्हात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ २.६२॥
सम्बन्धानुपपत्तितोऽपि समधिष्ठानोपपत्तेरपि
तच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्गज्ञता ।
उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि
??? निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ २.६३॥
अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया
कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।
शब्दैर्भ्योप्यमतं श्रुतं भवति तद् ज्ञानं परं शांभवं
यावल्लोकविभागकल्पनवशात् भूतक्रमात् सर्जति ॥ २.६४॥
तस्यासंभवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः
चापः क्ष्मा मरुदेव भात्यकथयंत्तल्लिङ्गसंज्ञानतः ॥ २.६५॥
विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।
न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ २.६६॥
नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।
संज्ञान एवात्र गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥ २.६७॥
स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं
विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।
गुणादालोकेषु व्यतिकरवतो गन्धवहतः
परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ २.६८॥
यावच्चात्मा नैवा दृश्येत दोषैः
पुंस्वादिवत्सतो व्यक्तियोगात् ।
मनोऽन्यत्रायदि कार्येषु गौणं विमुखः
कर्ता शाश्वतो विहरति उपादानवशतः ॥ २.६९॥
అస్వాతन्त्र्यव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदत्
उपालब्धुं शक्तेर्विपरति समाध्याक्षुभितया ।
परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया
परो मन्त्रो वर्जेर्गवति अनुज्ञापरिहारौ ।
तनोः सम्बन्धेन प्रविशति परं ज्योतिकलने ॥ २.७०॥
असन्नतेर्व्यतिकरं पररूपभेदे
आभास एव सुदृशा नियतो नियम्यात् ।
आकाशवत् सर्वगतोऽव्ययात्मा
आसन्धिभेदात् प्रतिदेशभावात् ॥ २.७१॥
तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलना-
दघुस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।
हस्तादयस्त्वाणवः प्राणवायोः
चक्षुस्था करणत्यान्न दोषः ॥ २.७२॥
यः पञ्चवृत्तिर्यनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।
भेदश्रुतेर्लक्षणविप्रयोगात्ताद्यादिभेदे तु विशेष वादः ॥ २.७३॥
आत्मकत्वात् प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्वान्न चेष्टा ।
भोक्तुर्मश्च चात्यन्यविदित्कृता ये ते धूममार्गेण किल प्रयान्ति ॥ २.७४॥
चरणादिति चान्वकल्पनां स्मरन्ति सप्तैव गतिप्ररोहत् ।
व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धां ॥ २.७५॥
तद्दर्शनं तद्ददतोऽप्यविद्या सर्वोपपत्तेरुत दौविशेषात् ।
चिरन्तपः शुद्धिरतो विशेषात् ते स्थावरे चाविशेषार्थवादः ॥ २.७६॥
सन्ध्यांशसृष्ट्वा किल निर्ममे जगत् पुत्रेषु मायामयतोऽव्ययात्मा ।
कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातं ।
जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दं तिरोधानकृत् ॥ २.७७॥
देहयोगात् ह्रासते वर्धते यः
तत्त्वैवान्यत् पश्यते सोऽथ बोधात् ।
स शोशुचानस्यतिशब्दबोधः ॥ २.७८॥
नानाशब्दादिभेदात् फलविविधमहाकर्मवैचित्रयोगात्
ईप्से तां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।
तद्दर्शनात् सिद्धित एव सिद्यते आचारयोगादृततच्च्युतेश्च ॥ २.७९॥
वाचा समारम्भणतो नियामतः
तस्याधिकाप्राप्यतस्योपदेशात् ।
तुल्यं दृशा सर्वतः स्याद्विभागः
अध्यापयात्रान्नविशेषतस्तु ते ॥ २.८०॥
कामोपमर्देन तदूर्ध्वरेतसा
विमर्शतो याति स्वतत्त्वतोऽन्यः ।
अनुष्ठेयं चान्यत् श्रुतिशिरसि निष्ठाभ्रमवशात् ।
विधिस्तुत्या भावं प्रवदति
रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥ २.८१॥
प्राणात्यये वापि समं तथान्नं
अबाधतः स्मृतितः कामकारे ।
विहिताश्रमकर्मतः सहैव कार्यात्
तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥ २.८२॥
तदान्तरा चापि स्मृतेर्विशेषतः
ज्यायोऽपि लिङ्गाभयभावनाधिका ।
सैवाधिकारदर्शनात् तदुक्तं
आचारतः स्वामिन ईज्यवृत्त्या ॥ २.८३॥
स्मृते ऋत्विक्सहकार्यं च कृत्स्नं ।
तन्मौनवाचा वचनेन कुर्वन् ।
तदैहिकं तदवस्थाधृतेश्च ॥ २.८४॥
आवृत्त्याऽसकृत्तथोपदिशति ह्येत्यन्नुपागच्छति
ग्राहं याति च शास्त्रतो प्रतीककलनात् सा ब्रह्मदृष्टिः प्रभोः ।
आदित्यादिकृतिषु तथा सतीरपि कर्माङ्गताध्यानतः
तस्याच्चास्थिरतां स्मरन्ति च पुनर्ह्यत्रैव तत्र श्रुता ॥ २.८५॥
अप्रायाणात् तत्र दृष्टं हि यत्र तत्रागमात् पूर्वयोश्श्लेषनाशौ ।
तथेतरस्यापि पतेदसंस्कृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ २.८६॥
अतोऽन्येषामुभयोरत्र योगात्
विद्याभोगेन वाङ्मनसी दर्शनाच्च ।
सर्वाण्यनुमनसा प्राण एव
सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ २.८७॥
समानवृत्त्या क्रमते चासु वृत्त्या
संसारतो व्यपदेशोपपत्तेः ।
సూక్ష్మప్రమాణోపమర్దోపలబ్ధిస్థితిశ్చ
తథోపపత్తేరేష ఊష్మా రసైకే ॥ २.८८॥
అత్ర స్మర్యనానుపరతావిధివాక్యసిద్ధే-
ర్యైవాసకిర్మునిరేశోఽవ్యవాయాత్మా ।
అవిభాగో వచనాద్గార్ధ ఏవ
రశ్మ్యనుసారి నిశితో దక్షిణాయనే ।
యోగినః ప్రతిస్మృతైస్తదార్చిరాత్
వాయుమద్ధ్వతీతో వరుణేన ॥ २.८९॥
అతివాహికవిదేస్తదలింగాత్ తద్వదత్ర ఉభయోరపి సిద్ధిః ।
తద్వైతేన గతిరప్యుపావృతో విశేషసామీప్యసకార్యహేతౌ ॥ २.९०॥
స్మృతిస్థతాఽన్యోఽపి చ దర్శనేన కాయే తథా ప్రతిపత్తిప్రతీకః ।
విశేషదృష్ట్యా సంపదావిర్భవేన స్వేనాంశత్వాన్ముక్తివిజ్ఞానతో హి ॥ २.९१॥
ఆత్మప్రకాశాదవిభాగేన దృష్టః తద్బ్రహ్మణోఽన్యద్యుతితన్మాత్రతోఽన్యః ।
ఉపన్యాసాదన్యసంకల్పభూత్యా రథవానోఽప్యుభధాహ ॥ २.९२॥
భావమన్యౌ ఉభయం న స్వభావా భావే సంపత్తిరేవం జగత్ స్యాత్ ।
ప్రత్యక్షేణోపదేశాత్ స్థితిరపి
జగతో వ్యక్తిభావాదుపాసా
భేదాభాసస్థితిరవికారావృత్తిరితి చ ॥ २.९३॥
తథా దృష్టేర్దృష్ట్యరిపరీతదృష్టేః శ్రుతివశాత్
తథా బుద్ధేరోద్ధా భవతి అనుమానేన హి బుధః ।
భోగే సామాన్యలింగాత్ శివభజనభవే మాన్యమనసా
అనావృత్తిః శబ్దో భవతి విధివాక్యేన నియతం ॥ २.९४॥
తవోక్తః సూత్రాణాం విధిరపి చ సామాన్యముభయ-
ప్రకృష్ణ శ్రుత్యైవ ప్రభవతి మహానందసదనే ॥ २.९५॥
స్కందః –
త్రినేత్రవక్త్రసుచరిత్రరూపం మంత్రార్థవాదాంబుజమిత్రరూపాః ।
ప్రహృష్టరూపా మునయో వితేనిరే మతానుసారిణ్యథ సూత్రితాని ॥ २.९६॥
న తాని బుద్ధ్వాఽవబోధదాని విశ్వేశపాదాంబుజభక్తిదాని ॥ २.९७॥
॥ ఇతి శ్రీశివరహస్యే శంకరాఖ్యే షష్ఠాంశే శివేన ఋభుం ప్రతి సూత్రోపదేశో నామ ద్వితీయోఽధ్యాయః ॥
देवनागरी-रूपान्तरम् (Devanagari Transcription)
सूक्ष्मप्रमाणोपमर्दोपलब्धिस्थितिborder/श्च ->
सूक्ष्मप्रमाणोपमर्दोपलब्धिस्थितिश्च
तथोपपत्तेरेष ऊष्मा रसैके ॥ २.८८॥
अत्र स्मर्यनानुपरताविधिवाक्यसिद्धे-
र्यैवासकिर्मुनिरेशोऽव्यवायात्मा ।
अविभागो वचनाद्गार्ध एव
रश्म्यनुसारि निशितो दक्षिणायने ।
योगिनः प्रतिस्मृतैस्तदार्चिरात्
वायुमद्ध्वतीतो वरुणेन ॥ २.८९॥
अतिवाहिकविदेस्तदलिङ्गात् तद्वदत्र उभयोरपि सिद्धिः ।
तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ २.९०॥
स्मृतिस्थताऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।
विशेषदृष्ट्या संपदाविर्भावेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ २.९१॥
आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्युतितन्मात्रतोऽन्यः ।
उपन्यासादन्यसंकल्पभूत्या रथवानोऽप्युभधाह ॥ २.९२॥
भावमन्यौ उभयं न स्वभावा भावे संपत्तिरेवं जगत् स्यात् ।
प्रत्यक्षेणोपदेशात् स्थितिरपि
जगतो व्यक्तिभावादुपासा
भेदाभासस्थितिरविकारावृत्तिरिति च ॥ २.९३॥
तथा दृष्टेर्दृष्ट्यरिपरीतदृष्टेः श्रुतिवशात्
तथा बुद्धेरोद्धा भवति अनुमानेन हि बुधः ।
भोगे सामान्यलिङ्गात् शिवभजनभवे मान्यमनसा
अनावृत्तिः शब्दो भवति विधिवाक्येन नियतं ॥ २.९४॥
तवोक्तः सूत्राणां विधिरपि च सामान्यमुभय-
प्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ २.९५॥
स्कन्दः –
त्रिनेत्रवक्त्रसुचरित्ररूपं मन्त्रार्थवादाम्बुजमित्ररूपाः ।
प्रहृष्टरूपा मुनयो वितेनिरे मतानुसारिण्यथ सूत्रितानि ॥ २.९६॥
न तानि बुद्ध्वाऽवबोधदानि विश्वेशपादाम्बुजभक्तिदानि ॥ २.९७॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवेन ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः ॥
॥ तृतीयोऽध्यायः ॥
सूतः –
ततो महेशात् संश्रुत्य सूत्राणि ऋभुरेव हि ।
कैलासेशं महादेवं तुष्टाव विनयाञ्जलिः ॥ ३.१॥
लब्धज्ञानो महादेवान् मुनिभ्योऽकथयच्च तत् ।
तत् स्तुतिं च शृणुष्वेति जगाद गिरिजासुतः ॥ ३.२॥
जैगीषव्यं महात्मानं जितषड्वर्गमुत्तमम् ।
स्कन्दः –
संस्तुत्य साम्बमीशानमृभुर्ज्ञानमविन्दत ।
शांभवः स महायोगी तुष्टावाष्टतनुं हरम् ॥ ३.३॥
ऋभुः –
गन्धद्विपवरवृन्दत्वचिरुचिबन्धोद्यतपट
गन्धप्रमुख मदान्धव्रजदलि हरिमुखनखरोद्यत्
स्कन्धोद्यन्मुख बन्धुरनिभ निर्यद्रसदस्यखन्दन्नगधर
विन्ध्यप्रभशिव मेध्यप्रभुवर ।
मेध्योत्तमशिव भेद्याखिलजगदुद्यद्भवगत
वेद्यागमशिव गद्यस्तुतपद पद्यप्रकटहृ-
दुद्यद्भवगद वैद्योत्तम पाहि शम्भो ॥ ३.४॥
चण्डद्विपकर काण्डप्रभभुज दण्डोद्यतनग
खण्डत्रिपुर महोण्डस्फुटदुडुपशिखण्ड ।
द्युतिवर गण्डद्वय कोदण्डान्तक दण्डितपाद पाहि शम्भो ॥ ३.५॥
किञ्चिज्जललव सिञ्चद्द्विजकुल मुञ्चद्द्वजिन
कुलुञ्चद्द्विजपति चञ्चच्छविजट कुञ्चत्पदनख
मुञ्चन्नतवर करुणा पाहि शम्भो ॥ ३.६॥
देव शंकर हरमहेश्वर पापतस्कर अमरमयस्कर ।
शिवदशंकर पुरमहेश्वर भवहरेश्वर पाहि शम्भो ॥ ३.७॥
अंगजभंग तुरंगरथांग जलधिनिषंग
धृतभुजंगांग दृशि सुपतंग
करसुकुरङ्ग जटधृतगङ्ग
यमिहृदिसङ्ग भजशिवलिङ्ग भवभयभङ्ग ॥ ३.८॥
शम्बरकरशर दम्बरवरचर डम्बरघोषण दुम्बरफलजग
निकुरुम्बभरहर जम्बितहृदिचिर लम्बितपदयुग
लम्बोदरजनकान्तकहर शिव बिन्दुवरासन
बिन्दुगहन शरदिन्दुवदनवर कुन्दधवल गणवृन्दविनुत
भवभयहर परवर करुणाकर फणिवरभूषण
स्मर हर गरधर परिपाहि ॥ ३.९॥
रासभवृषभेभ शरभाननगणगुणनन्दित-
त्रिगुणपधातीग शरवणभवनुत तरणिस्थित वरुणालय
कृतपारण मुनिशरणायित पदपद्मारुण पिङ्गजटाधर
कुरु करुणां शंकर शं कुरु मे ॥ ३.१०॥
जम्भप्रहरण कुम्भोद्भवनुत कुम्भप्रमथ निशुम्भद्युतिहर
खण्डद्रणगण डिम्भायितसुर तारकहरसुत
कुम्भ्युद्यतपद विन्ध्यस्थितिदितिमान्ध्यप्रहर मुदान्धद्विपवर
कृतिप्रवर सुधान्थोनुतपद बुद्ध्यागमशिव
मेध्यातिथिवरद ममावन्ध्यं कुरु दिवसं
तव पूजनतः परिपाहि शम्भो ॥ ३.११॥
कुन्दसदृश मकरन्दनिभसुरवृन्दविनुत कुरुविन्दमणिगण
वृन्दनिभांघ्रिजमन्दर वसदिन्दुमकुट शरदमम्बुजक्यश
गरनिन्दनगल सुन्दरगीरितनयाकृति
देहवराङ्गबिन्दुकलित शिवलिङ्गगहन सुतसिन्दूरवरमुख
बन्धुरवरसिन्धुनदीतट लिङ्गनिवाहवरदिग्वस पाहि शम्भो ॥ ३.१२॥
पन्नगाभरण मारमारण विभूतिभूषण शैलजारमण ।
आपदुद्धरण यामिनीरमणशेखर सुखद पाहि शम्भो ॥ ३.१३॥
दक्षाध्वरवरशिक्ष प्रभुवर त्र्यक्ष प्रबलमहोक्षस्थित
सितवक्षस्स्थ लकुलचक्षुःश्रवस वराक्षस्रज हर ।
वीक्षानिपाताधोक्षजात्मज वरकक्षाश्रय पुरपक्षविदारण
लीक्षायितसुर भिक्षाशन हर पद्माक्षार्चनतुष्ट
भगाक्षिहराम्यय शंकर मोक्षप्रद परिपाहि महेश्वर ॥ ३.१४॥
अक्षयफलद शुभाक्ष हराक्षततक्षककर
गरभक्ष परिस्फुरदक्ष क्षितिरथ सुरपक्षाव्यय ।
पुरहर भव हर हरिशर शिव शिव
शंकर कुरु कुरु करुणां शशिमौले ॥ ३.१५॥
भजाम्युगसुताधवं पशुपतिं महोक्षध्वजं
वलक्षभसितोज्ज्वलं प्रकटदक्षदाहाक्षिकं ।
भगाक्षिहरणं शिवं प्रमथितोरुदक्षाध्वरं
प्रपक्षसुरतामुनिप्रमथशिक्षिताधोक्षजं ॥ ३.१६॥
श्रीनाथाक्षिसरोजराजितपदाम्भोजैकपूजोत्सवै-
र्नित्यं मानसमेतदस्तु भगवन् सद्भ्राजमौले हर ।
भूषाभूतभुजंगसंगत महाभस्मांगनेत्रोज्ज्वला-
ज्ज्वलादग्धमनंगपतंगद्युगुमाकांताव गंगाधर ॥ ३.१७॥
स्वात्मानन्दपरायणाम्बुजभवस्तुत्याऽधुना पाहि मां
(ए प्रति लोनु लेदु) ।
गिरिजामुखसख षण्मुख पञ्चमुखोद्यतदुर्मुखमुख-
हर आखुवहोन्मुख लेखगणोन्मुख शंकर भगगमपरिपूज्य ॥ ३.१८॥
कोटिजन्मविप्रकर्मशुद्धचित्तवर्त्मनां
श्रौतसिद्धशुद्धभस्मदग्धसर्ववर्मणां ।
रुद्रभक्तमेध्यभुक्तिदग्धसर्वपाप्मनां
रुद्रसूक्ति उक्तिभक्तिभुक्तिमुक्तिदायिकां ।
पुरहर इष्टतुष्टिमुक्तिलास्यवासना
भक्तिभासकैलासमीश आशु लभ्यते ॥ ३.१९॥
स्कन्दः –
तत्स्तुत्या तोषितः शम्भुस्तमाह बुभुमीश्वरः ।
प्रसन्नः करुणाम्भोधि रम्भोजसुतमोदनः ॥ ३.२०॥
ईश्वरः –
वेदान्तपारपठनेन हरादियोगैः
श्रीनीलकण्ठपदभक्तिविकुण्ठभावाः ।
ये कर्परा यतिवरा हरिसालीगेहे
सालावृकैर्वरकरोरकुराराघातैः ॥ ३.२१॥
भन्नोत्तमांगहृदयाश्च भुसुण्डिभिस्ते ।
भिक्षाशना जरठरासभवद्भ्रमन्ति ॥ ३.२२॥
विद्युच्चंचलजीवितेऽपि न मनागुत्पद्यते शांभवी
भक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ड्रेऽपि च ।
रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनां
विष्ठाविष्टकुनिष्कपष्कुबुधियां दुष्टात्मनां सर्वदा ॥ ३.२३॥
भ्रष्टानां दुरदृष्टतो जनिजरानाशेना नष्टात्मनां
ज्येष्ठश्रीशिपिविष्टचारुचरणाम्भोजार्चनानादरः ।
तेनानिष्टपरम्परासमुदयैर्भ्रष्टाकृतैर्न स्मृतिः
विष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥ ३.२४॥
अज्ञायत्येष्यभिज्ञाः सुरवरनिकरं स्तोत्रशास्त्रादितुष्टं
सत्राशं मन्त्रमात्रैर्विविहितधिया सामभागैर्यजन्ति ।
श्रार्धे श्रद्धाभरणहरणभ्रान्तरूपान्वित्यांस्ते
तत्तच्छुद्धसमुदितमनः स्वान्तरा शम्भुमीशं ॥
नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशं ॥ ३.२५॥
आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैः
बिल्वाख्यैर्दलैश्च शंकरमहाभागं हृदन्तः सदा ।
पर्वस्वाप्यविशेषितेन मनसा गर्वं विहायादरात्
दुर्गाण्याशु तरन्ति शंकरकृपापीयूषधारारसैः ॥ ३.२६॥
श्रीचन्द्रचूडचरणांबुज पूजनेन
कालं नयन्ति पशुपाशविमुक्तिहेतोः ।
भावाः परं भसितफाललसत्त्रिपुण्ड्र-
रुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥ ३.२७॥
पञ्चाक्षरप्रणवसूक्तधिया वदन्ति
नामानि शाम्भवमनोहरदानि शम्भो ।
मुक्तिप्रदानि सततं शिवभक्तवर्याः
ये बिल्वमूलशिवलिङ्गसमर्चनेन ॥ ३.२८॥
कालं नयेद्विमलकोमलबिल्वपत्रैः
नो तस्य कालजभयं भवतापपापं ।
सन्तापभूपजनितं भजतां महेशं ॥ ३.२९॥
शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रो
विश्वस्तस्तो भुजङ्गाङ्गदवरगिरिजानायके लब्धभक्तिः ।
मुग्धोऽप्यध्यात्मविद् यो भवति भवहरस्यार्चया प्राप्तकामः ॥ ३.३०॥
शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैः
मीमांसा द्वयतस्तथाद्वयपदं किं सांख्यसंख्या वद ।
योगायासपरंपरादिविहितैर्वेदान्तकान्तारके
श्राम्यन् भक्तिविवर्जितेन मनसा शम्भोः पदे मुक्तये ॥ ३.३१॥
किं गंगया वा मकरे प्रयाग-
स्नानेन वा योगमखक्रियाद्यैः ।
यत्रार्चितं लिंगवरं शिवस्य
तत्रैव सर्वार्थपरंपरा स्यात् ॥ ३.३२॥
श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौ
श्रीमद्धेमसभाविहार भगवन् नृत्यं त्रिनेत्रो गिरिः ।
कैलासोत्तरदक्षिणौ च भगवान् यत्रार्चने शंकरो
लिंगे सन्निहितो वसत्यनुदिनं शांगस्य हृत्पंकजॆ ॥ ३.३३॥
तत्राविमुक्तं शशिचूडवासं
ओंकारकालंजर रुद्रकोटिं ।
गङ्गाबुधेः संगममंबिकापति-
प्रियं तु गोकर्णकसह्मजातटं ॥ ३.३४॥
यत्राभ्यर्चगतं महेशकरुणापूर्णं तु तूर्णं हृदा
लिंगं पूजितमप्यपास्तदुरितं तीर्थानि गंगादयः ।
पुण्याश्चाश्रमसंघका गिरिवरक्षेत्राणि शम्भोः पदं
भक्तियुक्तभजनेन महेशे शक्तिवज्जगदिदं परिभाति ॥ ३.३५॥
कर्मन्दिवृन्दा अपि वेदमौलि-
सिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः ।
कामादिबद्धहृदयाः सितभस्मपुण्ड्र-
रुद्राक्ष शंकरसमर्चनतो विहीनाः ॥ ३.३६॥
हीना भवन्ति बहुधाप्यबुधा भवन्ति
मत्प्रेमवासभवनेषु विहीनवासाः ॥ ३.३७॥
अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यै
भूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे ।
गव्यैः पंचामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिंगे
तुंगे शांगेऽप्यसंगो भजति यतहृदा नक्तभुक्त्येकभक्तः ॥ ३.३८॥
ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौ
भस्माक्षाधृतिरीशलिंगभजनाशून्यं तु दुर्मानसं ।
శంభోస్తీర్థమహత్త్వతీర్థవరకే నిందావరే శాంకరే
శ్రీమద్రుద్రజపాద్యద్రోహకరణాత్ జ్ఞానం న చోత్పద్యతే ॥ 3.39॥
→
शम्भोस्तीर्थमहत्त्वतीर्थवरके निन्दावरे शाङ्करे
श्रीमद्रुद्रजपाद्यद्रोहकरणात् ज्ञानं न चोत्पद्यते ॥ ३.३९॥
ఈశోత్యర్థధియైకలింగనియమాదభ్యర్చనం భస్మధృక్
రుద్రాక్షామల సారమంత్ర సుమహాపంచాక్షరే జాపినాం ।
ఈశస్థాననివాసశాంభవకథా భక్తిశ్చ సంకీర్తనం
భక్తస్యార్చనతో భవేత్ సుమహాజ్ఞానం పరం ముక్తిదం ॥ 3.40॥
→
ईशोत्यर्थधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक्
रुद्राक्षामल सारमन्त्र सुमहापञ्चाक्षरे जापिनाम् ।
ईशस्थाननिवासशाम्भवकथा भक्तिश्च संकीर्तनं
भक्तस्यार्चनतो भवेत् सुमहाज्ञानं परं मुक्तिदम् ॥ ३.४०॥
ఆద్యంతయోర్యః ప్రణవేన యుక్తం
శ్రీరుద్రమంత్రం ప్రజపత్యఘఘ్నం ।
తస్యాంఘ్రిరేణుం శిరసా వహంతి
బ్రహ్మాదయః స్వాఘనివృత్తికామాః ॥ 3.41॥
→
आद्यन्तयोर्यः प्रणवेन युक्तं
श्रीरुद्रमन्त्रं प्रजपत्यघघ्नम् ।
तस्याङ्घ्रिरेणुं शिरसा वहन्ति
ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥ ३.४१॥
అపూర్వార్థోక్త శ్రుతిశిరసి విజ్ఞానమనఘం
మహాభిర్వ్యాజ్ఞానప్రశమనకరం యో విరచయేత్ ।
మునే హృత్పర్వాణాం విశసనకరం సప్తమనుభి-
ర్యతం శీర్షణ్యం యో విరచయతి తస్యేదముదితం ॥ 3.42॥
→
अपूर्वार्थोक्त श्रुतिशिरसि विज्ञानमनघं
महाभिर्व्याज्ञानप्रशमनकरं यो विरचयेत् ।
मुने हृत्पर्वाणां विशसनकरं सप्तमनुभि-
र्यतं शीर्षण्यं यो विरचयति तस्येदमुदितम् ॥ ३.४२॥
గురౌ యస్య ప్రేమ శ్రుతిశిరసి సూత్రార్థపదగం
మయి శ్రద్ధా వృద్ధా భవతి కిల తస్యైష సులభః ।
అనన్యో మార్గోఽయం అకథితమిదం త్వయ్యపి ముదా
యదా గోప్యో ముగ్ధే సువిహితమునిష్వేవ దిశ వై ॥ 3.43॥
→
गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगं
मयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः ।
अनन्यो मार्गोऽयं अकथितमिदं त्वय्यपि मुदा
यदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥ ३.४३॥
స్కందః –
स्कन्दः –
ఇతి స్తుత్వా శంభోః ప్రముదితమనాస్త్యేష స ఋభుః
మునిర్నత్వా దేవం నగమగపతీశస్య నిలయం ।
యతో గంగా తుంగా ప్రపతతి హిమాద్రేః శిఖరతో
మునీంద్రే స్వాహేదం తదపి శృణు విప్రోత్తమ హృదా ॥ 3.44॥
→
इति स्तुत्वा शम्भोः प्रमुदितमनास्त्येष स ऋभुः
मुनिर्नत्वा देवं नगमगपतीशस्य निलयम् ।
यतो गङ्गा तुङ्गा प्रपतति हिमाद्रेः शिखरतो
मुनीन्द्रे स्वाहेदं तदपि शृणु विप्रोत्तम हृदा ॥ ३.४४॥
ఋభుః –
ऋभुः –
పతంత్వశనయో ముహుర్గిరివరైః సముద్రోర్వరా
భవత్వధరసంప్లవా గ్రహగణాః సురా యాంత్వధః ।
భవజ్జనిమ పూజనాన్మమ మనో న యాత్యన్యతః
శపామి ప్రపదే ప్రభోస్తవ సరోరుహాభే హర ॥ 3.45॥
→
पतन्त्वशनयो मुहुर्गिरिवरैः समुद्रोर्वरा
भवत्वधरसंप्लवा ग्रहगणाः सुरा यान्त्वधः ।
भवज्जनिम पूजनान्मम मनो न यात्यन्यतः
शपामि प्रपदे प्रभोस्तव सरोरुहाभे हर ॥ ३.४५॥
॥ ఇతి శ్రీశివరహస్యే శంకరాఖ్యే షష్ఠాంశే శివఋభుసంవాదో నామ తృతీయోఽధ్యాయః ॥
→
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवऋभुसंवादो नाम तृतीयोऽध्यायः ॥
॥ चतुर्थोऽध्यायः ॥
स्कन्दः -
हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् ।
केदारेशं पूजयन्तं शाम्भवं मुनिसत्तमम् ।
भस्मरुद्राक्षसम्पन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ ४.१॥
मुनयः -
पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते ।
आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥ ४.२॥
ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये ।
येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ४.३॥
सूतः -
ऋभुर्मुनीनां वचसा तुष्टः शिष्यान् समीक्ष्य तान् ।
अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४.४॥
ऋभुः -
नागोप्यं भवतामस्ति शाम्भवेषु महात्मसु ।
त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥ ४.५॥
शांकरं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् ।
शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६॥
येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः ।
नमस्कृत्या महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७॥
ऋभुः -
विश्वस्य कारणमुमापतिरेव देवो
विद्योतको जडजगत्यमदैकहेतुः ।
न तस्य कार्यं करणं महेशितुः
स एव तत्कारणमीश्वरो हरः ॥ ४.८॥
सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः
नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।
मौलीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः
योर्ध्वं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४.९॥
निदाघमथ संबोध्य ततो ऋभुरुवाच ह ।
अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४.१०॥
शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा ।
अनात्मेति प्रसङ्गात्त्वा अनात्मेति मनोऽपि वा ।
अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४.११॥
सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात्
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१२॥
चित्ताभावे चिंतनीयो देहाभावे जरा च न ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१३॥
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१४॥
ब्रह्मभावाज्जगन्नास्ति तदभावे हरिर्न च ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१५॥
मृत्युर्नास्ति जराभावे लोकवेददुराधिकं ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१६॥
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१७॥
अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१८॥
गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१९॥
एकाभावान्न द्वितीयं न द्वितीयान्न चैकता ।
सत्यत्वमस्ति चेत् किंचिदसत्यं च संभवेत् ॥ ४.२०॥
असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति ।
शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४.२१॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२२॥
बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता ।
मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४.२३॥
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
इदं यदि तदेवापि तदभावे इदं न च ॥ ४.२४॥
अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न ।
कार्यं चेत् कारणं किंचित् कार्याभावे न कारणम् ॥ ४.२५॥
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न ।
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४.२६॥
अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च ।
पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥ ४.२७॥
किंचिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः ।
यत्किंचित् किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४.२८॥
तस्मादेतत् क्वचिन्नास्ति त्वं नाहं वा इमे इदम् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२९॥
नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.३०॥
परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४.३१॥
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ।
इत्यात्मनिर्णयं प्रोक्तं भवते सर्वसंग्रहम् ॥ ४.३२॥
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ ४.३३॥
निदाघः-
भगवन् को भवान् को नु वद मे वदतां वर ।
यच्छ्रुत्वा तत्क्षणान्मुच्येन्यहोसंसारसंकटात् ॥ ४.३४॥
ऋभुः-
अहमेव परं ब्रह्म अहमेव परं सुखम् ।
अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४.३५॥
अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् ।
सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३६॥
अहमर्धविहीनोऽस्मि इदमर्धविवर्जितः ।
सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३७॥
नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।
नित्यानन्दस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३८॥
नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९ ॥
अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः ।
अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४० ॥
स्वस्यसङ्कल्पहीनोऽहं सर्वाविद्याविवर्जितः ।
सर्वमस्मि तदेheaderवास्मि/तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१ ॥
सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः ।
सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२ ॥
सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः ।
सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३ ॥
सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् ।
सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४ ॥
अहमेव सुखं नान्यदहमेव चिदव्ययः ।
अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५ ॥
केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः ।
केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६ ॥
केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् ।
केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७ ॥
सत्यरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि ।
अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८ ॥
अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् ।
अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९ ॥
अरसन्नुतरूपोऽस्मि अनुतापविवर्जितः ।
अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५० ॥
सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः ।
सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१ ॥
अहम्भावविहीनोऽस्मि विहीनोऽस्मीति मे न च ।
सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२ ॥
ब्रह्म ब्रह्मादिहीनोऽस्मि केशवात्वादि न क्वचित् ।
शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३ ॥