सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 11, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 11

स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः
सामान्याच्च गतेरधाप्यनुभवे विद्योतते शंकरः ॥ २.८॥

श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमा-
सनाथो नाथानां स च किल न कश्चिज्जनिभवः ।
स एवानन्दात्मा श्रुतिकथितकोशादिरहितो
विकारप्राचुर्यान्न हि भवति कार्यं च करणं ॥ २.९॥

तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृत्
मन्त्रैर्वर्णकृत्क्रमेण भगवान् सत्याद्यनन्तोच्यते ।
नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः
कामाच्चाननुभावतो ह्यदि भिदा जायेद्द्वयं संसृतेः ॥ २.१०॥

पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेशी महेशोऽव्ययः ।
आकाशान्तरतोऽपि भौतिकहृदाकाशात्कृता वाक्यतो
ब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पितः ॥ २.११॥

सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवे
अतोत्थानं द्वैते न भवति परे वै विलयने ।
तदर्हं यत्स्वप्नं जगदिदमनाकारमरसं
न गन्धं न स्पर्शं भवति परमेशे विलसितं ॥ २.१२॥

अभिनं चार्थं तद्भवति पुनरेवेक्षणपरं
स्वतन्त्रेच्छा शम्भोर्न खलु करणं कार्यमपि न ॥ २.१३॥

ज्ञेयत्वावचनाच्च शंकर परानन्दे प्रमोदास्पदे
प्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् ।
न विज्ञेयं देहप्रविलयशतोत्थानगणना
स मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २.१४॥

महद्वच्चाणीयो भवति च समो लोकसदृशा
तथा ज्योतीन्येकं प्रकरणपरं कल्पितवतः ।
न संख्याभेदेन त्रिभुवनविभवादतिकरं
स्वभावोऽयं शश्वन्मुखरयति मोदाय जगतां ॥ २.१५॥

प्राणादुद्धतपञ्चसंख्यजनिता तद्वृप्तिवच्च श्रुतं
तच्चोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।
ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहं
चाकर्मा भवति प्रकर्षजनिते त्वप्रीति वाक्योत्तरं ॥ २.१६॥