सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 13, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 13

संभोगप्राप्तिरेव प्रकटजगतः कारणतया
सदा व्योमैवेत्थं भवति हृदये सर्वजगतां ।
अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं
महामृत्युर्देशो भवति शिखरन्याद इति च ॥ २.२५॥

प्रकरणवचनेन वेदजाते
भगवति भवनाशने महेशे ।
प्रविशति शिव एव भोगभोक्तृ-
नियमनदर्शनतो हि वाक्यजातं ॥ २.२६॥

विशेषणैः शंकरमेव नित्यं
द्विधा वदत्येवमुपाधियोगात् ।
अतोऽन्तरा वाक्यपदैः समर्थिः
स्थानादियोगैर्भगवानुमापतिः ॥ २.२७॥

सुखाभिधानात् सुखमेव शंभुः
कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।
श्रुतोपवाक्योपनिषत्प्रचोदितः
गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २.२८॥

अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।
भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमंति ॥ २.२९॥

अंतर्यामितयैव लोकमखिलं जानात्युमायाः पतिः ।
भूतेष्वंतर्गतोऽपि भूतनिवहो नो जानते शंकरं ॥ २.३०॥

न तत्स्मृत्या धर्मैरभलषणतो भेदविधुरं
न शारीरं भेदे भवति अगजानायकवरे ।
अदृश्यत्वाद्धर्मैः खलु भगवानन्यदिति च
परादादित्यं चामतिरपि च भेदप्रकलने ॥ २.३१॥

भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।
भावो वा भवति प्रभाविरहितं ब्रह्मेत्यना चाह तत् ॥ २.३२॥

स्मृतं मानं शंभौ भगवति च तत्साधनतया-
प्यतो दैवं भूतं न भवति च साक्षात् परशिवे ।
अभिव्यक्तौ चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते
तथा संपत्तिर्यैर्भुवि भवति किं शंभुकलने ॥ २.३३॥

यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते
भ्यद्वेद्धंधिरपि प्रकीर्णवचनात् सांख्यैव बाह्यांतरा ।