ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 12, कुल 249 में से
संदर्भ में पढ़ेंजाग्रत्यावचनेन जीवजगतोर्भेदः कथं कथ्यते
लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।
अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः ।
प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २.१७॥
प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं
अभिध्योपादेशाद् भवति उभयाम्नायवचनैः ।
भवत्यात्मा कर्ता कृतिविरहितो योनिरपि च
प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २.१८॥
अभिध्योपादेशात् स बहु भवदीक्षादिवशतः
समासाचोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।
अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां
मृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २.१९॥
आनन्दाभ्यासयोगाद्व्यकृतजगदानन्दजगतो
अतो हेतोर्धर्मो न भवति शिवः कारणपरः ।
हिरण्यात्त्मोऽदित्येऽक्षिणि उदेतीह भगवान्
नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २.२०॥
भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत् किं ततः
आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।
तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो
वेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २.२१॥
भूतादिव्यपदेशतोऽपि भगवत्यस्मिन् महेशे ध्रुवं
यस्माद्भूतवराणि जायत इति श्रुत्योऽस्य लेशांशतः ।
विश्वं विश्वपतेरभूत् तदुभयं प्रामाण्यतो दर्शनात्
प्राणस्यानुगमात् स एव भगवान् नान्यः पथा विद्यते ॥ २.२२॥
न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितः
तथैवायुर्देहे अरणिवहवत् चक्रगमहो ।
अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रिनिवहैः
शिवो देवो वामो मुनिरपि च सारात्यामभजत् ॥ २.२३॥
प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो
महाभूतैर्जातं जगदिति च तज्जादिवचनैः ।
अतोऽणीयान् ज्यायानपि द्विविधभेदव्यपगता
विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २.२४॥