सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 30, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 30

नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९ ॥

अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः ।
अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४० ॥

स्वस्यसङ्कल्पहीनोऽहं सर्वाविद्याविवर्जितः ।
सर्वमस्मि तदेheaderवास्मि/तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१ ॥

सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः ।
सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२ ॥

सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः ।
सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३ ॥

सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् ।
सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४ ॥

अहमेव सुखं नान्यदहमेव चिदव्ययः ।
अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५ ॥

केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः ।
केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६ ॥

केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् ।
केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७ ॥

सत्यरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि ।
अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८ ॥

अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् ।
अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९ ॥

अरसन्नुतरूपोऽस्मि अनुतापविवर्जितः ।
अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५० ॥

सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः ।
सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१ ॥

अहम्भावविहीनोऽस्मि विहीनोऽस्मीति मे न च ।
सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२ ॥

ब्रह्म ब्रह्मादिहीनोऽस्मि केशवात्वादि न क्वचित् ।
शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३ ॥