रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
एकादशः पटलः । १७५
दोलायन्त्रे ततो दत्त्वा¹ भार्गीपिण्डे नपुंसकम्² ।
ग्राहयेद्³दिवसे सूतो जरते ग्रसते ततः⁴ ॥ ११९ ॥
समजीर्णं ततो यावत् दोलायन्त्रविचक्षणः⁵ ।
पश्चात् कच्छपयन्त्रेण समजीर्णं⁶ तु पार्व्वति ।
तं ग्रासद्वादशांशेन⁷ कच्छपेन तु जारयेत् ॥ १२० ॥
यावदार्द्रक⁸योगं च गर्भद्रावणमेव च ।
पञ्चात्तं⁹ देवि निक्षिप्य पुटं दद्याद्विचक्षणः ॥ १२१ ॥
अष्टांशेन ततो ग्रासं गर्भद्रावञ्च पूर्व्ववत्¹⁰ ।
कन्दोदरे¹¹ सूरणस्य तं विनिक्षिप्य सूतकम् ।
पुटेत्तु जारितस्तावत्¹² यावत् कन्दो न दह्यते¹³ ॥ १२२ ॥
पादांशेन तु मूषाया¹⁴ ग्रासः सूते¹⁵ विधीयते ।
पूर्व्ववच्च विडं दद्यात् गर्भद्रावणमेव च ॥ १२३ ॥
एवं¹⁶ चतुर्गुणे जीर्णे सूतको बलवान् भवेत् ।
(1) K reads दया, which is inc. M reads डोलायन्त्रे. (2) This
charana is wanting in M. (3) K has दृतीय. (4) जारते ग्रसते
रसः, a variant in K. (5) दोलायन्त्रेण विचक्षणः, a reading in K.
M reads डोलायन्त्र. (6) K has an incomplete reading- संजोणं
(7) K reads ग्राम द्वादशांशेन. (8) M reads प्रामादार्द्रक, which is not
intelligible. (9) K reads यथाम. M reads पञ्चत्त Both are un-
intelligible. (10) M reads पूर्वकम् (11) M reads कन्दोदकं.
(12) पुटयेच्चारितस्तावत्, a variant in M (13) यावत् कंदो न द्यत, an
incorrect variant in K. (14) मूखाया is the reading in K.
(15) M reads मूसा. (16) K reads पुंसं
१७६ रसार्णवे
ततः शलाकया ग्रासान्$^१$ अग्निस्थो ग्रसते रसः$^२$ ॥ १२४ ॥
ततो रत्नानि आर्याणि$^३$ वक्ष्यमाणक्रमेण तु$^४$ ॥ १२५ ॥
अभ्रकं भ्रामकञ्चैव$^५$ शंखनाभिं$^६$ तथैव च ।
रसानुपरसान् दत्त्वा$^७$ महाजारसमन्वितान्$^८$ ॥ १२६ ॥
वज्रकन्दं वज्रलता$^९$ मेषशृङ्गमृतायसम्$^{१०}$ ।
कटुतुम्बस्य वीजानि मृतलोहानि पाचयेत्$^{११}$ ॥ १२७ ॥
सर्वाणि समभागानि शिखिशोषितमाचितम्$^{१२}$ ।
तावत्सं मर्दयेत् प्राज्ञो यावत् कुम्भं दृढं भवेत् ॥ १२८ ॥
मूषा वस्त्राकृतिश्चैव$^{१३}$ कर्त्तव्या छादनैः सह ।
तन्मध्ये स्थापयेत् सूतं अधोवातेन धामयेत्$^{१४}$ ॥ १२९ ॥
आदौ तत्रैव दातव्यं$^{१५}$ वक्त्रमौषधलेपितम्$^{१६}$ ।
गृह्यते कोऽत्र$^{१७}$ सन्देहो यथा तीव्रे हुताशने$^{१८}$ ॥ १३० ॥
(1) K reads ग्रासम्. (2) This charana is wanting in M.
(3) K reads नानानि, which is gram. incorrect, the word नाना being
an indeclinable. (4) K has वलमान. (5) K reads भामकञ्चैव.
(6) M reads मुखनाभिः. (7) K has रसानुपरसा दत्त्वा. M has रमा-
नवरसांस्तथा. (8) K has महाजारसमन्वितम्. M has महाजारसमन्वितम्.
(9) कटलभा मद्य, an incomplete variant in K. (10) K reads
मतायस, which seems to be an error of the scribe. (11) M reads
सेचयेत्. (12) शिखिशोणितेसमन्वितं, a variant in K. (13) मूषा
वस्त्राकृतीयेव, a variant in K. मूषामत्स्याकृतिश्चैव, a variant in M. (14) M
reads वयंवातेनं धारयेत्. (15) K has आदौ तावत् प्रदातव्यं. (16) K
reads लेपन. (17) K reads नाव. (18) यथापूर्वं हुताशनं, a variant
in K.
are TWO slants: ौ!
Wait, is it ौ or ो?
Wait, in नीलो¹⁰, लो has ONE slant: ो.
In कर्षान्धौ², wait, does it have one slant or two?
There's one slant to the left, and one slant to the right! That is definitely ौ (au)!
Wait, but what is the consonant?
Let's compare the consonant with न्ध:
Is there another न्ध on the page?
Look at रसमध्यतः in line 11: ध्य -> ध has a top opening.
Look at ब्रह्मनिर्य्यासभावितम् in line 12: भा has a top opening.
In कर्षान्धौ²: is the top open or closed?
Closed! It has a solid top bar across the whole conjunct!
Wait, if the top bar is solid, can it be न्ध? In some fonts, न्ध has a bar with a horn, but usually म्भ has a solid bar with a loop inside भ!
Wait, look at म्भ vs न्ध:
In मिश्रितम्, म् has a solid bar.
Wait, look at कर्षान्धौ² vs कर्षाम्भो² vs कर्षान्नौ²:
Wait,
१७८ रसार्णवे
वङ्गरत्नेषु¹ जीर्णेषु भृङ्गरागेषु² सुव्रते ।
रसेन्द्रो दृश्यते देवि नीलपोतारुणच्छविः ॥ १३७ ॥
शुद्धानि हेमपत्राणि शतांशेन तु लेपयेत्³ ।
पुटेन मारयेदेतदिन्द्रगोपनिभं⁴ भवेत् ॥ १३८ ॥
संसर्गाद्वेधयेत्सर्ब्वमिदं हेम मृतं⁵ प्रिये ।
त्रिभागं सूतकेन्द्रस्य तेनैव सह सारयेत् ॥ १३९ ॥
मूषामध्येस्थिते⁶ तस्मिन् पुनस्तेनैव जारयेत् ।
धूमवेधो भवेद्देवि पुनः सारितजारितः⁷ ॥ १४० ॥
अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला⁸ ।
वेधयेन्नात्र⁹ सन्देहो गिरिपाताल¹⁰भूतलम् ॥ १४१ ॥
पार्श्वज्योतिः¹¹ प्रदृश्येत चोर्द्धं¹² नैव तु दृश्यते ।
भूचरं तं विजानीयात् रसेन्द्रं¹³ नात्र संशयः ॥ १४२ ॥
तेनाक्रान्तगतिर्देवि¹⁴ योजनानां शतं व्रजेत् ।
दिव्यतेजा¹⁵ महाकायो दिव्यदृष्टि¹⁶र्महाबलः ॥ १४३ ॥
(1) K reads बजरत्नेषु. (2) K reads भङ्गराजेषु. (3) शलां-
शेनानुलेपयेत्, an incorrect variant in K. (4) K reads नीभं, which is
unusual. (5) मदं हेमत is an incomplete reading in K. (6) K
has मूखामध्ये स्थिते. (7) पुनः सारितसारितः, a variant in M. (8) K
reads विसंकला. (9) वैधयन्नात्र is an incorrect reading in K.
(10) K reads पाषाण. M reads भूतलं., which is gram. inc. (11) K
has an incomplete reading पा......ज्योति. (12) K reads ऊर्ध्व.
(13) M reads रसेन्द्रा, which is inc. (14) K reads गति देवि. M
reads तेनाभायगतिर्देवि. (15) K has दिव्यतेजो. (16) K reads दिव्या दृष्टि.
एकादशः पटलः। १७९
सर्व्वरोगविनिर्मुक्तो जीवेदाचन्द्रतारकम्¹ ।
तस्य मूत्रपुरीषं तु सर्व्वलोहानि विध्यति ॥ १४४ ॥
समजीर्णेन वज्रेण हेम्ना च सहितेन च ।
अग्निस्थो जारयेल्लोहान्² बन्धमायाति सूतकः ॥ १४५ ॥
सारयेत्तेन बीजेन सहस्रमपि³ वेधयेत् ।
सारितं जारयेत्⁴ पश्चात् लेप्यं चेप्यं सहस्रशः⁵ ॥ १४६ ॥
सारयेत्⁶ तेन बीजेन लक्षवेधमवाप्नुयात् ।
अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥ १४७ ॥
केवलं तु यदा वज्रं समजीर्णं तु जारयेत् ।
बद्धः⁷ सूतस्तदा ज्ञेयो निष्कम्प्यो निरुपद्रवः ॥ १४८ ॥⁸
अग्निस्थो जायते सूतः शलाकां⁹ ग्रसते क्षणात् ।
दृढाग्निना धाम्यमानो¹⁰ ग्रसते सर्व्वमादरात्¹¹ ॥ १४९ ॥
चरते जरते सूत¹² श्चायुर्द्रव्य¹³प्रदायकः ।
(1) जीवेच्चंद्रार्कतारकं, a variant in K. (2) K. reads जारयँल्लोहं.
M reads जायते लोहात्. (3) समक्षमपि is the reading in K.
(4) K reads जारितं. (5) लोप्ये चेप्य सहस्रशः, a variant in K. क्षेप्यं-
क्षेपसहस्रशः, a variant in M [For the explanation of लेप्य and चेप्य vide
रस. स. Chap. VIII. v. 80.] (6) K reads सासयेत्, which seems to
be incorrect. M reads धारयेत्. (7) B reads बद्ध (without विसर्ग).
(8) This śloka is not found in M. (9) M reads शलाका.
(10) B and M have धाम्यमाने. K has दृढाधिसाम्यमानेन. None appears
to be gram. correct. (11) M has सर्व्वपारदान्. (12) जरते
जरते सूतं, a variant in B. रसते जारते सूते, a variant in K. (13). B.
reads चायुर्द्रेव्यः, which is incorrect
१८० रसार्णवे
मूषास्थं धमयेत्¹ सूतं दृढाग्नौ नैव कम्पते² ॥ १५० ॥
जारयेत् सर्वरत्नानि बद्धः³ खेचरतां⁴ नयेत् ।
इति⁵ लोहेऽष्टगुणिते⁶ जीर्णे स्याद्रसबन्धनम् ॥ १५१ ॥
लोहानि सत्त्वं त्रिगुणं द्विगुणं⁷ कनकं तथा ।
धूमावलोकवेधी⁸ स्यात् भवेन्निर्वाणदो रसः⁹ ॥ १५२ ॥
आदावष्टगुणं जार्यं व्योमसत्त्वं महारसम्¹⁰ ।
समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥ १५३ ॥
सर्व्वे¹¹ च जारयेदृक्षं तदासौ¹² खेचरो रसः ।
भ्रमेत् प्रदक्षिणावर्त्तः कोटिवेधी च जायते ॥ १५४ ॥
समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः ।
द्विगुणे शतवेधी स्यात् त्रिगुणे तु सहस्रकम्¹³ ॥ १५५ ॥
चतुर्गुणेऽयुतं¹⁴ देवि क्रमेणानिन्¹⁵ वर्धयेत् ।
(1) K reads धमते. M reads धामयेत्. (2) B has नैव कल्पते.
M has नावकम्पते. (3) M reads बद्धं. (4) K reads खचरतां.
(5) The portion commencing from इति and ending in जारयेत् (153)
is not found in K, only the following portion is found after भवेद्रसः
(155),—गुणौता जीर्णे स्याद्रसबन्धन लोहसत्त्व त्रिगुण त्रिगुणकनकं तथा ४६ धमलोहकवेधौ
स्यान्निर्वाणददो रसः । M reads दृष्ट in lieu of इति. (6) B reads
गुणीता, which is inc. (7) M reads त्रिगुणं. (8) धूमलोहकवेधौ
is the reading in B. (9) B reads वरः. (10) Two slokas
are wanting in B, beginning from this word. (11) K reads सम.
(12) M reads तथासौ. (13) सहस्र च त्रिसंगुणे, a variant in B. सहस्र
तु चतुर्गुणे, a variant in K. (14) K reads पञ्चगुणेऽयुतं. (15) K
reads incompletely क्रमेणानि वर्धयेत्.
reads रचयित्वा. So it is 8!
L8: जगदुत्पाटितं⁹ तेन कैलासोऽपि च चूर्णितः¹⁰ ॥ १५६ ॥
L9: तत्र मया क्षणं ध्यात्वा¹¹ दृष्टा तन्मायया कृतम्¹² ।
L10: जारितं पन्नगे सूतं¹³ समांगं शिलया हतम्¹⁴ ॥ १६० ॥
L11: तेन सूतेन संलिप्तं त्रिशूलं हिमशैलजे¹⁵ ।
L12: तेन शूलेन निहतो दानवो बलदर्पितः ॥ १६१ ॥
Let's check L10: "समांगं" - स - म - ा - ं - ग - ं = समांगं.
L10: "शिलया हतम्"
L9: "दृष्टा तन्मायया कृतम्" - wait, is it दृष्टा or दृष्ट्वा?
Look at L9: "दृष्टा" - द with ृ, then ष with ् and ट and ा = दृष्टा! Exactly as footnote 12 notes: "M reads ज्ञात्वा दृष्टा मायया कृतम्".
Let's check footnotes line by line:
Line 13:
(1) M has उत्तरोत्तरवृद्धार्थं. (2) B reads जायते. (3) B
Line 14:
reads जायतेऽथ. (4) तत्वात्तमे
१८२ रसार्णवे
हेम शुल्कं¹ तथा तीक्ष्णं वाजरं च पडालकम्² ।
रौहणं कान्तलोहं च³ जारयेत्तत्स्वसंख्यया ॥ १६२ ॥
एकंके⁴ रसराजोऽयं बद्धः⁵ खेचरतां नयेत्⁶ ।
गन्धनागे द्रुते⁷ देवि जारणां सुकगां शृणु⁸ ॥ १६३ ॥
आदौ⁹ संशोधितं सूतं रजनीचूर्णसंयुतम्¹⁰ ।
मर्दयेद्यावदारुणं¹¹ चालयेदुष्णकाञ्चिकैः ॥ १६४ ॥
एवं मुहुर्मुहुर्घृष्टो गन्धनागो द्रुतिं चरेत्¹² ॥ १६५ ॥
नागस्य मूत्रं¹³ देवेशि वत्सस्य महिषस्य वा¹⁴ ।
आवर्त्त्यावर्त्त्य भुजगं¹⁵ सप्त वारान् निषेचयेत्¹⁶ ॥ १६६ ॥
(1) B reads रांमशुल्क. K reads समशुल्य. (2) वाजरं च पटालगं, a
variant in B. मारसल पडालग, a variant in K. [Vide ante 7th Paṭala,
v. 107.] (3) Both B and M read काचिलोह. च. (4) K reads
एकंक (without any suffix). (5) M reads बद्ध, which is incorrect.
(6) B reads नयम्, which is inc. (7) B has गंधनागे द्रुतं. K has
गधानागद्रुत. M has गन्धनागद्रुतं. (8) कुरुषां भृण, an incorrect reading
in B. कुरया शृणु, a reading in K, which has no sense. (9) M
reads अद्य. (10) रजनीचूर्वसयुत, a variant in K. रजनीचूर्णमिश्रितम्, a
variant in M. (11) B reads यावदोहरु, which seems to be the
error of the scribe. (12) गंधनागद्रुति चरेत्, a variant in B. गंधनाग.
द्रुति चरं, a variant in K. Both the texts are inc. (13) K reads.
सूत्र, which is not correct. M reads नरस्य मूत्रे. (14) M has च.
(15) B reads तजग, which is incorrect. आवलीवर्तन. नाग, a variant in K.
(16) B reads सप्तवारं. K reads सप्तबार निषंधयेत्, wherein the last term.
is incorrect.
एकादशः पटलः । १८३
कृत्वा$^1$ कण्टकवेध्यानि तस्य पत्राणि सुन्दरि ।
चतुर्थांशप्रमाणेन$^2$ गन्धकस्य तु योजयेत् ॥ १६७ ॥
प्रसार्य लाक्षापटलं$^3$ रोमाणि$^4$ तदनन्तरम् ।
ऊर्ध्वं गन्धकचूर्णं च$^5$ ततो नागदलं तथा$^6$ ॥ १६८ ॥
गन्धकं नरलोमानि लाक्षायाः पटलं$^7$ क्रमात् ।
ऊर्ध्वं प्रसार्य संस्थाप्य$^8$ सूत्रवर्त्तिं$^9$ तु कारयेत् ॥ १६९ ॥
करञ्जतैल$^{10}$मध्ये तु दशरात्रं निधापयेत्$^{11}$ ।
दोलायभागां तां वर्त्तिं$^{12}$ संदंश्य तु विधारयेत्$^{13}$ ॥ १७० ॥
तां द्रुतिं पातयेत् पात्रे सौवोरटङ्कणान्वितं$^{14}$ ।
(1) K reads एवं. (2) B reads चतुर्थांशप्रमायेन. M reads चतुर्थांशे
प्रमाणेन. Both are incorrect. (3) B reads लाक्षापठ, which seems
to be the error of the scribe. (4) B reads रोगाणि, which is inc.
M reads रामाणि, which is also inc. (5) B reads गधकचूर्णं च. K
reads तु. M reads ऊर्ध्व. (6) नागादलत्त्वथ, an incorrect reading in
B. K reads त्वया, which is inc. (7) B has लक्षाया:. M has पाटल.
Both the readings are inc. (8) This charaṇa and the next are
wanting in K. M reads सञ्चाय instead of संस्थाप्य. (9) B has सूत्रे
वर्त्ति. (10) K reads कारञ्जसैल. (11) K has नियोजयेत्. M
has दशरात्रेण दापयेत्. (12) B reads वा वर्त्ति. K reads दोलमयगतां
वर्त्ति. M reads दोमो द्वयाया तावर्त्ति, which is unintelligible. (13) तंडस्य
तु विधारयेत्, a variant in B. संडस्य तु विधारयेत्, a variant in K तस्यार्थे
विविधारयेत, a variant in M. (14) सौवीरघटिकान्विते, an incomplete
reading in B. सौवीरघटिकान्विते, a reading in M.
१६४ रसार्णवे
काचकूप्याश्च¹ मध्ये तु तत्तैलं स्थापयेत् प्रिये² ॥ १७१ ॥
कृत्वा गोस्तनमूषायां³ लिप्तायां शिलया रसम् ।
चतुःषष्ट्यादिभागेन⁴ ज्ञात्वा देवि बलाबलम् ॥ १७२ ॥
गर्भनागद्रुतिं दत्त्वा तां मूषां सुरवन्दिते⁵ ।
गर्ते गोमयसंपूर्णे विन्यस्य पुठपाचनम् ।
दद्यात् करीषतुषयोः⁶ प्रहृतिद्वितयेन च⁷ ॥ १७३ ॥
दद्यादजीर्णशंकायां⁸ सिद्धवल्लोररसस्य तु⁹ ।
चतुर्बिन्दून् पुटे¹⁰ प्राग्वद्देवं¹¹ प्रतिदिनं भवेत् ॥ १७४ ॥
जारणात्रिगुणात् सूतो¹² भवेज्जम्बूफलप्रभः¹³ ॥ १७५ ॥
माक्षिकं सत्त्वमल्पाख्यं मृतनागसमन्वितम् ।
मूषागतं भवेद्यावत्¹⁴ काचं¹⁵ दत्त्वाधरोत्तरम् ।
(1) Both B and K read काचकूपस्य. (2) K reads पुनः.
(3) B has गोस्तनमूषायां. K has गोस्तनमुख्यायां. (4) B reads पातेन.
(5) K reads तु मुखमुद्रिते, (6) करीषतुषये, an incorrect reading in
B. करीषतुषयोः, a reading in M, which seems to be the error of the
scribe. (7) प्रहृतिर्द्वितयेन वा, a variant in K, which is gram. inc.
M has प्रसृत instead of प्रहृति. (8) B reads संकायां, which is gram.
incorrect. (9) K reads प्रौढवल्लीरसेन तु. M reads सिद्धवल्लोररसस्य तु.
(10) B and K read चतुर्बिंदुपुटे. (11) K has प्राग्वद्देवं, which has
no sense. (12) जारणा द्विगुणा सूता, a variant in B. जारणाद्विगुणे सूतो,
a variant in M! (13) भवेज्जम्बूफलं प्रभः, an incorrect reading in B.
(14) भवेद्वाथ, a reading in B. भवेद्बुद्ध, a reading in K. (15) The
word काचं is not found in K
एकादशः पटलः । १८५
एवं द्वादशवारांस्तु¹ सुध्मातं रञ्जितं² भवेत् ॥ १७६ ॥
तेन पक्वं बीजचूर्णं पारदे पादभागिकम्³ ।
मर्दितं चणकाम्लेन चणाह्नेद्रुतिर्भवेत्⁴ ॥ १७७ ॥
गर्भद्रुतिर्न चेद्देवि⁵ वर्णिकाद्वयगन्धयोः⁶ ।
रक्तसिन्धूद्भवार्कं⁷ टङ्कणानुगपुंखतः⁸ ।
कल्क्रेन लिप्तं पुटितं⁹ वीजं गर्भे द्रुतं¹⁰ भवेत् ॥ १७८ ॥
वीजे पादार्ध¹¹तुल्यांशे जीर्णे वेधं करोति सः ।
दशषोडशभागेन द्वात्रिंशांशेन¹² च क्रमात् ॥ १७९ ॥
संयोज्य त्रिगुणां रीतिं¹³ तारे तारावशेषितैः¹⁴ ।
(1) K reads द्वादशवारैस्तु. M reads द्वादशवारस्तु, which is incorrect.
(2) B reads रजतं. K reads रंजन. (3) B reads पारभागिक. M
reads पारद योजभागिकम्. (4) B has गर्भे द्रुतिर्भवेत्. K has an in-
complete text—चणाह्नेर्भवेत्. (5) गर्भद्रुतिर्भवेद्देवि, a variant in K,
which is partly incorrect. (6) K has वाणकाद्वयगंधयो:. M has
यन्त्रिकागधगन्धयोः. Both seem to be inc. (7) रक्तसिंधूभवालकं, an
incorrect variant in B. सुसैंधवबालार्क, a variant in K. रक्तसिद्धिभयालर्क, a
variant in M. (8) B reads पूङ्खतः. M reads कङ्कणानुग्पुङ्खतः.
(9) M has खल्लेन लिप्तं छुटित, which seems to be inc. (10) B reads
गर्भद्रुतिं. K reads वीजगर्भ द्रुत. M reads बोजगर्भद्रुत. All are gram. inc.
(11) B reads पादार्थ, which is not correct. (12) B reads द्वात्रिं-
शांशिन. (13) The portion beginning from this charana and ending
in मनःशिला (vs. 180 & 181) is wanting in B. M reads त्रिगुण, which is
gram., inc. (14) K reads तारावशेषित.
२४
१८६ रसार्णवे
तारारिष्टमिटं लिप्ता¹ तेन सूतेन वेधयेत् ॥ १८० ॥
अतः परन्तु संस्कारं² वक्ष्ये नागाभ्रजारणम् ।
करवीरारुणां³ देवि चूर्णयित्वा मनःशिलाम् ॥ १८१ ॥
भावयेद्विंशतिं वारान्⁴ यवचिञ्चारसेन तु ।
तेन कल्केन संलिप्य नागपत्रं प्रयत्नतः⁵ ।
कर्ष्वानलेन⁶ विपचेत् यावत्तत् चूर्णितं भवेत् ॥ १८२ ॥
रसकस्य च भागांस्त्रीन्⁷ भागैकं दरदस्य च⁸ ।
पेषयेन्मातुलुङ्गेन पाटगन्धं⁹ शिलाविषम् ॥ १८३ ॥
कल्केनानेन लिप्तायां¹⁰ मूषायां¹¹ पुटपाचितम् ।
तं नागं धमयेद्देवं¹² समधा हेमवद्भवेत् ॥ १८४ ॥
पीताभ्रकं खेकदलं¹³ लिप्तायां¹⁴ मरिचेन तु ।
मूषीयां ध्मातमग्न्याभं सौभाञ्जनरसे¹⁵ क्षिपेत् ॥ १८५ ॥
(1) तारारिष्टमिदं लिप्त, a variant in K. (2) K reads सुलग्मं.
(3) K reads करवीराक्षण, which is incorrect. (4) K reads विंशति-
एकादशः पटलः । १८७
घातयेत् पूर्व्वविधिना तत् सत्वं हेमभासुरम्¹ ॥ १८६ ॥
बलं रञ्जितनागस्य सत्वं पीताभ्रकस्य च² ।
स्रोतश्यकचधूमोत्थ³-शुद्धायस्कान्तकचैः ।
तुत्थेन संयुतेनैतन्नागाभ्रं⁴ हञ्चितं⁵ भवेत् ॥ १८७ ॥
किंवारनाल⁶सिद्धार्थ-धूमसारैष्टकाङ्गुडैः⁷ ।
मर्दयेन्निदिनं सूतं⁸ डोलायां⁹ स्वेदयेत् त्र्युषम् ॥ १८८ ॥
पुनर्नवामेषशृङ्गो-सर्पाक्षीकल्कसंयुतम् ।
अथासुरो¹⁰सिन्धुविषं मरिचैः परिपेषितैः¹¹ ।
दोलायन्त्रे पुनरपि¹² स्वेदयेद्दिवसत्रयम्¹³ ॥ १८९ ॥
अष्टमांशेन नागाभ्रं चारयित्वा¹⁴ सुरेश्वरि ।
शिलाभागद्वयं चैकं सिन्धुसौवर्चलं¹⁵ भवेत् ॥ १९० ॥
टङ्कार्द्धं विषपादञ्च¹⁶ विड़ः पिष्टाष्टमांशतः¹⁷ ।
(1) तत् सर्वं हेमभास्वरम्, a variant in M. (2) K reads तु.
(3) B reads धूमोक्तं. K reads धूमोत्थ. M reads धूमाद्यं. All the texts
appear to be incorrect. (4) B has संयुतेरेतन्नागाभ्रं. M has सिन्धुजै-
रेतैर्नागाभ्र. (5) K reads बंधितं. (6) M reads किंवाश्नाल.
(7) धूमसारैष्टिकागुडः, a variant in K. धूमसारैष्टकाङ्गुडैः, a variant in M.
(8) K has an incorrect reading—मर्दये त्रिदिनं भूतं. (9) M reads
डोलायां. (10) B reads यथासुरि. (11) मरीचैः परिवेष्टितैः, a
variant in M. (12) दोलायन्त्रे च च रसं, a variant in K. M reads
डोलायन्त्रे. (13) B has an incorrect reading—स्वेदयेद्दिवसं त्रयं.
(14) K reads जारयित्वा. (15) B has सिन्धुसौवर्चलात्. (16) K
reads टंकणाधैविषं पादः. (17) M has विड़पिष्टाऽष्टमांशकम्, which seems
to be incorrect.
१८८ रसार्णवे
त्रिदिने¹ कच्छपे जार्यमेवं² जार्यन्तं षड्गुणं³ ॥ १८१ ॥
शैलं तुत्योरगं⁴ ताम्रं तीक्ष्णघोषारकाञ्चनम्⁵ ।
क्रमवृद्धमिदं तुत्यं ताप्यसत्त्वनिपातनात्⁶ ॥ १८२ ॥
हेमावशेषं तद्बीजं पादांशं⁷ मातुलान्भसा ।
चारयेद्रसराजस्य जारयेत् कनकान्वितैः⁸ ॥ १८३ ॥
ताप्यसौवर्चलशिला-गन्धकासीस⁹टङ्कणैः ।
पद्मयन्त्रे¹⁰ निवेश्याथ कोलं दत्त्वा सुरेश्वरि ॥ १८४ ॥
धमेद्दिनत्रयं¹¹ मन्दं यावद्बीजं द्रुतं¹² भवेत् ।
तमेव समजीर्णन्तु¹³ वह्नौ निष्कम्पनं रसम्¹⁴ ॥ १८५ ॥
ततः षड्गुण¹⁵बीजेन सारणा¹⁶क्रमयोगतः ।
तारारिष्टमहिं शुक्लं¹⁷ सहस्रांशेन वेधयेत् ॥ १८६ ॥
विषण्गन्धकताप्याभ्र¹⁸-काकविष्ठा घनध्वनिः ।
(1) K reads त्रिदिन. (2) B reads मेव. M reads मेव. (3) K
has षटरस. (4) K reads शैल तुत्यारजः. M reads शैलं दुग्धोरग.
(5) तीक्ष्णघोषारकक्रमात्, a variant in B. (6) Both K and M read
निवापनात्. रस.स. says "निर्वापणं पातनसम्प्रयुक्तम्" Chap. VIII. v. 60.
(7) K reads पत्रांशं. (8) K reads कम्बयान्वितैः. (9) K reads
काशीस. (10) K reads पद्मपत्रे. (11) K reads erroneously
धर्मेद्दिनत्रय. (12) B reads erroneously हतं. (13) B has
सजीर्य तु, which is defective. K has समजीर्णे तु. (14) K reads निः-
कंपित रसं. निष्कंपन रथ: is the reading in M, which is unintelligible.
(15) K reads षट्गुण. (16) The letter क्र is wanting in K.
(17) B reads तद्विगुणं. K reads तारारौष्टमद्विगुणं. (18) B reads
ताप्यभ. K reads ताप्योभ. M reads तालाभ.
एकादशः पटलः । १६८
सहदेवो व¹ह्निशिला कल्केन क्रमते रसः² ॥ १६७ ॥
मूर्च्छितो मृतसूतश्च³ जलूकाबन्ध एव च⁴ ।
चतुर्थो मूर्त्तिबन्धस्तु⁵ पट्टबन्धस्तु⁶ पञ्चमः ।
भस्मसूतश्च खोटश्च संस्कारात्⁷ सप्तधा रसः ॥ १६८ ॥
नागवर्णं⁸ भवेत् सूतं विहाय घनचापलम् ।
लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि ॥ १६९ ॥
आर्द्रत्वञ्च घनत्वञ्च⁹ तेजोगौरवचापलम्¹⁰ ।
यस्यैतानि न दृश्यन्ते¹¹ तं विद्यान्मृतसूतकम्¹² ॥ २०० ॥
नानावर्णं तथा स्वच्छं¹³ द्रुतं योनौ जलूकवत्¹⁴ ।
बध्यते¹⁵ सूतकं यच्च¹⁶ जलूकाबन्ध¹⁷लक्षणम् ॥ २०१ ॥
(1) The letter व is wanting in B. (2) B reads रसं. (3) B
reads मृतसूतस्य, which is incorrect. M reads मृतमूरस्य, which is evidently
an error of the scribe. (4) B reads बधमेव च, which is incorrect.
(5) B and K read मूर्त्तिबद्धस्तु. (6) K reads पटबन्धश्च. (7) M
reads घोटश्च संस्काराः. (8) B and K read नानावर्णं. (9) चार्द्रत्वं
चपलत्वं च, a variant in K. M reads चापलञ्च, which seems to be inc.
(10) M reads चापलः, which is gram. inc. (11) रसस्यैतानि दृश्यन्ते,
a variant in M, which conveys just the opposite sense. (12) विद्यात्तं
मृतसूतक, a variant in K. तं विन्दान्मृतसूतकम्, a variant in M. (13) B
reads सूच्छं, which appears to be inc. (14) B has द्रुतं यांगौ, which
is inc. K has योनौ पालूकवत्, which seems to be incorrect. M has यो
न, which is also inc. (15) B reads वर्षते, which is inc. K reads
वर्धते. . (16) K reads यावत्. Another reading is सूतको यच्च.
(17) K reads जलूकाबद्ध.
१८० रसार्णवे
गुरुत्वमरुणत्वञ्च¹ तेजसा सूर्य्यसन्निभम् ।
शिखिमध्ये धृतं² तिष्ठेत् मूर्त्तिबन्धस्य³ लक्षणम् ॥ २०२ ॥
शलाकाजारणाद्वापि⁴ मूर्त्तिबन्धत्वमिष्यते ॥ २०३ ॥
श्वेतं पीतं गुरु तथा मृदु सिक्यक⁵सन्निभम् ।
अग्निमध्ये यदा⁶ तिष्ठेत् पट्टबन्धस्य⁷ लक्षणम् ॥ २०४ ॥⁸
कृष्णं श्वेतं तथा पीतं⁹ नीलं¹⁰ भस्मनिभं तथा ।
चपलत्वं यदा¹¹ नष्टं भस्मसूतस्य¹² लक्षणम् ॥ २०५ ॥
कुकुटाण्डनिभं¹³ सूतं यदा लवणभेदि च¹⁴ ।
आवर्त्तते¹⁵ रसस्तद्वत् खोटकस्य च¹⁶ लक्षणम् ॥ २०६ ॥
अथवा कदने स्निग्धं¹⁷ रश्मिना मृदुना द्रवेत् ।
(1) K has गुरुत्वं मरणत्व च, which is incorrect. (2) B reads
धूप. M reads द्रुत. (3) K reads मूर्त्तिबद्धस्य. (4) This
charaṇa and the next are not found in K. M reads शलाकाधारणाद्वापि.
(5) B reads सिक्याक. M reads सिक्षक. (6) M reads यथा.
(7) B has पटबद्धस्य here ; but it has mentioned पट्टबन्ध in the 198th
śloka. (8) This śloka is not found in K. (9) B reads
रक्तपीत instead of पीतं, which mars the metre. K reads भेदि श्वेतं instead
of कृष्ण श्वेत. M reads कृष्णश्वेतं, (10) M reads नील (without any
suffix). (11) M reads यथा. (12) B and M read भस्मसूतक.
(13) B has an erroneous reading—कुकुटांगंडभिभ्रं. (14) K reads
लवणसैंधवं. M reads लवणभेदि च. Another reading is पटु भेदि भवेद्यदा.
(15) K and M read चावर्त्तिते. Another reading is चावर्त्तितं पुनस्तद्वत्.
(16) B reads खोटबद्धस्य. M reads घोटबन्धस्य. (17) B reads खिग्ध.
एकादशः पटलः । १८१
अच्छयं कठिनं खेतं¹ खोटबन्धस्य लक्षणम् ॥ २०७ ॥²
खोटादयस्तु ये पञ्च³ विहाय जलुकाकृति⁴ ।
हठाग्नौ धमिताः सन्ति⁵ न तिष्ठत्येव⁶ मूर्च्छितः ॥२०८॥
तरुणादित्यसंकाशो नानावर्णः⁷ सुरेश्वरि ।
वेधयेद्वहलोहानि रञ्जितो रसभैरवः ॥ २०६ ॥
शोधनं सूतकस्यादौ ग्रासमानमतः परम् ।
जारणं व्योमसत्त्वस्य सर्व्वसत्त्वस्य⁸ जारणम् ॥ २१० ॥
गर्भबाह्यद्रुतिः पश्चात् सुवर्णस्य तु जारणम् ।
दिव्यौषधिपुटः⁹ पश्चात् रत्नबन्धमतः परम्¹⁰ ॥ २११ ॥
रञ्जनञ्च ततो देवि जारणा चानुसारणा¹¹ ।
क्रामणञ्च ततो देयं¹² सूतकस्य विचक्षणैः ॥ २१२ ॥
एवं क्रमं तु यो वेत्ति तस्य सिद्धिर्न संशयः ॥ २१३ ॥
(1) B reads कठिनश्वेत. (2) This śloka is not found in M.
(3) खोटाद्यैस्तु ये पञ्च, a variant in K. खोटादयंस्तु ये पञ्च, a variant in M.
Both the readings are incorrect. (4) विद्यया जलुकाकृतिः, a variant
in K. विद्यया जुलुकाकृतिः, a variant in M. Both of them are incorrect.
(5) हठाग्नौ धासिताऽसंति, an erroneous reading in B. अधौ धमितः, an
incomplete reading in K. हठामौ धामितस्सभिः, a reading of unintelli-
gible sense. (6) K reads संतिष्ठत्येव, which is just the opposite in
sense. (7) B reads नामवर्णं. (8) K reads सर्व्वे सत्वस्य, which
is inc. (9) B reads पुट K reads दिव्यौषधौपुटे. M reads दिव्यौ-
षधपुटः. (10) K reads रत्नबद्धमतः पर. M reads रत्नबन्धनतः परम्.
(11) K. reads चानुसारणान्. M reads जारणायानुजारखी Both seem to be
inc. (12) K reads क्रामणन्तु. M reads देयं:, which is gram. inc.
१९२ रसार्णवे
वेधकं यस्तु जानाति¹ देहे लोहे² रसायने ।
तस्य जन्म³ जरा व्याधिर्नश्यत्येव न संशयः ॥ २१४ ॥
देहे तु पञ्चरत्नानि⁴ नागं वङ्गं तथाऽयसम्⁵ ।
क्रामणं रसराजस्य भेषजं व्याधिनाशनम्⁶ ॥ २१५ ॥
औषधैः⁷ क्रमते सूतो योगशक्तिक्रमेण⁸ तु ।
क्रमते⁹ व्याधिसंघाते ध्वंसंते दुष्टमामयम् ॥ २१६ ॥
तस्य तु क्रामणं ज्ञात्वा¹⁰ ततो वैद्यैरुपाचरेत्¹¹ ।
क्रामणेन विना सूतो न क्रमेत्¹² न च वेधयेत् ।
देहलोहामयान् सर्व्वान्¹³ वृथा स्यात् केवलं¹⁴ श्रमः ॥२१७
यस्य रोगस्य यो योग¹⁵स्तेनैव सह¹⁶ योजयेत् ।
रसेन्द्रो हरति व्याधीन्¹⁷ नरकुञ्जरवाजिनाम् ॥ २१८ ॥
(१) वेधक यो न विजानाति, a variant in B, wherein न is incorrect.
(२) M reads देहदृहे, which is incorrect. (३) The word जन्म is not
found in B. (४) B reads दृढे, which is inc. M reads पञ्चरक्तानि,
which is also inc. (५) नागवंगं तथायसे, a variant in M. (६) B
has व्याधिनाशने (७) K reads चौषधिः. (८) B has योगमुक्ति-
क्रमण. M has व. र उक्तः क्रमेण. (९) M reads कामतो, which appears
to be inc. (१०) B reads तन्माणं. K reads कामणां. M reads तत्तत्
क्रामणक वाद्य. (११) वैद्यैरूपाचयेत्, a reading in B. (१२) B
reads क्रामित्. K reads कार्की. (१३) K has देहलोहमयान् संधान्. M
reads देहलोहमयान् सर्व्वान्. (१४) K reads केवलः. M has रसः स्यात्
केवलश्रमः. (१५) M reads यो योगैः, which is gram. inc. (१६) K
reads स instead of सह. (१७) B reads व्याधिं. K reads हरते व्याधिं.
एकादशः पटलः । १८३
आरीटो बलमाधत्ते¹ मूर्च्छितो व्याधिनाशनः ।
बद्धेन खेचरोसिद्धिः² मारितेनाजरामरः³ ॥ २१९ ॥
विशेषाद्वाधि⁴शमनो गन्धकेन तु⁵ मूर्च्छितः ।
ओषध्या घातितः⁶ सूतो यथा भूयो⁷ न जोषति ॥ २२० ॥
सहि क्रामति लोहेषु⁸ तेन⁹ कुर्याद्रसायनम् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि¹⁰ ॥ २२१ ॥
इति श्रीपार्वतीपरमेश्वरसंवादे¹¹
रसार्णवे रससंहितायां
बालजारणो नाम¹²
एकादशः पटलः ॥११॥
(1) K reads चरीटो. M reads चाटौ चपलमाधत्ते, which is senseless.
[For the explanation of आरीट vide र.म.सं. Chap. XI. v. 60.] (2) बद्धस्तु
खेचरीसिद्धिं, a variant in K. बद्धेन खेचरीसिद्धिः, a variant in M.
(3) मारितेन जरामरः, a reading in B and M. मारीतेनाजरामरं, a reading
in K. Both the readings seem to be incorrect. (4) B reads
विशेषाव्याधि. K reads विशेषाव्याधि. (5) The letter तु is not found
in K. (6) K has चौषध्या पातितः. M has चाषध्य (without any
suffix). (7) M reads पतेद्भूयो. (8) स सहि क्रमति लोहेषु, a
variant in B, wherein the first स is redundant. K reads देहेषु.
(9) K reads न instead of तेन. (10) K reads मर्हसि. (11) This
is wanting in B and M. (12) B, K and M read बालजारण नाम :
but this is not strictly correct.
25
द्वादशः पटलः ।
श्रीदेव्युवाच ।¹
ओषधी² कीदृशी नाथ रसमूर्च्छाकरो शुभा ।
केन वा भस्मसूतः³ स्यात् केन वा खोटबन्धनम्⁴ ॥ १ ॥
श्रीभैरव उवाच⁵ ।
शृणु भैरवि यत्नेन⁶ रहस्यं रसबन्धनम् ।
ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं बीरवन्दितै⁸ ॥ २ ॥
गङ्गायमुनयोर्मध्ये प्रयोगो नाम⁹ राक्षसः ।
तस्यासने¹⁰ वरारोहे क्षणाद्बध्येत¹¹ सूतकः ॥ ३ ॥
निशाचरस्य पत्राणि¹² गृह्णीयात् साधकोत्तमः¹³ ।
अधो निष्पाड़ितं¹⁴ देवि रसं¹⁵ भवति चोत्तमः ॥ ४ ॥
(1) This is wanting in M.
(2) K reads चौषधी. M reads
ओषधी, which is gram incorrect.
(3) K reads सूतभस्म.
(4) K reads बंधनं, which is incorrect.