रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 209, कुल 558 में से
संदर्भ में पढ़ें१८६ रसार्णवे
तारारिष्टमिटं लिप्ता¹ तेन सूतेन वेधयेत् ॥ १८० ॥
अतः परन्तु संस्कारं² वक्ष्ये नागाभ्रजारणम् ।
करवीरारुणां³ देवि चूर्णयित्वा मनःशिलाम् ॥ १८१ ॥
भावयेद्विंशतिं वारान्⁴ यवचिञ्चारसेन तु ।
तेन कल्केन संलिप्य नागपत्रं प्रयत्नतः⁵ ।
कर्ष्वानलेन⁶ विपचेत् यावत्तत् चूर्णितं भवेत् ॥ १८२ ॥
रसकस्य च भागांस्त्रीन्⁷ भागैकं दरदस्य च⁸ ।
पेषयेन्मातुलुङ्गेन पाटगन्धं⁹ शिलाविषम् ॥ १८३ ॥
कल्केनानेन लिप्तायां¹⁰ मूषायां¹¹ पुटपाचितम् ।
तं नागं धमयेद्देवं¹² समधा हेमवद्भवेत् ॥ १८४ ॥
पीताभ्रकं खेकदलं¹³ लिप्तायां¹⁴ मरिचेन तु ।
मूषीयां ध्मातमग्न्याभं सौभाञ्जनरसे¹⁵ क्षिपेत् ॥ १८५ ॥
(1) तारारिष्टमिदं लिप्त, a variant in K. (2) K reads सुलग्मं.
(3) K reads करवीराक्षण, which is incorrect. (4) K reads विंशति-