सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १०. - सू - १०. ] दीपिकासहितम्. ९२७
ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।
इतिप्राह महायोगी पुमर्थानांविनिर्णयम् ॥
इति भविष्यत्पर्वणि ।
( १६ ) ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् ।
धिकं भवेदित्येवं देवतालक्षणाधिकारिविशेषविवक्षया ‘पुमर्थानांवि
निर्णयं’ षष्ठ्या अलुक्, व्यधिकरणबहुव्रीहिर्वायं, स्वर्गादिपुमर्थसाध
नविषयकनिर्णयजनकं स्वमतं पृथक्प्राहेत्यर्थः। आकाशवद्व्याप्तज्ञान
महांशुमान् व्यास इति यथाश्रुतान्वयो न सम्भवति, व्याप्तज्ञानवत्त्वरू
पविधेयधर्मस्य पक्षदृष्टान्तोभयान्वयाभावात्, किन्त्वाकाशवद्व्याप्तं
च तत् ज्ञानं चेति विधेयैकदेशेनान्वयो वाच्यः। तथा चायमनन्वय
दृष्टान्तः। अत एव टीकाकृदनन्ताकाशवदित्यनन्वयदृष्टान्त इत्युक्त्वा
तदुपपादयितुं यथाऽऽकाशो व्याप्तस्तथा ज्ञानमित्येकदेशान्वयं प्रदर्शित
तवान् । न च दृष्टान्तस्य अनेकविधत्वाभावः ।
व्यत्यासोऽनन्वयश्चैव प्रसिद्धोऽभूत एव च ।
सर्वसांहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः ॥
इत्युक्तेः । ‘रमादिवन्नास्वतन्त्रो हरिः’ इति व्यत्यासदृष्टान्तः । अनन्व
यस्य तु प्रकृतमेवोदाहरणम् । प्रसिद्धो महानसादिः, ‘यथोर्णनाभिः’
(मु. १-१-७,) इति च । अभूतस्य ‘दिवि सूर्यसहस्रस्य’ इत्याद्युदा
हरणम् । सर्वसांहारिकस्य ‘कृष्णो नारायणवत्, रामः कृष्णवत्’ इ
त्यादि । सर्वेषां नारायणकृष्णधर्माणां कृष्णे रामे चोपसंहारात् । ‘गग
नं गगनाकारम्’ इत्यादि सर्वसांहारिकस्योदाहरणमिति केचिदाहुः ।
भविष्यत्पर्वणीति । मतानां प्रामाण्यमुक्तमिति शेषः ॥
( १६ ) नन्वेवं स्मृत्या मतानां प्रामाण्योक्तावपि परस्परविरुद्धत्वा
त्कथं तत्स्यादित्यतो भगवन्मतं देवताविषयं, जैमिन्यादिमतं मनुष्य
विषयमतो न विरोध इति भावेनात्र स्मृतिमाह—ज्ञानिनामिति ॥ त
त्त्वप्रदीपे तु राजसूयादिना फलाधिक्यमित्युक्तं सममिति चोक्तम् । त
त्र प्रमाणमाह—ज्ञानिनामपीत्यवतारितम् । यद्यपि देवाः ज्ञानिनः, त
थापीत्यर्थेऽपिशब्दः । ज्ञानिनां देवानां ज्ञानेन सर्वफलसिद्धावपीति
वा । ‘विशेषः’ आधिक्यं ज्ञानफल एव, न तु ज्ञाने इति शेषः । कुत
इत्यत आह—चीर्ण इति । कर्मणि ‘चीर्णे’ अनुष्ठिते ‘अकृते’ अननु
ष्ठिते वा ‘ज्ञानस्य’ ज्ञाने ‘विशेषः’ अतिशयः पुरुषार्थसाधनसामर्थ्या

९२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
चीणेऽकृते वा ज्ञानस्य न विशेषोऽस्ति कर्मणि ॥ इति
ब्रह्मतर्के ॥ ९ ॥
⸎
२. अधिकरणम् ॥
( १ ) सर्वेषां पुरुषार्थापेक्षित्वात् ज्ञानाधिकारितेति ।
( २ ) अत आह—
सू—ॐ ॥ असार्वत्रिकी ॥ ॐ ॥ १० ॥
न सर्वेषामधिकारः ॥ १० ॥
( ३ ) सू—ॐ ॥ विभागश्शतवत् ॥ ॐ ॥ ११ ॥
सामर्थ्यरूपो नास्तीत्यर्थः । 'हि' यस्माद्ब्रह्मतर्के इति व्यासमतस्य दे
वताविषयत्वोक्तेर्न विरोध इति वाक्यशेषः । यद्वा—तत्त्वप्रदीपानुसा
रात्फलाधिक्यं ज्ञानानां विशेषश्चोक्त इति शेषः ॥ ९ ॥
॥ इति पुरुषार्थाधिकरणम् ॥
:*:-
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे ज्ञाने सर्वेषामधिकाराभावो वर्ण्यते । पूर्वपक्ष
यति—सर्वेषामिति ॥ 'सर्वेषां' जनाना पुरुषैरर्थ्यमानो यो ज्ञानसा
ध्यो मोक्षः तदपेक्षित्वात् निर्दुःखसुखमाप्नुवानीति तदर्थित्वादित्यर्थः ।
उपलक्षणमेतत्—सर्वेषां ज्ञानसाधने श्रवणादौ सामर्थ्यात्तदुपयोगि
विद्वत्तासद्भावाच्चेत्यपि ज्ञातव्यम् । ज्ञानाधिकारिता स्यादिति शेषः ।
सर्वेषामधिकार इत्यनुक्त्वा अधिकारितेति स्त्रीलिङ्गप्रयोगेन वक्ष्यमाण
सूत्रं विशेष्यपदोक्त्याऽनुकरोति ॥
( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रं पठति—अ
सार्वत्रिकीति । ज्ञानाधिकारिता 'असार्वत्रिकी' सर्वेषां नेति व्याकृत
मपि सूत्रं पुनः स्वोक्तिविवरणेन व्याचष्टे—नेति । जनानामिति शेषः॥
( ३ ) नन्वर्थित्वादेः सर्वेषामपि सद्भावात् कथं नाधिकारितेत्या
शङ्कां परिहरत्सूत्रमुपन्यस्यति—विभाग इति ॥ अत्र तुल्यमित्यतः तु
शब्दोऽनुवर्तते । शतवदिति चावर्तते । तत्रैकस्य शतशब्दवतो वचना
दित्यर्थ इत्याशयेन सूत्रं व्याचष्टे—नवकोट्य इति । 'नवकोट्यो' न
वकोटयः तावत्सङ्ख्याकाः 'हि' प्रसिद्धाः देवानां गणाः सन्तीति शे
षः । कोटीशब्दो वा, तथात्वे सङ्ख्या इति शेषः । 'तेषां' नवकोटी

[ अधि - २. सू - ११. ] दीपिकासहितम्. ९२९
नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु ।
सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥
यथा तथैवासङ्ख्येयाः प्रजास्तासु कियान् जनः ।
ज्ञानाधिकारी संप्रोक्तो विष्णुपार्देकसंश्रयः ॥
इति वचनात्सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधि
कारार्थम् ॥ ११ ॥
( ४ ) कस्याधिकारः ?
षां मध्ये 'शतस्य तु' शतसङ्ख्याकदेवगणस्यैव 'सोमाधिकारः' सो
मरसद्रव्यकयागाधिकार इत्यर्थः । सोमपानाधिकार इति वा । न के
वलं शतस्यैव, किन्तु शताधिकयोरपि अधिकारोऽस्तीत्याह—ब्रह्मणी
इति । विष्णुचतुर्मुखाख्यपरापरे ब्रह्मणी इत्यर्थः । यथाशब्दः शतस्येत्य
तः प्राग्योजनीयः । अत्यन्तसाम्ये एवशब्दः । प्रजाः सन्तीति शेषः ।
कियान् जन इति जात्यैकवचनम् । अयोग्यजनव्यावृत्त्यर्थमाह—वि
ष्ण्विति । वचनादित्यनेन शतवदित्यंशः, सुखापेक्षासाम्येऽपीत्यनेना
नुवृत्ततुशब्दश्च सर्वेषां निर्दुःखानन्दरूपपुरुषार्थापेक्षासाम्येऽपीत्यर्थत
या व्याख्यातः । इति वचनान्न सर्वेषां ज्ञानाधिकारः, किन्तु ज्ञानाधि
कारार्थं शतवद्विभागः 'इष्यते' अङ्गीक्रियते इति योजना । अनेन—
'शतवत्' शतस्येव यथा खलु नवकोटीनां देवत्वसाम्येऽपि न तेषां
साधारण्येन सोमाधिकारः किन्तु परापरब्रह्मद्वयाधिकशतस्येति वि
भाग एव, तथा 'शतवद्वचनात्' शतशब्दयुक्तनवकोट्य इति व
चनात् 'तु' अपि सर्वेषां पुरुषार्थापेक्षासाम्येऽपि न ज्ञानाधिकारः,
किन्तु तदर्थं ज्ञानाधिकारार्थं 'शतवद्विभागः' पुरुषविभागोऽङ्गीकार्य
इति सूत्रार्थ उक्तो भवति । सोमाधिकारिशतदेवास्तु तत्त्वप्रदीपेऽभि
हिताः । तेषामयं सङ्ग्रहश्लोकः—
प्रधानवायुर्मरुतोऽश्विनौ च वस्वर्करुद्राः पितरो गुरुश्च ।
द्यावापृथिव्यावृभवोऽपि विश्वे देवाः शतं सोमसवाधि
[ कारिणः ॥
इति । अत्र पितृपत्नीनां त्रित्वं, अश्विनोर्द्वित्वं, सहस्रऋभूणामेकत्वं च
विवक्षितम् ॥
(४) ननु यद्यर्थित्वादिसाम्येऽपि न सर्वेषामधिकारः, तर्हि कस्याप्य
सौ नस्यात् । यदिकेषां चिदधिकारोऽस्ति तर्ह्यर्थित्वाद्यतिरिक्तमधि
११७

[Header]
९३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]

सू—ॐ ॥ अध्ययनमात्रवतः ॥ ॐ ॥ १२ ॥
(५) अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।
गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥
न च वर्णाधरस्यापि तस्मादध्ययनान्वितः ।
ब्रह्मज्ञाने तु वेदोक्ते ह्यधिकारी सतां मतः ॥
इति ब्रह्मतर्के ।
कारप्रयोजकविशेषणं वक्तव्यम्, न च तदस्तीति भावेनाक्षिपति-कस्ये
ति । अर्थित्वाद्यतिरिक्तस्य केन विशेषणेन युक्तस्य अधिकारः ? न
केनापि युक्तस्येत्यर्थः । कस्याधिकार इति प्रयोगेन वक्ष्यमाणसूत्रापे
क्षितसम्बन्धिपदं प्रदर्शितं भवति । एतच्चोद्यपरिहाराय सूत्रं पठति—
अध्ययनेति । मात्रशब्दः कार्त्स्न्यर्थः । तथा च यथाशक्त्यखिलवेदाध्य
यनरूपविशेषणवत इत्यर्थः । यथोक्तं तत्त्वप्रदीपे—मात्रशब्दः कार्त्स्न्येऽ
वधारणे च । तथा च साङ्गवेदाध्ययनवतः सफलाध्ययनवतः अश
क्तौ च यथा सम्भवं वेदाध्ययनवत इति । भवतीति ज्ञानाधिकार इ
ति सम्बन्धः ॥
(५) ननु यद्यध्ययनवतां ज्ञानाधिकारः तर्हि ‘विभागः’ इत्युक्ति
भङ्गस्स्यात् । सर्वैरपि वेदस्याध्येतुं शक्यत्वादित्यत आह—अवैष्णव
स्येति ॥ विष्णुभक्तिविहीनस्येत्यर्थः । अपिः वैदिकेऽपीति समुच्चये ,
वेदोक्तेऽपि तर्हि अवैष्णवस्यापीति वा । 'हि' यस्मात् । नञो द्विर्ग
हणं सर्वत्र सम्बन्धं ज्ञापयति । अथ वा—शूद्रस्य तन्त्रेऽधिकारस
त्त्वात् पृथङ्निषेधः । आद्यश्चस्समुच्चये । द्वितीयाऽवधारणे । वर्णाध
रः शूद्रः । अपिस्समुच्चये । 'वेदोक्ते तु' वेदजन्य एव ब्रह्मज्ञाने । त
न्त्रोक्ते त्वध्ययनानपेक्षेति तुशब्दाभिप्रायः । तृतीयोऽपिः भिन्नक्रमः
विष्णुभक्तिरूपविशेषणसमुच्चयार्थः । हिशब्दपाठे पुनः हिशब्दः प्रसि
द्धौ, सज्जनसम्मतहेतुत्वद्योतको वा । तस्मादित्यस्य यस्मादध्ययने
भगवद्भक्तिमतामेवाधिकारो नान्येषां, तस्मादध्ययनान्वितो ब्रह्मज्ञानेऽ
धिकारीति युक्तमित्यन्वयः । इतीति शेषः। न चाभक्तस्यानधिकारित्वे
चतुर्मुखस्य विरोचनाध्यापने कथं प्रवृत्तिरिति वाच्यम् । अभक्ताना
मनधिकारितया तदध्ययनस्य वैफल्यमेवेति ज्ञापनायाध्यापनोपपत्तेः।
अत एव तत्त्वप्रदीपे अध्ययनवत इत्येतत् सफलाध्ययन इति व्याख्या
तम् । इति ब्रह्मतर्क इति । सूत्रकृदुक्तमुक्तमिति वाक्यशेषः ॥

[ अधि - ३. सू - १३. ] दीपिकासहितम्. ९३१
( ६ ) 'पठेद्वेदानथार्थानधीयीताथ विचार्य ब्रह्म विन्देत्'
इति कौषारवश्रुतिः ॥ १२ ॥
*
३. अधिकरणम् ॥
( १ ) मू--ॐ ॥ नाविशेषात् ॥ ॐ ॥ १३ ॥
न सामान्येनाधिकारो देवादिनाम् ।
( २ ) अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।
( ६ ) अध्ययनवतो वैदिकब्रह्मज्ञानेऽधिकार इति यत्स्मृत्या सिद्धं
तत्र श्रुतिं चाह—पठेदिति ॥ 'वेदान् पठेत' गुरूच्चारणमनूच्चारयेत् ।
'अथ' अनन्तरं 'अर्थान्' वेदार्थान् 'अधीयीत' गुरुमुखाज्जानीया
त् । अथैवं श्रवणोपासनानन्तरं 'ब्रह्म विचार्य' मत्वा ध्यात्वा च 'अथ
विन्देत्' अपरोक्षतो जानीयात् । अथ प्राप्नुयादित्यर्थः । इति चेति
चः पूर्वोक्तस्मृतिसमुच्चये । श्रुतिश्चेत्यन्वेति । अध्ययनवतामेव वैदिक
ब्रह्मविद्याधिकार इत्यर्थमाहेति शेषः ॥ २ ॥
॥ इति असार्वत्रिकाधिकरणम् ॥
—:*:-
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे ज्ञानाधिकारे तारतम्यं समर्थ्यते । तारतम्य
कल्पकाभावात् सर्वेषां अविशेषेण ज्ञानाधिकार इति पूर्वपक्षे सिद्धा
न्तसूत्रं पठति—नेति ॥ अत्राधिकार इत्यनुवर्तते । अविशेषादित्यनु
वर्तते । नाविशेषादित्येकपदं च । देवादिनामिति शेष इति भावेन सू
त्रं व्याचष्टे—नेति । साम्येत्यावर्तते । तत्र द्वितीयस्य साम्यप्रसङ्गादि
त्यर्थः । देवादिनामिति । 'देवानां' ऋषिगन्धर्वाणां मनुष्याणां च न
साम्येनाधिकारः, तथा तेषां प्रत्येकमपि न साम्येनाधिकार इत्यर्थः ।
अनेन—देवादिनां ज्ञाने अधिकारः 'अविशेषात्' साम्येन न, कुतः ?
तथासति 'अविशेषात्' ज्ञानेऽपि साम्यप्रसङ्गात् । किन्तु 'नाविशे
षात्' तारतम्येनेति सूत्रार्थ उक्तो भवति ॥
( २ ) ज्ञानाधिकारतारतम्ये न केवलं युक्तिः प्रमाणमित्याशयेन श्रु
तिं चाह—अथेति ॥ आरम्भे अथशब्दः । पुरुषार्थो मोक्षः । तथा च
'अर्थो' वित्तं 'धर्मः' सुकृतं 'ज्ञानं' ब्रह्मदर्शनमित्येतानि त्रीणि पूर्व
पूर्वं उत्तरोत्तरमपेक्ष्य पुमर्थसाधनानीत्यर्थः । तत्रार्थस्य धर्मज्ञानद्वारा

९३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम्'
इति कौण्डिन्यश्रुतिः ॥ १३ ॥
४. अधिकरणम् ॥
( १ ) 'अथ मुनिर्मौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्रा-
ह्मणः केन स्याद्येन स्यात्तेनेदृश एवेति' (बृ. ५-५-१०)
मोक्षसाधनत्वं, धर्मस्य ज्ञानद्वारा, ज्ञानस्य तु साक्षादिति विवेकः ।
एतेषु योऽधिकारिणः तेषां च तारतम्यमाह — तत्रेति । त्रिष्वित्यर्थः ।
इत्येते उत्तरोत्तरमतिशयिताः प्रत्येकं प्रत्येकमधिकारिण इत्यर्थः । तत्त्व-
प्रदीपे तु—अर्थो धर्मो ज्ञानमित्युत्तरोत्तरतः पुमर्थानां कामस्वर्गापव-
र्गाणां साधनानि साध्यं चोत्तरमधिकमित्यर्थः । तेषु त्रिष्वपि अधिका-
रिणो मनुष्यपर्य्यादिदेवास्तु 'उत्तरोत्तरं' प्रत्येकं प्रत्येकं वेत्यर्थ इत्युक्त-
म् । अस्य नेति पूर्ववाक्येनान्वयः ॥ ३ ॥
॥ इति अविशेषाधिकरणम् ॥
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे ज्ञानिनां सदसत्प्रवृत्त्योर्विशेषः साध्यते । पूर्व-
पक्षं सूचयति—अथेति ॥ अथेत्यतः प्राक् ज्ञानिनः सदसत्प्रवृत्त्योर्विशे-
षो नास्तीति साध्यमध्याहृत्य तत्र हेतुतया यतश्शब्दाध्याहारेणाथे-
त्यादि विधीयत इत्यन्तं वाक्यं योजनीयम् । ईदृश एवेति । इति श्रुता-
विति शेषः । 'तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासे-
त् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर्मौनं च मौनं च नि-
र्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवेति'
बृहदारण्यकवाक्यस्यायमर्थः—यस्मादपरोक्षज्ञानान्मोक्षः, तस्माद्यो
'ब्राह्मणो' ब्रह्म आणिंतुं प्राप्तुं योग्योऽसौ 'पाण्डित्यं' आगमजन्यं श्र-
वणारूपज्ञानं सम्पादयेत् । पाण्डित्यं 'निर्विद्य' नितरां लब्ध्वा 'बा-
ल्येन' युक्तिरूपबलसहितेन तज्जन्येन मननरूपज्ञानेन 'तिष्ठासेत्'
स्थातुमिच्छेत बाल्यं सम्पादयेदिति यावत् । 'अथ' तदुभयलाभान-
न्तरं 'मुनिः' ध्यानी भवति मौनममौनं च निर्विद्येत्यनुवादात् अथा
मुनिरपरोक्षज्ञानी भवतीति लक्ष्यते । अत एव व्यासतीर्थीये 'अथ मु-
निः' इत्यस्यानन्तरमध्याहृतस्यामुनिरित्यस्यार्थमाहेत्युक्तम् । तथा च

[ अधि - ४. सू - १४. ] दीपिकासहितम्. ९३३
ज्ञानिनो यथेष्टाचरणं विधीयत इति ।
( २ ) अत आह—
सू— ॐ ॥ स्तुतयेऽनुमतिर्वा ॥ ॐ ॥ १४ ॥
एवं ‘मौनं’ उपासनारूपज्ञानं ‘अमौनं’ अपरोक्षज्ञानं च निर्विद्याथ
ब्राह्मणो जीवन्मुक्तो भवति तथोच्यते ‘सः’ जीवन्मुक्तो येन केन
सता वा स्यादसता वा प्रकारेण कर्माचरणेन ‘स्यात्’ वर्तेत, ‘तेन’
यथेष्टाचरणेन ‘ईदृश एव’ ज्ञानफलमोक्षं प्राप्त एव भवति । न ताव
ता तस्य मोक्ष हानिरिति । यद्यपि बृहद्भाष्ये ‘ब्राह्मणो’ मुक्तो भवती
त्यर्थः । ‘सः’ मुक्तो येन केनापि वर्तयन् ‘ईदृश एव’ परमात्मनः स
काशादानन्दभिक्षुक एव, न कदाचित्स्वतन्त्रो भवतीति ब्राह्मणशब्दः
परममुक्तपरतया येन केनेत्येतन्निमित्तपरतया च व्याख्यातः । तथा
ऽपि तत्रैव
प्रथमब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते ।
अपरोक्षविन्मुक्तयोस्तु तार्तीयेनोभयोर्ग्रहः ॥
इति प्रमाणोदाहरणेन अथमुनिरित्यस्यानन्तरं अध्याहारं विनैव ब्राह्म
णपदानुषङ्गेण श्रुतिव्याख्यानायापरोक्षज्ञानिपरत्वस्याप्युक्तत्वादविरो
धः । न च प्रमेयदीपिकायां बलेन युतं बालं तस्य भावो बाल्यमित्या
शयेन युक्तिबलोपेतत्वं बाल्यं, आगमज्ञत्वं पाण्डित्यं, ‘अथ मुनिः’
मननशीलो भवतीत्यर्थोक्तेर्विरोध इति वाच्यम् । गीताभाष्ये ‘मौनं
मननशीलत्वम्’ इत्यस्यार्थे अस्याश्श्रुतेरुदाहृतत्वात् तदानुकूल्याय त
था व्याख्यानेऽप्यस्य प्रकारान्तरत्वसम्भवात् ॥
( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रं पठति—स्तु
तय इति । अत्र ‘नाविशेषात्’ इत्यतः विपरिणामेन नाविशेष इत्य
स्यावृत्तिं ‘परामर्शम्’ इत्यतः अचोदनेत्यस्याकर्षणं च अभिप्रेत्य
सूत्रं व्याचष्टे—न विधिरिति । न यथेष्टाचारविधिरित्यर्थः । ‘केन
स्याद्येन स्यात्’ इति वाक्यमित्यस्ति । यत इति शेषः । न विधिरि
त्यस्यातो न विध्यनुपपत्तिदोष इत्युपस्कृतेनान्वयः । तस्य च अतो
ज्ञानिनः सदसत्प्रवृत्त्योर्नाविशेषः, किन्त्वस्त्येव विशेष इति परमसा
ध्येनान्वयः । तर्हि ‘येन स्यात्’ इति किमर्थमुच्यत इत्यतः तत्सार्थ
क्यकथनपरतया स्तुतयेऽनुमतिर्वैत्येतद्योजयति—ज्ञानीति । ज्ञानीत्य
तः प्राक् किञ्चिदितिशेषः । स्तुतिः सामर्थ्यप्रकटनम् । तथा च यथा

Here is the complete line-by-line transcription in pure Devanagari Unicode:

९३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
न विधिः । ज्ञानिनः स्तुतयेऽनुमतिमात्रं वा ।
( ३ ) युज्यते च ॥ १४ ॥
( ४ ) सू--ॐ ॥ कामकारेण चैके ॥ ॐ ॥ १५ ॥
‘कामचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमु
त्सृज्याथ परात्परमीयुरनारम्भणम्’ ( सामशाखा )
इति चैके पठन्ति ॥ १५ ॥
कंचिदङ्गत्यं प्रति स्तुतये कथ्यते यथेष्टं कुर्वति न तु विधिः तथैतदपि
'ज्ञानिनस्तुतये एव' यदि ज्ञानी सता वाऽसता वा कर्मणा वर्तेत, त
दाऽपि 'ईदृश एव' मोक्षवानेवेति ज्ञानिनो गुणवर्णनायैवोच्यते, न
तु विधिः । अथ वा—अनुमतिरनुज्ञामात्रमेतत् । यदि ज्ञानी अनुष्ठे
यानां सत्कर्मणां मध्ये येन केनापि वा वर्तेत, स्वेच्छया केषां चित्स
त्कर्मणां चरणं केषां चिदचरणमित्येवंभाववान् स्यात्, तदापीदृश एव
महाफलवानेव, तस्यानियतत्वेनावश्यं कार्याभावादित्येवमनुष्ठेयसत्क
र्मणां यथेष्टाचाराभ्यनुज्ञामात्रमेतत्, सर्वथा न विधिरिति भावः । अ
धिकारिभेदेन पक्षद्वयप्रवृत्तेर्वाशब्दः ॥
( ३ ) ननु न सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषो युज्यते, तथासत्य
सत्मवृत्त्या कुण्ठितशक्तेर्ज्ञानस्य मोक्षसाधनत्वाभावप्रसङ्गात् । तथा
चानियम इत्युक्तव्याघातः, सत्कर्मसमुच्चितस्य मोक्षसाधनत्वप्रसङ्गा
च्चेत्यत आह—युज्यते चेति ॥ चांऽवधारणे । सदसत्प्रवृत्तिभ्यां विशे
ष इति शेषः ॥
( ४ ) नन्वसत्प्रवृत्त्या कुण्ठितशक्तेर्ज्ञानस्य मोक्षसाधनत्वाभाव प्र
सङ्गात्कथं युज्यत इत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—कामेति ॥ अ
त्र चोऽप्यर्थः साध्यसूचकः । ज्ञानिनो मोक्षमिति पठन्तीति च शेषः
इत्याशयेन सूत्रसूचितश्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—कामचारा
इति । ज्ञानिन इति शेषः । अत्र विशेषणत्रयेण सौत्रकामकारपदं का
मसञ्चरणभक्षणवचनेषु समं यत्कामकरणं तद्वाचीत्युक्तं भवति । उ
क्तं हि तत्त्वप्रदीपे—कामकारः कामितकरणं, तत्कामचारभक्षवादेषु
त्रिष्वपि सममिति । ‘कामेन’ इच्छया ‘इमं’ कर्मनिमित्तं देहं त्य
क्त्वा ‘अनारम्भणं’ अनादिभूतं परात्परं ब्रह्म ‘ईयुः’ प्राप्नुयुरित्यर्थः।
इति चेति । चो यत इत्यर्थे, साध्यसमुच्चये वा । ‘एके’ अन्ये साम
शाखिनः । पठन्तीत्यस्यातो नासत्प्रवृत्त्या कुण्ठितशक्तित्वेन ज्ञानस्य

[ अधि - ४. सू - १७. ] दीपिकासाहितम्. ९३५
( ५ ) सू- ॐ ॥ उपमर्दं च ॥ ॐ ॥ १६ ॥
‘ओमित्युच्चार्यान्तर्गिममात्मानमभिपश्योपमृद्य पुण्यं
च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तु-
रश्रुतौ ॥ १६ ॥
( ६ ) सू- ॐ ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ ॐ ॥ १७ ॥
न तावता कामचाराणां ज्ञानेऽधिकारः ।
य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।
मोक्षसाधनत्वाभावः प्रसज्यत इति चशब्दसूचितसाध्येनान्वयः ॥
( ५ ) इदमेव साध्यं कैमुत्येन साधयत्सूत्रं पठित्वा चशब्दस्य वि-
षमक्षान्मुक्तेरिवानिवार्यतया प्राप्तस्य प्रारब्धकर्मणोऽपीत्येवमप्यर्थत्वे-
न कैमुत्यद्योतकत्वमभिप्रेत्य व्याचष्टे—उपमर्दं चेति ॥ उपमर्दः फल-
ह्रासः । अन्तः हृदयस्थेति । प्रतिमादेरुपलक्षणम् । तथा च मुक्तियो-
ग्या ओमित्युच्चार्य श्रवणादिकं च कृत्वा हृदयस्य प्रतिमादेरन्तरिमं
परमात्मानं ‘अभिपश्य’ दृष्ट्वा प्रारब्धमनिष्टं पुण्यं पापं च किंचिद्दुः-
खं ज्ञानेन ‘उपमृद्य’ फलह्रासेन विनाश्य ‘कामं’ यथेच्छं सदसत्क-
र्माचरन्तोऽपि ब्रह्म ‘अनुव्रजन्ति’ प्राप्नुवन्त्येवेति श्रुत्यर्थः ॥
( ६ ) ननु यदि कामचाराणामपि ज्ञानिनां मुक्तियोग्यता, तर्हि
तज्जिज्ञासूनामपि कामचाराणां ज्ञानाधिकारः स्यादविशेषात्, तथा
च ‘अध्ययनमात्रवतः’ इत्युक्तस्य विष्णुभक्तिशमादिवतामेवाधिका-
र इत्यस्य बाधः स्यादित्याशङ्कां परिहरत्सूत्रं पठति—ऊर्ध्वेति ॥ अ-
त्र ऊर्ध्वरेतस्त्वित्युक्तिः प्रधानत्वादुपलक्षणमन्यगुणानाम् । च शब्द
एवार्थः साध्यसमुच्चये चेत्याशयेन चशब्दसूचितं प्रतिज्ञावाक्यं दर्श-
यति—न तावतेति ॥ कामचाराणामपि ज्ञानिनां मुक्तियोग्यताऽस्तीत्ये-
तावतेत्यर्थः । तत्त्वजिज्ञासूनां ज्ञानाधिकारो मन्तव्य इति शेषः । सूत्रे
हिशब्दो हेत्वर्थ इति ज्ञापनाय श्रुतेरिति पञ्चमीप्रयोगः । श्रुतेरित्यस्य
न साक्षात् किन्तु ऊर्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशविधानादि-
त्यध्याहृतहेतुद्वारा नेत्यनेनान्वयः । अनेन ‘हि’ यतः ‘शब्दे’ ‘य इ-
मम्’ इति श्रुतौ ‘ऊर्ध्वरेतस्सु च’ गुरुकुलवासब्रह्मचर्यापरपर्यायो-
र्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशो विहितो न कामचारिष्वतो न ते-
षाम् ज्ञानाधिकार इति सूत्रार्थ उक्तो भवति । यः ‘इमं’ प्रकृतं ‘गुह्यं’
गोप्यं ‘परमं’ विष्णुमूर्ध्वरेतस्त्वादिगुणवत्स्वेव ‘भाषयेत्’ उपदिशे-

९३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
न तथा विद्यते भूयान्यं प्राप्यान्येऽपि भूयसः ॥
इति माठरश्रुतेः ॥ १७ ॥
(७) सू--ॐ ॥ परामर्शं जैमिनिरचोदना चापवदति हि ॥ ॐ ॥ १८ ॥
‘प्रातरुत्थाय सन्ध्यामुपासीत यत्सन्ध्यामुपासते ब्रह्म
व तदुपासतेऽथ देवाग्नयेऽजुहुयाद्वेदानावर्तयीत नान्य
त ‘तथा’ तद्वत् ‘भूयान्’ श्रेष्ठो नास्ति ‘यं’ उपदेशकं प्राप्यस्थिता ।
शिष्यभावेनेति शेषः । कैमुत्यद्योतकोऽपिः ‘अन्ये’ शिष्या अपि
‘भूयसो’ भूयांसः श्रेष्ठा भवन्तीति श्रुत्यर्थः । यद्यप्यस्यां श्रुतावृर्ध्व
रेतस्त्वादिगुणरहितानां कामचाराणामुपदेश्यत्वाभावोक्तिमुखेन परो
क्षज्ञानाधिकाराभाव एव अवगम्यते न त्वपरोक्षज्ञानं तदभावः । त
थाप्यपरोक्षज्ञानस्य परोक्षज्ञानपूर्वकत्वादपरोक्षज्ञानाधिकाराभावे सु
तरामपरोक्षज्ञानाधिकाराभावः सिद्ध्यतीति भावः ॥
(७) एवं ‘केनस्यात्’ इत्यस्य यथेष्टाचारविधित्वमनङ्गीकृत्य
स्तुत्यनुमतिरूपार्थोक्तौ । यथेष्टाचारविधित्वानङ्गीकारेणैव यज्जैमि
निनाऽर्थान्तरमुक्तं तत्प्रतिपादयत्सूत्रमुपन्यस्यति—परामर्शमिति ॥
अत्र शब्देनेति कामकार इति विपरिणामेनानुवर्तते । तस्येत्युच्यमान
इति च शेषः । अवधारणार्थकश्चशब्दस्तस्येत्यनेन कामशब्देन काम
कारपदेन च सम्बध्यते इत्याशयेन सूत्रं व्याचष्टे—प्रातरिति ॥ प्रात
रित्यतः प्राक् ‘केन स्यात्’ इति वाक्ये ‘कामचाराः’ इति वाक्ये चे
त्युपस्कार्यम् । इत्युक्ताचारेति । इत्यादिवाक्योक्तसदाचारपरामर्शेने
त्यर्थः । न च ‘कामचाराः’ इत्यस्य ‘प्रातः’ इत्युक्ताचारपरामर्शित्वेऽ
पि ‘केन स्यात्’ इत्यस्य न तत्परामर्शित्वमिति वाच्यम् । उभयोः स
मानार्थत्वेन तदुपपत्तेः । परामर्शो ग्रहणम् । परामर्शेनेत्यनन्तरं उच्य
मान इति शेषः । ‘कामतः’ स्वेच्छया । एवशब्दस्य पूर्वेणोत्तराभ्यां च
सम्बन्धः । विधिबन्धेति । एवकारव्यावर्त्यार्थकथनम् । ‘जायमानो वै ब्रा
ह्मणस्त्रिभि ऋणैऋणवा जायते ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया
पितृभ्यः’ (तै.सं.६-३-१०.) इत्यादिश्रुतेरजस्य तदकरणे प्रत्यवायलक्षणो
यो विधिबन्धः तद्रहितत्वेनेत्यर्थः । तथा च ‘कामचाराः, येन स्यात्’
इत्यादिना ‘प्रातः’ इत्युक्ताचारपरामर्शेन तं परामृश्य ‘उच्यमानो’
विधीयमानः कामचारः ‘तस्य’ सदाचारस्यैव सत्कर्मण एव विधि
बन्धवर्जितत्वेन कामत एव नियमेनाचरणरूपमेव न तु, निषिद्धस्य

[ अधि - ४. सू - १८. ] दीपिकासहितम्. ९३७

त्किञ्चिन्नाचरेन्न सुरां पिवेन्न पलाण्डुं भक्षयीत न भृ-
शं वदेन्न विस्मरेदात्मानं सोमं पिवेद्धुतशेषेण वर्तये-
त' ( ) इत्युक्ताचारपरामर्शेन विधिबन्धव-
प्याचरणमिति योजना । नन्वस्य पक्षस्य मनुष्यविषयत्वात्कथं मनु-
ष्याणां 'विधिनियता मनुष्याः' इत्युक्तिः, विधिबन्धवर्जितत्वविधि-
नियतत्वयोरेकत्र विरोधादिति चेन्न, विहितानामकरणेऽधःपातहेतु-
प्रत्यवायाभावाद्विधिबन्धवर्जितत्वं, अकरणे प्रत्यवायमात्रफलह्रासादे-
र्भावाद्विधिनियतत्वमित्येवं तयोरेकत्राविरोधात् । न च सदाचारस्य
स्वेच्छयाऽऽचरणे मनुष्याणां चतुर्मुखसाम्यप्रसङ्ग इति वाच्यम् । स
र्वे विधय इच्छायां सत्यां विहितं कार्यमित्येव चतुर्मुखं प्रति प्रवर्तन्ते,
न त्ववश्यं कार्यमित्येव । इतरान् प्रति तु सत्यामसत्यां चेच्छायां वि-
हितं कार्यमेव, अकरणे फलह्रासप्रत्यवायादेः सत्त्वादित्येवं प्रवर्तन्त
इति विशेषसत्त्वात् । अनेन जैमिनिपक्षे तत्त्वप्रदीपरीत्या 'येन केन'
इत्यस्य येन केन सन्ध्योपास्त्यादिसदाचारेणेत्यर्थः । स्यादिति विधौ
लिङ् । तस्य कामतो नियमेन वर्तेतेत्यर्थः । एवं 'कामचाराः कामभ-
क्षाः कामवादाः' इत्यस्य सन्ध्योपास्तिदेवप्रणामाग्निहोत्रहोमादीन्
कामत एव चरन्ति निषिद्धानि नाचरन्तीति कामचाराः । कामत ए-
व सोमादिभक्षणात् सुराद्यभक्षणात्कामभक्षाः । कामत एव वेदानां
शब्दतोऽर्थतश्चावर्तनादन्यभाषणवर्जनात् कामवादा इत्यर्थ उक्तो भव-
ति । अनेन—'कामचाराः, येन स्यात्' इति शब्देनोच्यमानः काम-
चारस्तस्यैव 'प्रातरुत्थाय' इत्युक्ताचारस्यैवानन्दाभिवृद्ध्यर्थे काम-
चारः 'कामत एव' स्वेच्छयैव नियमेनाचरणमेव पर्यवस्यति, न तु
निषिद्धप्रवृत्तेरपि, न वा विधिबन्धेन, न वा सत्कर्ममध्ये कस्य चिद्
नाचरणम् । न चात्राचारानुक्तिदोषः । यतोऽयं शब्दस्तस्यैव 'प्रातरु-
त्थाय' इत्यादिश्रुतिस्मृत्युक्ताचारस्यैव सत्कर्मण एव 'परामर्शे' येन
केनेति सर्वनाम्ना आचारादिपदेन च ग्रहणं विदधाति, न निषिद्धस्या-
पीति जैमिनिः मन्यत इति सूत्रखण्डार्थ उक्तो भवति । श्रुतावुत्थाये-
त्यनन्तरं शौचदन्तधावनस्नानादिकं कृत्वेत्यपि ग्राह्यम् । सन्ध्याशब्दा-
र्थमाह—ब्रह्मैवेति । सन्ध्यामुपासते जना इति यत् 'तद्ब्रह्मैव' एतद्वि-
षयो ब्रह्मैवेत्यर्थः । अनेन सन्ध्याकाले सम्यग्ध्येयत्वात् सन्ध्याशब्दवा-
च्यस्य परब्रह्मणो मन्त्रैरुपस्थानमेव सन्ध्योपास्तिरित्युक्तं भवति । 'दे-
११८

९३८ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.]
र्जितत्वेन कामत एव तस्य चरणं कामचार इति जै-
मिनिर्मन्यते ।
( ८ ) न च निषिद्धं कर्म कर्तव्यमेवेति चोदना । 'ब्राह्मणो
न हन्तव्यः' ( ) इत्याद्यपवादाच्च ॥ १८ ॥
( ९ ) सू—ॐ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ ॐ ॥ १९ ॥
वान् ' प्राच्यादिदिगवस्थितान् ब्रह्मेन्द्रादीन् ' नमेत् ' प्रणमेत् । ' जुहु-
यात् ' अग्निहोत्रहोमादीन् कुर्यात् । 'वेदानावर्तयीत' शब्दतोऽर्थतश्चा-
भ्यसेदित्यर्थः । ' अन्यत् ' निषिद्धम् । तदेव विवृणोति—न सुरामि-
त्यादिना । 'पलाण्डुं ' लशुनं 'न भृशं वदेत् ' न निष्ठुरं वदेत् 'आ-
त्मानं ' परमात्मानं ' सोमं ' सोमरसम् । हुतशेषेण वर्तयेदिति । पुनः
पुनः होमानुष्ठानेन तच्छेषं तदातदा भक्षयेदित्यर्थः । अत्र न भृशं व-
देदित्यादिकं सर्ववर्णाश्रमसाधारणम् । सन्ध्योपासनादिकं तु त्रैवार्णि-
कानामेव । अग्निहोत्रादिकं तु गृहस्थानामेवासाधारणमिति विवेकः प्र-
मेयदीपोक्तोऽनुसन्धेयः ॥
( ८ ) ननु किमर्थं सत्प्रवृत्तावेव कामचरणं नियमेनात्रोक्तमित्यु-
च्यते, निषिद्धप्रवृत्तिरप्यत्रोक्ता किं न स्यादित्याशङ्क्य किं निषिद्धं ज्ञा-
निनां कर्तव्यमिति स्फुटं विधिसद्भावादेतदुच्यते ? उत निषेधाभावा-
द्वेति विकल्प्याद्योत्तरत्वेन नञः प्रसज्यप्रतिषेधार्थत्वमभिप्रेत्य—अचो-
दनेत्यंशं व्याचष्टे—न चेति ॥ चस्त्वर्थः । चोदना विधिः । द्वितीयोत्-
रत्वेन—अपवदति हीत्यंशं योजयति—ब्राह्मण इति । अपवादो निषे-
धः । चस्समुच्चये । सूत्रस्थस्यैवायमनुवादः । न चायं निषेधोऽज्ञानि-
मात्रविषय इति वाच्यम् । सामान्यरूपत्वेन ज्ञानिष्वपि प्रवृत्तेः । अप-
वादश्चेत्यनन्तरमस्ति यत इति शेषः । अस्यातो न निषिद्धप्रवृत्तिविष-
योऽप्ययं कामचार इति जैमिनिर्मन्यत इत्याध्याहृतसाध्येनान्वयः । अ-
नेन—'हि' यतः 'हि' प्रसिद्धा निषिद्धं कर्तव्यमेवेति स्पष्टचोदना
विधिर्नास्ति । प्रत्युत 'हि' प्रसिद्धा 'ब्राह्मणः' इति श्रुतिः ब्रह्महन-
नादि निषिद्धं कर्म 'अपवदति' न कार्यमिति निषेधति च, अतः स-
दाचारस्यैव 'कामचारः, येन स्यात्' इति कामचार उक्तः, न तु नि-
षिद्धस्यापीति जैमिनिर्मन्यत इति सूत्रखण्डार्थ उक्तो भवति ॥
( ९ ) एवं 'येन स्यात्' इति वाक्यस्य जैमिनिमतानुसारेण स्वे-
च्छया सदाचारविधित्वमेवोक्त्वा यत् स्तुत्यर्थेऽनुमितिरित्येवमुक्तमभ्यनु-

[ अधि - ४. सू - १९. ] दीपिकासाहितम्. ९३९
अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरि
ति बादरायणो मन्यते । 'केन स्याद्येन स्यात्तेनेदृश
एवेति' (बृ.५-५-१.) साम्यश्रुतेः ।
( १०) यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
ज्ञानं तदेव कामचारद्युत्यर्थतया प्रतिपादयत्सूत्रं पठति—अनुष्ठेयमि
ति ॥ अत्रानुष्ठेयमित्येतद्विभक्तिविपरिणामेन व्याचष्टे—अनुष्ठेयानामि
ति । अनुष्ठेयत्वेन विहितकर्मणामित्यर्थः । यद्वा--अनुष्ठेयमपेक्ष्येत्यन्व
यं, अनुष्ठेयं कर्म चरणाचरणवत्त्वेनात्रोच्यत इति वाऽन्वयमुपेत्य तत्ता
त्पर्यमाह-अनुष्ठेयानामिति । निर्धारणषष्ठीत्वाभिप्रायेण मध्य इत्युक्तं,
न तु सर्वकर्मणामित्येवकारार्थः । सूत्रे कामचार इत्यनुवर्तत इत्याश
येन तत्पदं व्याख्याति--कामत इति । इच्छयेत्यर्थः । केषां चिदिति
शेषः । 'चरणं' करणं 'निवृत्तिः' अकरणम् । निवृत्तिरित्यनन्तरमि
त्यनुज्ञानमेव कामचारद्युत्यर्थ इति शेषः । अनेन सूत्रे अनुमतिरिति
पदस्यानुवृत्तिस्सूचिता । इति मन्यते इति शेषोक्तिः एवं साध्यपदं
व्याख्याय कुत इत्यतस्तत्र हेतुतया साम्यश्रुतेरित्यंशं व्याचष्टे—केन
स्यादिति । तथा चास्मिन् पक्षे ज्ञानी यदि 'येन केन चित्' किञ्चिद्वि
हितानुष्ठानेनाननुष्ठानेन वा 'स्यात्' वर्तेत तदा 'ईदृश एव' सम ए
व, न तु तस्मिन् किञ्चिद्विहिताकरणनिमित्तसाम्यासम्भवो वाच्य इ
ति श्रुत्यर्थः । लिङस्तु आमन्त्रणमर्थ इति भावः । यद्यपि सर्वसदाचा
रपक्षेऽपि साम्यमस्त्येवेत्यप्रयोजकता हेतोः । तथाऽपि जैमिनिपक्षे ज्ञा
निनः सर्वसदाचारसद्भावात्साम्यसम्भवादेव ज्ञाप्यते, न तु बादराय
णपक्ष इव साम्यासम्भवप्रसक्तिपूर्विका तन्निवृत्तिः । असम्भवनिवृत्ति
रेव चेह श्रुतिज्ञाप्यतया ग्राह्या, न तु सम्भवः, सम्भवज्ञापनादप्यस
म्भवनिवृत्तेर्ज्यायस्त्वात्, अतो नोक्तदोष इति भावः । अनेन—'अनु
ष्ठेयं' अनुष्ठेयानां मध्ये कामचारो यस्मिन् करवाणीति कामतस्तस्य च
रणं यस्मिन्न करवाणीति कामतस्तस्यानाचरणमित्येवमनुष्ठेये कामचा
रानुमतिरेव शब्दे 'येन केन स्यात्' इति श्रुतावुच्यते, न तु सर्वेषां
कामचारः । यद्वा—'अनुष्ठेयं' चरणाचरणवत्त्वेनात्र श्रुतावुच्यत इति
बादरायणो मन्यते । कुतो ? ज्ञानिनः करणाकरणयोः 'येन स्यात्' इ
ति साम्यश्रुतेरिति सूत्रार्थ उक्तो भवति ॥
( १०) सत्यमस्मिन् पक्षे साम्योक्तिः सम्यक्सम्बध्यत इति । तथा

आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ (गी. ३-१७.)
इति भगवद्वचनाच्च ॥ १९ ॥
( ११ ) सू— ॐ ॥ विधिर्वा धारणवत् ॥ ॐ ॥ २० ॥
‘ केन स्याद्येन स्यात् ’ ( बृ. ५-५-१० ) इति विधिर्वा।
यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं
ऽपि तन्न युज्यते, कर्तव्यपरित्यागे साम्यायोगात् । अतो मुख्यासम्भ
वेऽमुख्याऽपि जैमिन्युक्तयोजनैव साध्वीयतः सूत्रेऽनुवृत्तचशब्दसमुच्चि
तगीतास्मृतिं दर्शयति—यस्त्विति ॥ इति वचनादिति । इति ज्ञानि
नां कार्याभावोक्तेरित्यर्थः । अस्य न साम्यायोग इत्यध्याहृतसाध्येना
न्वयः । ‘ आत्मरतिः ’ परमात्मदर्शननिमित्तसुखं प्राप्तः ‘ आत्मतृप्तः ’
आत्मना परमात्मना तत्प्रसादेन तृप्तः अन्यत्र विषयसुखेऽलंबुद्धिमान्।
न केवलं हरिप्रसादेन तृप्तिः, किन्तु हेत्वन्तरमस्तीत्याह-आत्मनीति ।
परमात्मनि सन्तोषवान् तत्स्थ एव सन् सन्तुष्टः परमात्मदर्शनादिनि
मित्तसुखवानित्यर्थः । ‘ सन्तोषः तृप्तिकारणं सुखम् ’ इत्यभिधानात्
महासुखवतोऽल्पसुखेऽलंबुद्धिर्भवेत्येवेति तस्य तद्धेतुत्वोपपत्तिः । अ
त्र पूर्वविशेषणमेव पुनस्तृप्तिकारणत्वेनानूद्यत इति न पुनरुक्तिः । य
एवंभूतो ‘मानवो’ ज्ञानी ‘तस्य कार्यं’ अवश्यं कर्तव्यं कर्म न विद्य
त इत्यर्थः । यद्यपि ‘यस्तु’ इति वचनं तात्पर्यनिर्णये मुक्तपरतया
भाष्ये समाधिस्थपरतया व्याकृतं, तथाऽपि समाधिस्थस्यापि ज्ञानि
त्वाद्वा ज्ञानिसामान्यपरत्वस्यापि सम्भवाद्वाऽत्रोदाहरणोपपत्तिः । न
चास्य वाक्यस्य
अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः ।
एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत् ॥
इति हरिवंशे कार्योक्तिविरोधः शङ्क्यः । तेषां विहिताकरणे ऽप्यदृ
ष्टार्थालाभात् तदर्थं कार्यत्वस्य तत्रोक्तावपि सिद्धहान्यभावेन नरकाद्य
भावेन च कार्यं न विद्यत इत्युक्तिसम्भवात् ॥
( ११ ) एवं ‘केन स्यात्’ इति वाक्यस्य यथेष्टाचारविधित्वाभाव
मभ्युपेत्य नियमेन सर्वदाचारविधित्वमनुष्ठेयानां मध्ये कामचाराभ्य
नुज्ञानमित्यर्थद्वयं स्तुत्यनुमतिरूपार्थद्वयं चोक्तं, अथायं स्वेच्छाच
रणविधिर्वा भवतीत्यर्थप्रतिपादकं सूत्रं पठति—विधिर्वा धारणवदि
ति ॥ अत्र विधिरित्यंशं व्याचष्टे—केन स्यादिति । विधिरिति । यथे

[ आधे - ४. सू - २०. ] दीपिका सहितम्. ९४१
स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राध
र्मशङ्का कार्या । नान्येषामिति वा ।
( १२ ) स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता ।
नाशङ्क्यं तन्मतं कापि विष्णोः प्रत्यक्षचोदना ॥
इतरेषां न विहिता स्वेच्छावृत्तिः कथंचन॥ इति ब्राह्मे॥२०॥
ष्टाचारविधिरित्यर्थः । वाशब्दोऽस्य पक्षान्तरत्वद्योतकः । ननु ज्ञानि
नां न स्वेच्छाचरणविधिर्युक्तः, अज्ञानिनामपि तथात्वप्रसङ्गादित्याश
ङ्कोत्तरत्वेन प्रथमान्ताद्वतिमाश्रित्य धारणवदित्यंशं व्याचष्टे—यथेति ।
‘वेदधारणं’ वेदाध्ययनं अधीतवेदस्यापि स्मृत्यर्थं पुनः पुनः पाठो वा ।
अत एव तत्त्वप्रदीपे वेदपाठादिकमित्युक्तम् । ‘त्रैवर्णिकानां’ ब्रह्मक्षत्रिय
वैश्यानां सावधारणमेतत् ‘विहितं’ ‘स्वाध्यायोऽध्येतव्यः’ (तै.आ.२-
१५-१.)‘वेदः कृत्स्नोऽधिगन्तव्यः’ इत्यादिनेति शेषः । ‘अन्येषां’ शूद्रा
दीनाम्। प्रत्युत तेषामध्ययनादौ सति दण्ड एव श्रुत इति भावः। उक्त
मर्थं दार्शान्तिके संयोजयति—एवमिति । स्वमतानुसारिणीति । स्वे
च्छानुसारिणी प्रवृत्तिः ज्ञानिनामेव विहिता, नान्येषामित्यन्वयः । इ
ति वेति न पक्षान्तरोक्तिः, किन्तु विधिर्वेत्युक्तस्यैव दृष्टान्तविवरण
पूर्वं दार्शान्तिकोपपादनव्याजेन विवरणमिति ध्येयम् । ननु नायं यथे
ष्टाचारविधिः सम्भवति, तथासति ज्ञानिनोऽधर्मकरणस्यापि विधि
विषयत्वप्राप्त्याऽचोदनेत्युक्तविरोधः स्यादित्यत आह—न तत्रेति ।
‘तत्र’ ज्ञानिप्रवृत्तिविषये ‘अधर्मशङ्का’ अधर्मत्वशङ्का न कार्येत्यर्थः ॥
( १२ ) कुत इत्यत आह—स्वेच्छयेति ॥ ‘ब्रह्मणो’ विधातुः ‘वि
धिचोदिता’ ‘येन स्यात्’ इति विधिविहितेत्यर्थः । यत इति शेषः ।
अतः ‘तन्मतं’ तस्य विरिञ्चस्याभिप्रतं वेदविरुद्धत्वेन प्रतीतमपि पु
त्रिकाकामनादि अधर्मत्वेन नाशङ्क्यमित्यर्थः । हेत्वन्तरमाह—विष्णो
रिति । यतो विष्णोरेवं कुर्विति ‘प्रत्यक्षचोदना’ प्रेरणा विरिञ्चस्या
स्त्यतोऽपि तन्मतं नाशङ्क्यमित्यर्थः । वेदस्तु विष्णोः परोक्षाज्ञारूप
इति प्रत्यक्षाज्ञानुसारेण नेतव्य इति भावः । अत्र ब्रह्मण इत्युक्तेऽपि
उपलक्षणया ज्ञानिनामित्यर्थो ज्ञातव्यः । अत एव स्ववाक्ये ज्ञानिनां
विहितेत्युक्तम् । अन्यथा अत्रैव स्मृतौ ब्रह्मणस्स्वेच्छाचारविधिः म
नुष्याणां स्वेच्छाचारेऽचोदनेति विषयव्यवस्थायां पारिप्लवार्था इति
वक्ष्यमाणविषयविभागो व्यर्थः स्यात् । तत्त्वप्रदीपे तु द्वितीयवाशब्दा

९४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
( १३ ) सू—ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ॐ ॥२१॥
स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामा
न्यविधिस्वीकारादिति चेन्न, अपूर्वत्वात् परवशत्वा
त् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण
एव हि ॥
( १४ ) विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ ।
त् ज्ञानिनामपि केषां चिदेवेति सूचितम् । विषयभेदं प्रकटयति—स्वे
च्छयैवेत्यादिनेति । अनेनात्रैव विषयविभागः क्रियत इत्युक्तम् । तन्तु
वक्ष्यमाणरीत्या वस्तुस्थित्यभिप्रायकमेवेति ध्येयम् ॥
( १३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठति—स्तुतीति ॥ अत्राक्षेपां
शं व्याचष्टे—स्तुतीति । ' स्वेच्छाचरणं ' ' येन स्यात् ' इति स्वेच्छा
[L1

[ अधि - ४. सू - २३. ] दीपिकासहितम्. ९४३
परस्य ब्रह्मणो ह्येव सर्वविध्यतिदूरता ॥ इति ब्रह्मतर्के ॥ २१ ॥
( १५ ) सू—ॐ ॥ भावशब्दाच्च ॥ ॐ ॥ २२ ॥
यथाविधानमपरे विधिर्भावे प्रजापतेः ।
ब्रह्मणः परमस्यैव सर्वविध्यतिदूरता ॥ इति च तुः श्रुतौ ॥ २२ ॥
( १६ ) सू—ॐ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ॐ ॥ २३ ॥
'केन स्याद्येन स्यात्' ( बृ. ५-५-१० ) इत्यादयः स्थिर
विध्यभावेऽपि न सर्वविध्यतिदूरत्वमित्याशङ्कां परिहर्तुमुक्तार्थे स्मृतिं
चाह—विधीनामिति ॥ सर्वविधीनामित्यर्थः । निषेधानामप्युपलक्षण
म् । 'अन्ये' अज्ञानिनः । वस्तुतस्तु ब्रह्मेतरज्ञानिनः । अत एव तुश
ब्दात्तेष्वपि विशेषोऽस्ति, वक्ष्यते च 'विशेषितत्वादिति' इति तत्त्वप्र
दीपोक्तिः । ब्रह्मण इति ज्ञानिमात्रोपलक्षणम् । हेतुस्तु पूर्वोक्त एव ।
'कृतौ' करणे । विधिविषयत्वमिति शेषः । 'हि' यस्मात् । ब्रह्मतर्के
उक्तमिति शेषः । अस्य सर्वैत्यादिनाऽन्वयः ॥
( १५ ) ननु ज्ञानिनां स्वेच्छाचरणविधेः स्फुटप्रमाणसिद्धत्वे भवेत्
'येन स्यात्' इति वाक्यं स्वेच्छाचरणविध्यर्थकं, विधेः स्फुटप्रमाण
सिद्धत्वमेव कुत इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तत्सूचितश्रुतिमेवो
दाहरति—भावेति ॥ अत्र विधिरित्यनुवर्तते । तथा च इच्छावाचिभा
वशब्दघटितश्रुतेश्च ज्ञानिनां स्वेच्छाचरणविधिः सिद्ध इति सूत्रार्थः।
यतः 'अपरे' ब्रह्मेतरज्ञानिनः वस्तुतस्तु मनुष्यज्ञानिनो 'यथाविधानं'
नित्यनैमित्तिकविधिमनतिक्रम्य वर्तन्त इति शेषः । प्रजापतेः तदुपल
क्षितज्ञानिनः वस्तुतस्तु विरिञ्चस्य देवानां च 'भावे' इच्छायां स्वे
च्छाचरणविषये 'विधिः' येन स्यादित्यादिरूपोऽस्त्यतः परमस्य ब्रह्म
णो हरेरेव सर्वविध्यतिदूरता ज्ञातव्या । मुक्तव्यावृत्त्यर्थ—अतीति । स
र्वदैवेत्यर्थः । रमाऽपि हर्याज्ञाविधिविषयेति न तत्राप्यतिप्रसक्तिरिति
भावः । श्रुतौ चेत्यन्वयः । ज्ञानिनां स्वेच्छाचरणविधिरुक्त इति शेषः।
सूत्रे भाष्ये च न केवलं स्वेच्छाचरणविधिविषयत्वं सामान्यविध्यवि
षयाणां ज्ञानिनां सर्वविध्यतिदूरपरवचनान्यथानुपपत्त्या, किन्तु श्रु
तेश्चेति समुच्चये चशब्दः ॥
( १६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—पारिप्लवार्था इ
ति ॥ अत्र पूर्वपक्षांशे पारिप्लवार्था इत्यस्य विशेष्यं दर्शयति—केनेति।

९४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]

त्वनिवृत्त्यर्था इति चेन्न, 'त्रेधा हि ज्ञानिनो ह वाव
भवन्ति विधिनियता अनियताः स्वेच्छानियता इति ।
विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वे-
च्छानियत इति' गोपवनश्रुतौ विशेषितत्वात् ॥ २३ ॥
( १७ ) सू-ॐ ॥ तथा चैकवाक्योपबन्धात् ॥ ॐ ॥ २४ ॥


इत्यादयो व्यपदेशा इति शेषः । पारिप्लवार्था इत्यस्य प्लु गतावित्युक्तेः
परिप्लवोऽव्यवस्था तत्सम्बन्धिनः पारिप्लवाः अव्यवस्थिताः ते च तेऽ
र्था इति विग्रहमभिप्रेत्य तत्पदं व्याख्याति-स्थिरत्वेति। स्थिरत्वस्य
निवृत्तिरभावोऽस्थिरत्वं तदेषां ते स्थिरत्वनिवृत्तयः अस्थिरा इति या
वत् । तेऽर्था येषां ते तथोक्ताः चञ्चलार्थका इत्यर्थः । अर्थचाञ्चल्यं च
बुद्धिरूपमेवेति ध्येयम् । आदिपदेन 'कामचाराः' इत्यादेर्ग्रहणम् ।
अयमाशयः-' स ब्राह्मणः' इति वाक्यं तावत्सर्वज्ञानिसाधारणमतो
मनुष्यादिषु सर्वेषु स्तुतये भवतीति तत्त्वप्रदीपोक्तेः स्तुतिपक्षस्य ज्ञा-
निसाधारण्यानाविरुद्धत्वेऽपि नियमेन सर्वधर्माचरणानुष्ठेयानां मध्ये
कामचारानुज्ञानस्वेच्छाचरणरूपप्रकारत्रयस्य एकधर्म्यगतत्वेन वि-
रुद्धत्वात्तद्व्यपदेशानामपि विरुद्धत्वम् । एवं च यदा विरुद्धधर्मप्रति-
पादकानेकवाक्यानामेव न यथार्थबोधकत्वं तदा सुतरामेकस्य 'येन
स्यात्' इति वाक्यस्य तदभावो वस्तुनि विकल्पाद्योगादिति । सूत्रे प-
रिहारांशं व्याचष्टे-नेति । उक्तं नेत्यर्थः । कुतो नेत्यतो-विशेषितत्वा-
दित्युकम् । तस्य ज्ञानिनां मनुष्यदेवचतुर्मुखभेदेनानेकप्रकारत्वादि-
त्यर्थमुपेत्य तस्यासिद्धिपरिहाराय श्रुतिपरतयाऽपि तमंशं व्याचष्टे-
त्रेधा हीति । विशेषितत्वादिति । विशेषितत्वोक्तेरित्यर्थः । नासिद्धि-
रिति वाक्यशेषः । श्रुतौ 'हिः' प्रसिद्धौ । वावेत्यवधारणे । त्रैविध्यमेव
दर्शयति-विधिनियता इति । विधिबन्धवर्जितत्वेन कामत एव निय-
मेन विहिताचरणवन्त इत्यर्थः । 'अनियताः' अनुष्ठेयानां मध्ये काम-
चारानुज्ञावन्तः 'स्वेच्छानियताः' स्वेच्छाचरणविधिनियता इत्यर्थः ।
इति त्रेधेत्यन्वयः । त्रीन् क्रमेण निर्दिशति-विधीति ॥
( १७) ननु ज्ञानिनामेकप्रकारत्वोक्त्या कथं विरोधपरिहारो जात
इत्याशङ्कापरिहाराय सूत्रम्-तथा चेति ॥ अत्रैकवाक्येति भावप्रधा-
नो निर्देशः । समग्रसूत्रस्य चावृत्त्तिरित्याशयेन सूत्रं व्याचष्टे--एवं

[ अधि - ४. सू - २५. ] दीपिकासहितम्. ९४५
एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च स-
म्बन्धो भवति ॥ २४ ॥
( १८ ) सू--ॐ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ॐ ॥ २५ ॥
सतीति । तथा चेत्यस्य व्याख्यानमेतत् । एतच्चावर्तते । सम्बन्धो भ-
वतीति चावर्तते । वृत्तिर्वर्तनं चरणम् । एकवाक्यतयेति शेषः । तथा
चैवं सति ज्ञानिनां त्रैविध्य सिद्धे सति विधिवाक्यानां 'प्रातरुत्थाय'
इत्यादिसर्वसदाचारविधिवाक्यानां 'यस्त्वात्मरतिः' इति स्वेच्छावृ-
त्त्यनुज्ञावाक्यानां तथा 'यथाविधानम्' इति स्वेच्छावृत्तिविधिवा-
क्यानां चैकवाक्यतया 'सम्बन्धः' अविरोधो भवति । एवं सति 'के-
न स्यात्' इति वाक्यस्यापि तदनुसारेणार्थत्रयेऽप्येकवाक्यतया स-
म्बन्धो भवतीति योजना । अनेन- ' तथा चैवं सति' ज्ञानिनां त्रैवि-
ध्ये सिद्धे सति 'एकवाक्योपबन्धात्' विधिवाक्यानां स्वेच्छावृत्ति-
वाक्यानां चैकवाक्यत्वेन ज्ञानिभेदमाश्रित्याविरोघे सति 'केन स्यात्'
इति वाक्यस्यापि तदनुसारेणार्थत्रयेऽप्येकवाक्यतया 'उपबन्धात्' उपप-
न्नत्वात् न 'केन स्यात्' इत्यादिव्यपदेशाः पारिप्लवार्था इति सूत्रार्थ
उक्तो भवति । अनेन जैमिनिमतं मानुषज्ञानिविषयम् । द्वितीयं देव-
ताविषयम् । तृतीयं हिरण्यगर्भविषयम् । स्तुतिपक्षस्तु समान इत्यु-
क्तं भवति । ननु न देवाः सामान्यविधिविषयाः । नापि चतुर्मुखव-
त्स्वेच्छाचारविधिविषयाः, उदाहृतवचनात् । एवं च स्तुतिपक्षस्य
ज्ञानिमात्रसाधारणत्वे देवानां किञ्चिद्विधिविषयाणां परमात्मवत्सर्ववि-
ध्यतिक्रमेण स्तुतिविषयत्वं स्यात् । ततश्च परमात्मन एव तदित्युक्त-
मयुक्तमिति चेन्न । देवानां चतुर्मुखवत्सर्वात्मना स्वेच्छाचारविधिवि-
षयत्वाभावेऽपि प्रायः स्वेच्छाचरणविधिसद्भावात् । न चात्र माना-
भावः ।
स्वेच्छानुवृत्त्यैव भवेद्ब्रह्मणः प्रायशस्तथा ।
देवानामपि सर्वेषां विशेषादुत्तरोत्तरम् ॥
इति वचनात् । किञ्च विध्यभावेऽपि देवानामन्ज्ञाविषयत्वाभ्युपगमे
न स्तुतिमात्रविषयत्वाभावान्नेश्वरसाम्यमिति ज्ञातव्यम् ॥
( १८ ) एवं ज्ञानिनः 'केन स्यात्' इति श्रुतिबलेन सदसत्प्रवृत्त्यो
र्योऽविशेषः शङ्कितः स श्रुतेरर्थान्तरोक्त्या 'परामर्शम्' इत्यादिना परि-
११९

९४६ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.]
अत एव ज्ञानस्य मोक्षदाने नाग्निहोत्राद्यपेक्षा ।
( १९) ब्रह्मतर्के च—
येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः ।
शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥
स्वेच्छानुवृत्त्यैव भवेद्ब्रह्मणः प्रायशस्तथा ।
हृतः । तत्र यदुक्तं ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषे ज्ञानस्यासत्प्रवृत्तिकु-
ण्ठितशक्तेर्न मोक्षसाधनत्वमिति, तत् 'कामकारेण चैके' इत्यादिना
परिहृतम् । यच्चाभिहितं मोक्षसाधनत्वे ज्ञानस्य सत्प्रवृत्तिसापेक्षत्वं
स्यादिति तत्परिहाराय सूत्रं पठित्वा व्याचष्टे—अत एवेति ॥ 'कमा-
चाराः' इति श्रुतौ कामचाराणामपि मोक्षस्योक्तत्वादेवेत्यर्थः । न तत्र
हेत्वन्तरं वक्तव्यमित्येवकाराभिप्रायः । सूत्रे अत इत्यावृत्तपदं व्याख्या-
ति—ज्ञानस्य मोक्षदान इति । मोक्षदानकर्मणीत्यर्थः । मोक्षसाधन इ-
त्यनुक्त्वा मोक्षदान इत्युक्त्या
अज्ञानां ज्ञानदो विष्णुः ज्ञानिनां मोक्षदश्च सः ।
विष्णुर्हि दाता मोक्षस्य
मोक्षदस्तु जनार्दनः ॥
इत्यादिवचनाद् ज्ञातो भगवानेव मोक्षदाता ज्ञानदाता च । ज्ञाने तु उ-
पचरितं दातृत्वमिति सूचितं भवति । नाग्निहोत्राद्यपेक्षेत्यनेन अग्नेरि-
न्धनं समन्त्रकं सन्दीपनं यस्मिन् कर्मणि तदग्निहोत्रं तथोक्तम् । आ-
दिपदेन स्वाश्रमवर्णधर्माः ग्राह्याः, तदपेक्षाभाव इत्येव अग्नीन्धनाद्य-
नपेक्षेति पदं नञ्व्यत्यासेन व्याख्यातं भवति । सूत्रे चोऽप्यर्थः। ज्ञानिनः
सदसत्प्रवृत्तिभ्यां विशेषसद्भावेऽपीति स्फुटत्वान्न व्याख्यातः । द्विती-
यचोद्यपरिहारस्याद्यचोद्यपरिहारेण समुच्चये चशब्द इति केचित् ॥
( १९) ननु यदि सत्कर्मणा न मोक्षो निषिद्धकर्मणा न तत्प्रतिबन्धः
कथं तर्हि ताभ्यां ज्ञानिनो विशेष इत्यतश्चशब्दसूचितस्मृतिमाह—ब्र-
ह्मतर्के चेति ॥ न केवलं सूत्र इति चार्थः । तेषामित्यनन्तरं शुभाशुभ-
कर्मकरणयोरपीति शेषः । अनेन सर्वसाधारणस्तुतिपक्षः सङ्गृहीतः ।
तर्हि शुभाशुभाभ्यां को विशेष इति तत्राह—शुभेति । 'आधिक्यं'
मोक्षे मनुष्याणामानन्दवृद्धिः । 'विपरीतैः' अशुभैः 'विपर्ययो' ह्रा-
सो भवेत् । भवेदित्यत्राधिक्यमित्यनुषज्यते । मुक्तावपेक्षितसर्वाधि-
क्यमित्यर्थः । एवकारेण न तदर्थं श्रुतिविहिताग्निहोत्राद्यपेक्षा नापि