सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 985, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 985

९३८ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.]
र्जितत्वेन कामत एव तस्य चरणं कामचार इति जै-
मिनिर्मन्यते ।
( ८ ) न च निषिद्धं कर्म कर्तव्यमेवेति चोदना । 'ब्राह्मणो
न हन्तव्यः' ( ) इत्याद्यपवादाच्च ॥ १८ ॥
( ९ ) सू—ॐ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ ॐ ॥ १९ ॥
वान् ' प्राच्यादिदिगवस्थितान् ब्रह्मेन्द्रादीन् ' नमेत् ' प्रणमेत् । ' जुहु-
यात् ' अग्निहोत्रहोमादीन् कुर्यात् । 'वेदानावर्तयीत' शब्दतोऽर्थतश्चा-
भ्यसेदित्यर्थः । ' अन्यत् ' निषिद्धम् । तदेव विवृणोति—न सुरामि-
त्यादिना । 'पलाण्डुं ' लशुनं 'न भृशं वदेत् ' न निष्ठुरं वदेत् 'आ-
त्मानं ' परमात्मानं ' सोमं ' सोमरसम् । हुतशेषेण वर्तयेदिति । पुनः
पुनः होमानुष्ठानेन तच्छेषं तदातदा भक्षयेदित्यर्थः । अत्र न भृशं व-
देदित्यादिकं सर्ववर्णाश्रमसाधारणम् । सन्ध्योपासनादिकं तु त्रैवार्णि-
कानामेव । अग्निहोत्रादिकं तु गृहस्थानामेवासाधारणमिति विवेकः प्र-
मेयदीपोक्तोऽनुसन्धेयः ॥
( ८ ) ननु किमर्थं सत्प्रवृत्तावेव कामचरणं नियमेनात्रोक्तमित्यु-
च्यते, निषिद्धप्रवृत्तिरप्यत्रोक्ता किं न स्यादित्याशङ्क्य किं निषिद्धं ज्ञा-
निनां कर्तव्यमिति स्फुटं विधिसद्भावादेतदुच्यते ? उत निषेधाभावा-
द्वेति विकल्प्याद्योत्तरत्वेन नञः प्रसज्यप्रतिषेधार्थत्वमभिप्रेत्य—अचो-
दनेत्यंशं व्याचष्टे—न चेति ॥ चस्त्वर्थः । चोदना विधिः । द्वितीयोत्-
रत्वेन—अपवदति हीत्यंशं योजयति—ब्राह्मण इति । अपवादो निषे-
धः । चस्समुच्चये । सूत्रस्थस्यैवायमनुवादः । न चायं निषेधोऽज्ञानि-
मात्रविषय इति वाच्यम् । सामान्यरूपत्वेन ज्ञानिष्वपि प्रवृत्तेः । अप-
वादश्चेत्यनन्तरमस्ति यत इति शेषः । अस्यातो न निषिद्धप्रवृत्तिविष-
योऽप्ययं कामचार इति जैमिनिर्मन्यत इत्याध्याहृतसाध्येनान्वयः । अ-
नेन—'हि' यतः 'हि' प्रसिद्धा निषिद्धं कर्तव्यमेवेति स्पष्टचोदना
विधिर्नास्ति । प्रत्युत 'हि' प्रसिद्धा 'ब्राह्मणः' इति श्रुतिः ब्रह्महन-
नादि निषिद्धं कर्म 'अपवदति' न कार्यमिति निषेधति च, अतः स-
दाचारस्यैव 'कामचारः, येन स्यात्' इति कामचार उक्तः, न तु नि-
षिद्धस्यापीति जैमिनिर्मन्यत इति सूत्रखण्डार्थ उक्तो भवति ॥
( ९ ) एवं 'येन स्यात्' इति वाक्यस्य जैमिनिमतानुसारेण स्वे-
च्छया सदाचारविधित्वमेवोक्त्वा यत् स्तुत्यर्थेऽनुमितिरित्येवमुक्तमभ्यनु-