पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 988, कुल 1267 में से
संदर्भ में पढ़ें[ आधे - ४. सू - २०. ] दीपिका सहितम्. ९४१
स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राध
र्मशङ्का कार्या । नान्येषामिति वा ।
( १२ ) स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता ।
नाशङ्क्यं तन्मतं कापि विष्णोः प्रत्यक्षचोदना ॥
इतरेषां न विहिता स्वेच्छावृत्तिः कथंचन॥ इति ब्राह्मे॥२०॥
ष्टाचारविधिरित्यर्थः । वाशब्दोऽस्य पक्षान्तरत्वद्योतकः । ननु ज्ञानि
नां न स्वेच्छाचरणविधिर्युक्तः, अज्ञानिनामपि तथात्वप्रसङ्गादित्याश
ङ्कोत्तरत्वेन प्रथमान्ताद्वतिमाश्रित्य धारणवदित्यंशं व्याचष्टे—यथेति ।
‘वेदधारणं’ वेदाध्ययनं अधीतवेदस्यापि स्मृत्यर्थं पुनः पुनः पाठो वा ।
अत एव तत्त्वप्रदीपे वेदपाठादिकमित्युक्तम् । ‘त्रैवर्णिकानां’ ब्रह्मक्षत्रिय
वैश्यानां सावधारणमेतत् ‘विहितं’ ‘स्वाध्यायोऽध्येतव्यः’ (तै.आ.२-
१५-१.)‘वेदः कृत्स्नोऽधिगन्तव्यः’ इत्यादिनेति शेषः । ‘अन्येषां’ शूद्रा
दीनाम्। प्रत्युत तेषामध्ययनादौ सति दण्ड एव श्रुत इति भावः। उक्त
मर्थं दार्शान्तिके संयोजयति—एवमिति । स्वमतानुसारिणीति । स्वे
च्छानुसारिणी प्रवृत्तिः ज्ञानिनामेव विहिता, नान्येषामित्यन्वयः । इ
ति वेति न पक्षान्तरोक्तिः, किन्तु विधिर्वेत्युक्तस्यैव दृष्टान्तविवरण
पूर्वं दार्शान्तिकोपपादनव्याजेन विवरणमिति ध्येयम् । ननु नायं यथे
ष्टाचारविधिः सम्भवति, तथासति ज्ञानिनोऽधर्मकरणस्यापि विधि
विषयत्वप्राप्त्याऽचोदनेत्युक्तविरोधः स्यादित्यत आह—न तत्रेति ।
‘तत्र’ ज्ञानिप्रवृत्तिविषये ‘अधर्मशङ्का’ अधर्मत्वशङ्का न कार्येत्यर्थः ॥
( १२ ) कुत इत्यत आह—स्वेच्छयेति ॥ ‘ब्रह्मणो’ विधातुः ‘वि
धिचोदिता’ ‘येन स्यात्’ इति विधिविहितेत्यर्थः । यत इति शेषः ।
अतः ‘तन्मतं’ तस्य विरिञ्चस्याभिप्रतं वेदविरुद्धत्वेन प्रतीतमपि पु
त्रिकाकामनादि अधर्मत्वेन नाशङ्क्यमित्यर्थः । हेत्वन्तरमाह—विष्णो
रिति । यतो विष्णोरेवं कुर्विति ‘प्रत्यक्षचोदना’ प्रेरणा विरिञ्चस्या
स्त्यतोऽपि तन्मतं नाशङ्क्यमित्यर्थः । वेदस्तु विष्णोः परोक्षाज्ञारूप
इति प्रत्यक्षाज्ञानुसारेण नेतव्य इति भावः । अत्र ब्रह्मण इत्युक्तेऽपि
उपलक्षणया ज्ञानिनामित्यर्थो ज्ञातव्यः । अत एव स्ववाक्ये ज्ञानिनां
विहितेत्युक्तम् । अन्यथा अत्रैव स्मृतौ ब्रह्मणस्स्वेच्छाचारविधिः म
नुष्याणां स्वेच्छाचारेऽचोदनेति विषयव्यवस्थायां पारिप्लवार्था इति
वक्ष्यमाणविषयविभागो व्यर्थः स्यात् । तत्त्वप्रदीपे तु द्वितीयवाशब्दा