पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 982, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - १७. ] दीपिकासाहितम्. ९३५
( ५ ) सू- ॐ ॥ उपमर्दं च ॥ ॐ ॥ १६ ॥
‘ओमित्युच्चार्यान्तर्गिममात्मानमभिपश्योपमृद्य पुण्यं
च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तु-
रश्रुतौ ॥ १६ ॥
( ६ ) सू- ॐ ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ ॐ ॥ १७ ॥
न तावता कामचाराणां ज्ञानेऽधिकारः ।
य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।
मोक्षसाधनत्वाभावः प्रसज्यत इति चशब्दसूचितसाध्येनान्वयः ॥
( ५ ) इदमेव साध्यं कैमुत्येन साधयत्सूत्रं पठित्वा चशब्दस्य वि-
षमक्षान्मुक्तेरिवानिवार्यतया प्राप्तस्य प्रारब्धकर्मणोऽपीत्येवमप्यर्थत्वे-
न कैमुत्यद्योतकत्वमभिप्रेत्य व्याचष्टे—उपमर्दं चेति ॥ उपमर्दः फल-
ह्रासः । अन्तः हृदयस्थेति । प्रतिमादेरुपलक्षणम् । तथा च मुक्तियो-
ग्या ओमित्युच्चार्य श्रवणादिकं च कृत्वा हृदयस्य प्रतिमादेरन्तरिमं
परमात्मानं ‘अभिपश्य’ दृष्ट्वा प्रारब्धमनिष्टं पुण्यं पापं च किंचिद्दुः-
खं ज्ञानेन ‘उपमृद्य’ फलह्रासेन विनाश्य ‘कामं’ यथेच्छं सदसत्क-
र्माचरन्तोऽपि ब्रह्म ‘अनुव्रजन्ति’ प्राप्नुवन्त्येवेति श्रुत्यर्थः ॥
( ६ ) ननु यदि कामचाराणामपि ज्ञानिनां मुक्तियोग्यता, तर्हि
तज्जिज्ञासूनामपि कामचाराणां ज्ञानाधिकारः स्यादविशेषात्, तथा
च ‘अध्ययनमात्रवतः’ इत्युक्तस्य विष्णुभक्तिशमादिवतामेवाधिका-
र इत्यस्य बाधः स्यादित्याशङ्कां परिहरत्सूत्रं पठति—ऊर्ध्वेति ॥ अ-
त्र ऊर्ध्वरेतस्त्वित्युक्तिः प्रधानत्वादुपलक्षणमन्यगुणानाम् । च शब्द
एवार्थः साध्यसमुच्चये चेत्याशयेन चशब्दसूचितं प्रतिज्ञावाक्यं दर्श-
यति—न तावतेति ॥ कामचाराणामपि ज्ञानिनां मुक्तियोग्यताऽस्तीत्ये-
तावतेत्यर्थः । तत्त्वजिज्ञासूनां ज्ञानाधिकारो मन्तव्य इति शेषः । सूत्रे
हिशब्दो हेत्वर्थ इति ज्ञापनाय श्रुतेरिति पञ्चमीप्रयोगः । श्रुतेरित्यस्य
न साक्षात् किन्तु ऊर्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशविधानादि-
त्यध्याहृतहेतुद्वारा नेत्यनेनान्वयः । अनेन ‘हि’ यतः ‘शब्दे’ ‘य इ-
मम्’ इति श्रुतौ ‘ऊर्ध्वरेतस्सु च’ गुरुकुलवासब्रह्मचर्यापरपर्यायो-
र्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशो विहितो न कामचारिष्वतो न ते-
षाम् ज्ञानाधिकार इति सूत्रार्थ उक्तो भवति । यः ‘इमं’ प्रकृतं ‘गुह्यं’
गोप्यं ‘परमं’ विष्णुमूर्ध्वरेतस्त्वादिगुणवत्स्वेव ‘भाषयेत्’ उपदिशे-