सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १०. सू - ११० ] दीपिकासहितम्. ७१३
( ३ ) सू—ॐ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ॐ ॥ ११ ॥
तर्हि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्यान-
र्थक्यमिति चेत्—
( ४ ) न, चरणापेक्षत्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोप-
पत्तेः ॥ ११ ॥
( ३ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे-
आनर्थक्यमिति ॥ तर्हीत्युक्ते यदीति लभ्यते । यज्ञादीत्यादिकमत्रापि
सम्बध्यते । तथा च यदि 'रमणीयचरणाः' (छा. ५-१०-७.) इत्यादिषु
तिर्यज्ञाद्युपलक्षणार्था, तर्हि श्रुतौ चरणशब्दस्य 'आनर्थक्यं' तत्प्रयोग
वैयर्थ्यम्, किन्तु रमणीयाः कपूया इत्येव प्रयोज्यं स्यात् न तु चरण
शब्दोऽपीत्यर्थः । यज्ञाधिकारिणां पूर्वे प्रकृतत्वेन ये यज्ञाधिकारिणो र-
मणीयाः कपूयाश्चेति रमणीयकपूयपदाभ्यामेव यज्ञाद्युपलक्षणसम्भ-
वात् 'चरणशब्दानर्थक्यं' तच्च न युक्तमिति भावः ॥
( ४ ) परिहारांशं व्याचष्टे—नेति ॥ वैयर्थ्यप्रसङ्गादुपलक्षकत्वमेव ना-
स्तीति पक्षो नेत्यर्थः । तथा सति 'इष्टापूर्ते मन्यमानाः' (मु. १-२-१०.)
'त्रैविद्याः' इत्यागमविरोधः स्यादिति भावः। यद्वा-उपलक्षणत्वमङ्गीकृ-
त्य पदान्तरेणाप्युपलक्षणसम्भवाच्चरणपदेनैवोपलक्षणे किं प्रयोजनं, न
किमपीति पक्षो नेत्यर्थः । कुतो नेत्यतश्चरणपदसार्थक्यौपपादकतया
तदपेक्षत्वादित्येतद्योजयति—चरणापेक्षत्वादिति । 'रमणीयत्वादेः'
साध्वसाधुयज्ञादिमत्त्वस्य चरणापेक्षत्वात् स्नानाचमनाद्याचारापेक्ष-
त्वादित्यर्थः । ततः किमित्यत आह—तदिति । तदित्यावर्तते । सार्थ-
क्येत्युपस्कार्यम् । एवं सूत्रेऽपि । तस्य रमणीयत्वादेर्ज्ञापनमर्थः प्रयो-
जनं यस्य तस्य भावस्तत्त्वं तेनेति विग्रहः । इत्थंभूतलक्षणे तृतीया ।
तथा च रमणीयचरणत्वेन ये साधवो यज्ञादिकृतः 'ते रमणीया'
इति श्रुतियोजनायां तेषां यज्ञाधिकारिणामपि रमणीयकपूयाचाराभ्या-
मेतद्रमणीयत्वादि इति ज्ञापनार्थत्वेन तस्य चरणशब्दस्य सार्थक्यौपप-
त्तेरिति योजना । अनेन — यदि चरणादिश्रुतिर्यज्ञाद्युपलक्षणार्था,
तर्हि चरणशब्दस्यानर्थक्यं, रमणीयकपूयपदाभ्यामेव केवलाभ्यां य-
ज्ञाद्युपलक्षणसम्भवादिति चेन्न, कुतः ? 'तदपेक्षत्वात्' तस्य यज्ञादे-
स्तस्य रमणीयत्वादेस्तदपेक्षत्वात्साध्वसाध्वाचारापेक्षत्वात् । ततश्च
तेषां यज्ञादिकृतां रमणीयकपूयाचाराभ्यामेव रमणीयत्वादि नान्यत
९०

७१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
(५) सू- ॐ ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ ॐ ॥ १२ ॥
'धर्मं चरत माऽधर्मम्' इत्यादिप्रयोगात्सुकृतदुष्कृते
एव चरणशब्दोक्ते इति बादरिर्मन्यते । तुशब्दात् स्व
सिद्धान्तोऽपि स एवेति सूचयति ।
तुशब्दस्तु विशेषे स्यात्स्वसिद्धान्तेऽवधारणे ॥
इति ज्ञापनाय तस्य चरणशब्दस्य सार्थक्यॊपपत्तेरिति सूत्रार्थ उक्तो
भवति ॥
(५) प्रकारान्तरेण चरणश्रुतिं व्याकुर्वत्सूत्रं पठित्वा व्याचष्टे—
सुकृतेति ॥ इत्यादिप्रयोगादिति । कुरुतेत्यर्थे चरतेति प्रयोगादित्य
र्थः । 'सुकृतदुष्कृते' साध्वसाध्वाचाराङ्गविशिष्टे एव यज्ञादिकर्म
णी इत्यर्थः । न तु सदसदाचाराङ्गमात्रमित्येवशब्दार्थः । 'चरणश
ब्दोक्ते' एव श्रुतिस्थचरणशब्दवाच्ये एवेत्यर्थः । ('चरणशब्दोक्ते'
एतच्छ्रुतिस्थचरणशब्दवाच्ये अपीत्यर्थः । न केवलमुपलक्ष्ये इत्यपि
पदार्थः । भाष्ये अपिशब्दाध्याहारेण सूत्रगततुशब्दो व्याख्यातः ।) चर
णशब्दोक्ते इत्यनेन सूत्रे चरणे इति विपरिणतपदानुवृत्तिः सूचिता । ए
वकारस्योभयत्रान्वयश्च । न चाङ्गविशिष्टकर्मण एव चरणशब्दवाच्य
त्वे केवलाचारे तत्प्रयोगाद्यनुपपत्तिरिति वाच्यम् । अन्यत्राङ्गमात्रवाचि
त्वस्याप्यभ्युपगमात् । अतएव टीकायां साधारणश्रुतेश्च अत्रबाधकव
शात्साङ्गकर्मार्थत्वस्यैवोपपत्तेरित्युक्तम् । 'नान्यः पन्थाः' (तै.आ.३-१३.)
'इष्टापूर्तम्' (मु.१-२-१०.) इत्यादिबाधकवशादित्यर्थः। न च शक्यानेक
त्वं स्यादिति वाच्यम् । इष्टापत्तेः। अतएव तत्त्वप्रदीपे-चरणशब्दस्यानु
ष्ठानमात्रेऽपि वृत्तिमत्त्वात्सदाचारादेः सुकृतादावन्तर्भावाच्चेत्युक्तम् ।
सुकृतशब्दार्थेऽन्तर्भावादित्यर्थः । टीकायामपि साधारणश्रुतेश्चेत्युक्त
म् । (एतेनैवकारस्य भिन्नक्रमत्वमुपेत्य सुकृतदुष्कृते चरणपदोक्ते एव
न तु लक्ष्ये इति भाष्यव्याख्यानं निरस्तम् । न चरणश्रुतिः यज्ञाद्युपलक्ष
कत्वेनैवोक्ताविरोधिनी, किंनाम यज्ञादिकर्मवाचिनी चेति टीकाविरोधात्,
तत्त्वप्रदीपविरोधाच्च ।) 'बादरिः' शुकाचार्यः । मन्यत इति शेषोक्तिः।
परमतमभिधाय सूत्रकारः स्वमतं कुतो न वक्तीत्यत आह-तुशब्दा
दिति । 'स्वः' सूत्रकृत् । न केवलमन्यसिद्धान्त इत्यपेरर्थः । 'स
एव' बादरिसिद्धान्त एव । न त्वन्य इत्येवार्थः । 'सूचयति' सूत्र
कृत् । (अनेन तुशब्दार्थस्यापेः बादरिरपीत्यन्वयो दर्शितः । यद्वा—) नि

[ अधि - ११. सू - १३. ] दीपिकासहितम्. ७१५
इति नाममहोदधौ ॥ १२ ॥
:-*:-
११. अधिकरणम् ॥
( १ ) पुण्यकृतामेव गमनागमने नेतरेषामिति ।
( २ ) अत आह—
सू- ॐ ॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ ॐ ॥ १३ ॥
‘ तद्य इह शुभाकृतो ये चाशुभकृतस्तेऽशुभमनुभूया
वर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति ’
इति भाल्लवेयश्रुतौ ॥ १३ ॥
र्दिष्टसिद्धान्तस्य स्वसिद्धान्तस्य चैक्यं तुशब्दार्थ इति भावः । तुशब्द-
स्यैतदभिधायकत्वं कुत इत्यत आह—तुशब्द इति । ‘ नाममहोदधौ ’
ग्रन्थे । उक्तमिति शेषः ॥ १० ॥
॥ इति चरणाधिकरणम् ॥
११. अधिकरणम् ॥
( १ ) अत्राधिकरणेऽनिष्टादिकारिणामपि गतागतादिदुःखमस्ती-
ति समर्थ्यते । पूर्वपक्षयति—पुण्यैति ॥ इष्टादिपुण्यकर्मकृतामेवेत्यर्थः ।
स्वप्रयुक्तैवशब्दव्यावर्त्यं दर्शयति—नेति । ‘ इतरेषां ’ पापकर्मकारि-
णामपि नेत्यर्थः । अनात्मविदामिति शेषः । तथा च अनिष्टादिकारिणा-
मज्ञानां गतागतयोरभावात्तेषां तच्छून्यो मोक्ष एवेति पुण्यतत्फलयो-
रेव विरक्त्या भाव्ये, नान्यत्रानिष्टादावपीति भावः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य तदुपपादकश्रुतिमेवोदाहरति—अत
इति ॥ श्रुतावित्यस्य सूत्रेणान्वयः । गमनागमने इत्यनुषज्यते । अनेन
सूत्रे यथेत्यत इतमनितं चेति पदद्वयानुवृत्तिस्सूचिता । पुण्यकृता-
मित्यनेनापिशब्दार्थस्सूचितः । सूत्रे संयमनसूत्रोक्तदुःखान्तरसमुच्चा-
यकश्चशब्दः । तथा च ‘ इतं ’ गमनं ‘अनितं ’ आगमनं च न केवल-
मिष्टादिकारिणां, किं नाम? ‘अनिष्टादिकारिणामपि’ यागाद्यकारिणां त-
द्विरुद्धपापकर्मकारिणां चास्ति । न केवलमनिष्टादिकारिणां गतागत-
मात्रम्, किं नाम ? संयमनाख्यं प्रबलदुःखान्तरं चास्ति । कुतो? यतः
‘ तद्य इह ’ इति श्रुतौ तथा श्रुतं अत इति योजना । ‘ इह ’ भूमौ ‘ ये
शुभाकृतो ’ यागादिपुण्यकर्माकारिणः ये च ‘अशुभकृतः ’ इष्टादिविरु-
द्धपापादिकारिणः ते लोकान्तरं गतास्तत्र ‘ अशुभं ’ पापफलमनुभूय

७१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
( ३ ) सू—ॐ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ
तद्गतिदर्शनात् ॥ ॐ ॥ १४ ॥
संयमनमनुभूय केषां चिदारोहः केषां चिदवरोहः ।
तुशब्दोऽवधारणे । 'सर्वे वा एतेऽशुभकृतः संयमने
प्रपतन्ति तत्र ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदव
मन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्य तमसि प्रप
पुनः आवर्तन्ते । भुवमागच्छन्ति, आगत्य च पुनः तत्र कर्म कुर्वन्ति,
पुनः परलोकं गच्छन्ति, पुनर्भूवमागच्छन्तीत्यर्थः । 'शुभकृतः 'इति
पाठे 'ये चाशुभकृतः' इत्यस्य ज्ञेयोऽर्थः । 'तेशुभम्' इत्यत्रापि द्वेधा
पदच्छेदः ॥
( ३ ) न केवलमनिष्टादिकारिणां गतागतमात्रम्, किं नाम ? अति-
दुःखं पूर्वसूत्रे चशब्देन सूचितमन्यदस्तीत्यर्थप्रतिपादकं सूत्रमुपन्य-
स्य व्याचष्टे—संयमने त्विति ॥ अत्र संयमन इत्यावर्तते । तत्रैकमधि-
करणसप्तम्यन्तं नरकवाचि, अपरं कर्मवाचि सप्तम्यन्तमित्याशयेन सं-
यमनमिति व्याख्यातम् । सम्यग्गमनं नियमनं शासनं संयमनं यमस्ये-
ति शेषः । अत एव तत्त्वप्रदीपे—'यम उपरमे' इति धातोः पापोपर-
मणं संयमनमित्युक्तम् । तत्र यमशासनमेव पापोपरमशब्दार्थ इति ।
तद्भेदं चार्थत एकरूपमेव । अनुभूयेति । यमशासननिमित्तदुःखमनुभू-
यैवेत्यर्थः । संयमन इति तात्पर्यम् । अत एव तत्त्वप्रदीपे—संयमने न-
रक इत्युक्तम् । केषां चिदित्यनेन 'इतरेषां' इष्टादिकारिभ्योऽन्येषां
निष्टादिकारिणां मध्ये केषां चिदिति व्याख्यातम् । 'आरोहो' नरका-
दुत्थानं 'अवरोहः' ततोऽतिनीचस्थाने नित्यनरके पातो भवतीति शे-
षः । न च तमसः पृथिव्यां लोकालोकगिरेः परस्तात्सत्त्वेन पृथिवीस-
मानदेशत्वात् संयमनस्य च पातालस्थत्वेन चतुरशीतिसहस्रयोजना-
धस्तनत्वात्कथमूर्ध्वगते तमस्यवरोहोक्तिरिति वाच्यम् । तमसः अति-
गम्भीरत्वेन पातालस्थितबिलद्वारागतानां क्रमेण पातालगतनरकादपि
नीचस्थाने तमसि अधोभागे पातसम्भवेन विरोधाभावात् । यथा भग-
वद्द्वेषादियुतानामेव नित्यनरकपातलक्षणोऽवरोहः, अन्येषां ततो
व्युत्थानलक्षण आरोह इति व्यवस्थितविकल्पः तथा संयमनेऽप्यस्ती-
ति शङ्कानिरासकत्वेन तुशब्दं व्याचष्टे—तुशब्द इति । स चानुभूयेत्य-
नेन सङ्गमनीय इति हृदयम् । श्रुतेरित्यनेन तद्गतीति हेत्वंशः तेषां तद्ग-

[ अधि - ११. सू - १४. ] दीपिका सहितम्. ७१७
ततस्ते नैवेत उत्तिष्ठन्तेऽपि कर्हिचित् वत्रं वा एतदित्या-
हुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनु
भूयेमं लोकमनुव्रजन्ति' इति कौण्ठरव्यश्रुतेः ॥ १४ ॥
तेः एवंविधगतेः श्रुतिसिद्धत्वादित्येवं तच्छब्दावृत्त्या व्याख्यातो भव-
ति । श्रुतौ अशुभकृत इत्यस्य शुभकर्मकारिणस्तद्विरुद्धाशुभकर्मका-
रिणश्चेत्यर्थः । एतेन सर्व इत्यनेनाशुभमात्रस्य नरकपातो न तत्र नियम
इति सूचितम् । संयमने प्रपतन्तीत्यनेन सौत्रसप्तम्यर्थो दर्शितः ।
तत्र तेषु मध्य इत्यनेनेतरेषामिति व्याख्यातम् । 'परद्विषः' हरिद्विषः
विष्णुद्वेषो नाम तत्र प्रतीपबुद्धिः । सा च 'जीवाभेदो निर्गुणत्वम्' इत्या-
द्यागमादनेकविधा द्रष्टव्या । 'श्रुतिद्विषः' वेदद्व

७१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
( ४ ) सू— ॐ ॥ स्मरन्ति च ॥ ॐ ॥ १५ ॥
गच्छन्ति पापिनस्सर्वे नरकं नात्र संशयः ।
तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ॥
महातमसि मग्नानां न तेषामुत्थितिः क्वचित् ।
इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
इति सर्वत्र नियमः पञ्चकष्टे तु तत्सदा ॥ इत्यादि ॥ १५ ॥
ः[icon]ः
( ४ ) उक्तार्थे स्मृत्या समर्थयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—
स्मरन्ति चेति ॥ सूत्रे दर्शनपदोक्तश्रुतिस्मरणयोः समुच्चये चशब्दः ।
इत्यादि स्मरन्तीत्यन्वयः । स्मृतिकर्तार एवंभूतां स्मृतिं कुर्वन्तीत्य
र्थः । इत्यादीत्यनेन सूत्रगतबहुवचनकृत्यमुक्तं भवति । आदिपदेन
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ (Bhag. Gītā XVI, 19)
इत्यस्याः—
सर्वदेववरत्वं यो न जानाति केशवम् ।
तस्य पुण्यानि मोघानि याति चान्धंतमो ध्रुवम् ॥
इत्यादेश्च सङ्ग्रहः । यत इत्यादि स्मरन्ति, अतोऽप्युक्तं युक्तमिति सू-
त्रार्थः । स्मृत्यर्थस्तु—सर्वेऽपि पापिनो नरकं गच्छन्ति । तत्र संयमनं
चानुभवन्ति नात्र संशयः । 'तत्र' पापिषु ये जनार्दनं द्विषन्ति । उप-
लक्षणमेतत् । पूर्वश्रुत्युदाहृतं सर्वं ग्राह्यम् । ते नरके किञ्चित्कालं दुः
खं भुक्त्वा ततोऽवरुह्य महातमसि पतन्त्येव । तत्र मग्नानां तेषां च क-
चिदपि 'नैवोत्थितिः' नारोहोऽस्ति तत्राभिधत्वादिति भावः । द्वेषि-
भ्य इतरेषां 'पापानां' पापवतां तु 'व्युत्थानं' पापस्थानादारोहः फ-
लतो निवृत्तिश्च कदाचिद्विद्यते । नैवं तमसि मग्नानाम् । अपि च—'सु-
खस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्' इति सर्वत्रानित्यनरके नि-
यमोऽस्ति । रौरवादिभ्यः पञ्चभ्योऽपि कष्टे पञ्चेन्द्रियाणि प्रति कष्टे
दुस्सहशब्दादिपञ्चकयुक्तत्वात्पञ्चकष्टे इति वा एतादृशे नित्यनरके तु
'तत्' दुःखं सदाऽस्तीति ॥ ११ ॥
॥ इति अनिष्टाधिकरणम् ॥
―――* ⁕ *―――

[ अधि - १२. - सू - १६. ] दीपिकासहितम्. ७१९
१२. अधिकरणम् ॥
( १ ) सू— ॐ ॥ अपि सप्त ॥ ॐ ॥ १६ ॥
रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा ।
कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि च ॥
तामिस्रश्चान्धतामिस्रौ द्वौ नित्यौ सम्प्रकीर्तितौ ।
इति सप्त प्रधानानि बलीयस्तूतरोत्तरम् ।
एतानि क्रमश्रो गत्वैवारोहोऽथावरोहणम् ॥
१२. अधिकरणम् ॥
( १ ) अत्र भगवद्द्वेषादिफलस्य नरकस्य नित्यत्वं समर्थ्यते । न
रकभोगोऽनित्य एवेति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—अपति ॥ अत्र
‘नैवेत उत्तिष्ठन्ते’ (कौष्ठरव्य.) इति श्रुतेर्नरकभोगो भवत्येव नित्य इ
ति सहेतुकसिद्धान्तप्रतिज्ञां बहिरेवाभिप्रेत्य तर्हि ‘यावदिन्द्राश्चतुर्दश’
‘यावदाभूतसंप्लव’ इति वचनविरोध इत्याशङ्कापरिहाराय प्रवृत्तं सूत्रं
स्मृत्युदाहरणेन व्याचष्टे-रौरव इति । भारते इत्यस्यापिपदेनानुकृष्टेन
स्मरन्तीत्यनेनान्वयः । तथा च यतः स्मृतिकर्तारः संयमनानि सप्तापि
नरकान् तेषु नित्यानित्यविभागं च स्मरन्ति । अतो न नरकसत्त्वे त
दवान्तरविभागे च प्रमाणाभावो न वा नरकानित्यत्वोक्तिविरोधस्त
स्यानित्यविषयत्वादिति सूत्रार्थः । तत्त्वप्रदीपे तु—यद्यपि बहुकोटयो
नरकाः, तथाऽपि सप्त प्रधानानीत्यपिशब्दार्थः । दर्शयति च आचार्यः
‘इति सप्त प्रधानानि’ इति सौत्रापिशब्दस्यार्थान्तरप्रतिपादनपरेति
सप्तप्रधानानीति भाष्यानुसारेणापिपदं बहुनरकाभिधायकपुराणविरो
धपरिहाराय यद्यपितथाऽपीत्यर्थकतया व्याख्यातम् । एतदपि टीका
कृदनुमतमेव । सप्तप्रधानानीत्यनेन पुराणविरोधोऽपि परिहृत इत्यु
क्तेः । अनेन भाष्ये भारर्तोदाहरणमुपलक्षणम् । अत एवापिपदात् स्म
रन्तीति बहुस्मृतिसूचकबहुवचनान्तपदमाकृष्टम् । स्मृतावथेत्यर्थान्त
रे । तदेवाह—महानिति । महारौरव इत्यर्थः । चः समुच्चये । तथैवे
त्यन्वयः । उपमार्थस्तथाशब्दः । तुरेवार्थः । ननु ‘तत्र हैके नरकानेक
विंशतिं गणयन्ति अष्टाविंशतिनरका एवंविधा नरका यमालये सन्ति
शतशः सहस्रशः’ इत्यादिना भागवतादौ नरकबाहुल्योक्तेस्तद्विरो
धोऽस्येत्यत आह—इति सप्त प्रधानानि नरकाणीति । एतेषूत्तरोत्तरं
पूर्वपूर्वनिर्दिष्टानपेक्षया ‘बलीयो’ दुःखाधिक्ययुक्तम् । ‘क्रमशः’

७२० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
इति भारते ॥ १६ ॥
—::—
१३. अधिकरणम् ॥
( १ ) ईश्वरस्य नरकायुक्तेः ‘सर्वे विसृजति सर्वे विलाप
यति सर्वे रमयति सर्वे न रमयति सर्वे प्रवर्तयत्यन्त
रस्मिनिविष्टः’ इति कौषारवश्रुतिविरोध इति ।
( २ ) अतो वक्ति—
सू— ॐ ॥ तत्रापि च तद्व्यापारादविरोधः ॥ ॐ ॥ १७ ॥
चशब्दाददुःखानुभवेन ।
पापाधिक्यक्रमात् निर्दिष्टक्रमानुसारेण च । अधिकारिभेदज्ञापनाया-
रोहावरोहयोर्मध्येऽप्येत्युक्तिः ॥ १२ ॥
॥ इति अपिसप्ताधिकरणम् ॥
—:
:* :* :—
१३. अधिकरणम् ॥
( १ ) अत्राधिकरणे नरकस्य सद्दुःखत्वं समर्थ्यते । पूर्वपक्षमा-
ह--ईश्वरस्येति ॥ हेतुगर्भमेतत् । न तत्र दुःखमिति शेषः । तथा च
यदि नरके दुःखमङ्गीक्रियते तदा तत्र नारकिजनप्रेरकतया ईश्वरोऽप्य-
ङ्गीकार्यः । तथा च तस्य जीववद्दुःखमप्यङ्गीकार्यम्, तच्चायुक्तम् । ई-
श्वरत्वविरोधात् अतो न तत्र दुःखमस्तीत्यङ्गीकार्यमिति भावः । ननु
नरके प्रेरकतया ईश्वरसत्त्वं नोपेयते, अतो नोक्तदोष इत्यत आह—
सर्वमिति । सर्वमित्यतः प्रागन्यथेत्युपस्कार्यम् । ईश्वरस्य प्रेरकतया न-
रके सत्त्वानभ्युपगम इति तदर्थः । ईश्वरः सर्वे जगत् ‘विसृजति’
विविधाकारेण सृजति ‘विलापयति’ नाशयति यो जनो रमणयोग्य-
स्तँ सर्वे रमयति यस्तदयोग्यस्तं न रमयतीत्यर्थः । ‘अस्मिन्’ सर्वे-
स्मिन् अन्तर्निविष्टो रमयति । प्रवृत्तिकृदित्यनेन प्रेरकत्वमुक्तं भवति ॥
( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ नरकस्य सद्दुः-
खत्वमुपेत्य तत्र प्रवर्तकतया ईश्वरसत्त्वाभ्युपगमे दुःखप्राप्तेः ईश्वरत्व-
व्याकोप इति यो विरोध उक्तः तत्परिहारः कुतो न सूत्रित इत्यत
आह—चशब्दादिति । अदुःखेति । नीचोच्चतापर्यवसितदुःखानुभवा-
भावेनेत्यर्थः । इति समुच्चिनोतीति शेषः । सूत्रे तदिति व्यस्तं समस्तं
च । तथा च न केवलं स्वर्गादौ, किन्तु ‘तत्रापि’ नरकेऽपि अदुःखा

[ अधि - १३. सू - १७. ] दीपिकासहितम्. ७२१
( ३ ) 'स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृ
देक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्वं
पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद'
इति पौत्रायणश्रुतेरविरोधः ।
( ४ ) नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥
नुभवेन 'तद्व्यापारात्' तस्येश्वरस्य प्रेरणाख्यव्यापाराभ्युपगमात्
श्रुतियुक्तिविरोधाभाव इति सूत्रार्थः ॥
( ३ ) भवेदयमुभयविरोधाभावो यद्यस्यार्थस्य प्रामाणिकत्वं स्या
त्, तदेव कुत इत्यत आह—स इति ॥ इति श्रुतेरित्यस्य न सन्निहिते
नाविरोधपदेनान्वयः, किं त्वदुःखेन । तद्व्यापारादित्यस्य नासिद्धिरी-
त्युपस्कृतसाध्येन, अस्य चाविरोध इत्यनेनान्वयः । अविरोधः नरके
दुःखमङ्गीकृत्य ईश्वरस्य नारकिप्रेरकत्वपक्षोक्तदोषो नेत्यर्थः ।
प्रेरकत्वमङ्गीकृत्य तत्र दुःखाननुभवेन तत्रोक्तदोषपरिहारादिति
भावः । 'सः' ईश्वरः स्वर्गादावनुविष्टस्सन् एक एव स्वतः प्रवृत्ति
कृदित्यर्थः । ननु स्वर्गनरकादौ जीवेन सहावस्थानात्तद्वदीश्वरस्यापि
तत्तद्गतसुखदुःखभोगः स्यादित्यत आह—नेति । 'असौ' ईश्वरः । ने
त्यत्र हेतुः—प्रभुत्वादिति । तथा त्वे असार्वज्ञ्यं स्यात् यतो दुःखाभो
गो दुःखानुभव इत्यत उक्तम्—सर्वं पश्यतीति । तत्र हेतुः—सर्वं
कारयतीति । कैमुत्यन्यायेनेश्वरस्य दुःखाभोगमाह—नेति । य एवं वे
दासावधिकार्यपि न दुःखभुक्, किमीश्वर इत्यर्थः ॥
( ४ ) सर्वं पश्यतीत्युक्तार्थे स्मृतिं चाह—नरकेऽपीति ॥ तर्हि
सर्वज्ञस्य कथं दुःखाभोगः, अनुभवस्यैव भोगत्वादित्यत आह—नी
चेति ।
अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ ।
तदेव सुमहत्तेजः करोति भगवान् महत् ॥
इति बृहद्भाष्योक्तदिशा तूलपिण्डस्येव स्वरूपसङ्कोचविकासावेव दुः
खादेर्भोग इत्युच्यते, न तत्साक्षात्कारमात्रमित्यर्थः । न च
तद्गतानां तु भोगानां भोगोऽभिमतिरुच्यते ।
तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ॥
इति गीतातत्पर्यवचनविरोधः । तथा भोगोऽनुभवः स्वीयतया साक्षा
९१

७२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः ॥
इति भागवततन्त्रे ॥ १७ ॥
१४. अधिकरणम् ॥
( १ ) ‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्य
सकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येत
तृतीयं स्थानम्’ ( छा. ५-१०-८. ) इति गतिस्वात-
त्कार इति गीताभाष्यप्रमेयदीपविरोधः । अत्रोभयत्राभिमानरूपसम्ब-
न्धेन स्वीयतया सुखादिसाक्षात्कारो भोग इत्युक्तत्वादिति वाच्यम् ।
अस्य लक्षणान्तरपरत्वात्, एवकारेण च केवलसाक्षात्कारव्यावर्तना-
त् । एवं जीवस्वरूपभूतसाक्ष्यनुभवप्रयोज्यत्वात् तयोरीश्वरे चाऽभा-
वान्नासौ दुःखभुगिति । ततः किमित्यत आह—नेति । ‘असौ’ ईश्व-
रः ‘पश्यति’ दुःखादिकं सर्वं, तथा च दुःखादिसाक्षात्कारमात्रस्य
भोगत्वाभावान्नीचोच्चतायारेव भोगत्वात्तयोश्च दुःखादिविषयकजीव-
स्वरूपभूतसाक्ष्यनुभवप्रयोज्यत्वादीश्वरे तदभावे तयोरप्यभावात् स-
र्वगत्वेऽपीश्वरस्य न दुःखभोग इति भावः । जीवसहभूतस्यापीश्वर-
स्य दुःखादिसाक्षात्कार एव, न तु भोग इत्यत्र हेतुमाह—प्रभुत्वत
इति । भागवततन्त्र इत्यस्य सर्वे पश्यतीत्याद्युक्तमित्यध्याहृतेना-
न्वयः ॥ १३ ॥
॥ इति तत्राप्यधिकरणम् ॥
१४. अधिकरणम् ॥
( १ ) अत्राधिकरणे जीवानां गतिस्वातन्त्र्यं निराक्रियते । पूर्वप-
क्षयति—अथेति ॥ इतीत्यनन्तरं छन्दोगश्रुताविति शेषः । गतिः मार्ग-
रूपं फलम् । तत्र स्वातन्त्र्यमित्यर्थः । ‘भूतानां’ जीवानां ‘प्रतीयते’
प्रतिपाद्यते यत इति शेषः । अस्य अतोऽस्त्येव भूतानां गतिस्वातन्त्र्य-
मित्यनुवृत्तसाध्येनान्वयः । श्रुतौ गच्छन्तीति शेषः । तथा च ‘अथ’
यदि ‘एतयोः पथोः’ ‘तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्यु-
पासते तेऽर्चिषमभिसम्भवन्ति....अथ य इमे ग्राम इष्टापूर्ते दत्तम-
त्युपासते ते धूममभिसम्भवन्ति’ ( छा. ५-१०-३. ) इति पूर्ववाक्ये प्र-
कृतयोर्ज्ञानिकर्मिप्राप्ययोरर्चिरादिधूमादिमार्गयोर्मध्ये सिद्धान्तरीत्या

[ अधि- १४. - सू- १८. ] दीपिकासहितम्. ७२१
न्त्र्यं भूतानां प्रतीयत इति ।
( २ ) अत आह—
सू— ॐ ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ॐ ॥ १८ ॥
विद्याकर्मापेक्ष्यैतद्वचनम् । तयोरपि प्रकृतत्वात् ।
( ३ ) विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ ।
ज्ञानकर्मणोर्मध्य इति वा यानि ' कतरेण च ' कतरेणापि पथा न ग-
च्छन्ति, तदा तानीमानि ' क्षुद्रमिश्राणि ' क्षुद्राण्यल्पानि सुखदुःखा-
भ्यां मिश्राणि च ' असकृदावृत्तीनि ' सदा गत्यादिमन्ति भवन्ति ।
' जायस्व म्रियस्व ' क्रियासमभिहारे लोट्, पौनःपुन्यं भृशार्थो
वा क्रियासमभिहारः, लोटः स्वप्रत्ययः । तथा च पुनःपुनः जाय-
न्ते म्रियन्ते चेत्यर्थः । ' इत्येतत् ' इत्येवंरूपं स्वर्गापवर्गयोरन्यत्तृतीयं
स्थानं प्राणिनामावासस्थलमित्यर्थः । केचित्तु—' नैकतरेण च गच्छ-
न्ति चेत् ' इति श्रुतिपाठमाहुः । तच्छान्दोग्यसम्प्रदायपाठविरुद्धम् । न
गच्छन्ति चेदिति प्रयोगो युज्यत इति टीका तु अथशब्दस्य चेदर्थक-
त्वं गच्छन्तीत्यध्याहारं चाभिप्रेत्य । अत एव छान्दोग्यव्यासतीर्थीये
गच्छन्तीति शेष इत्युक्तमिति ध्येयम् ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ विद्येति सा-
वधारणम् । ज्ञानकर्माख्यार्थमपेक्ष्यैवेत्यर्थः । 'एतद्वचनं' एतयोरिति प-
दम् । यत इति शेषः । कुतोऽयमस्यार्थ इत्यत आह—तयोरिति । न
केवलमर्चिर्धूमादिमार्गयोरित्यपिशब्दार्थः । अनेन सूत्रे विद्येत्यस्यावृ-
त्तिः । इतिशब्दौ वचनविशेषद्योतकः । तुशब्द एवार्थोऽप्यर्थश्च । कर्म-
णि च षष्ठी । साध्ये चाध्याहार्यम् । तथा च यतः देवयानपितृयाणरू-
पफलयोरिव विद्याकर्माख्यसाधनयोरपि 'तद्य इत्थं विदुः' (छा. ५-
१०-१०) इति पूर्ववाक्ये प्रकृतत्वादेतयोरिति पदं 'विद्याकर्मणोः स्या-
त् ' तत्परामर्शकमेव भवेत्, न तु मार्गरूपफलपरामर्शकम् । अतो
न तद्वलाद्भूतानां गतिस्वातन्त्र्यं मन्तव्यमिति सूत्रार्थ उक्तो भवति ॥
( ३ ) नन्वेतयोरित्यस्य मार्गतत्साधनरूपार्थद्वये सम्भवति सति
किं साधनमात्रार्थग्रहणे कारणमित्यतः श्रुतिस्मार्त्यैवेति भावेन वि-
द्याकर्मपदसूचितां स्मृतिमाह—विद्येति ॥ 'विद्यापथो' विद्यामार्गः ।
'कर्मपथः' कर्ममार्गः । तदुभयात्मकं साधनमिति यावत् । 'प्रकीर्ति-
तौ' एतयोरितिशब्दबोध्याविति यावत् । यद्वा—'आत्मा वा अरे द्र-

७२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः ॥ इति ॥ १८ ॥
१५. अधिकरणम् ॥
( १ ) यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।
अपि नीचगतौ किञ्चित्किमु मानुषदेहिनः ॥
इति वचनान्महातमस्यपि सुखप्राप्तिरिति ।
ष्टव्यः ' (बृ. ४-४-५.) 'तद्विजिज्ञासस्व' (तै. ३-१.) 'ज्योतिष्टोमेन यजेत'
(आप. श्रौ. १०-२-१.) इत्यादौ विहितावित्यर्थः । विद्यापथः कर्मपथ
इत्यकारान्तौ शब्दौ । 'तद्वर्जितः' तदुभयवर्जितो जनः 'त्रिधा'
प्रकारत्रयेण 'याति' प्रकारत्रयोपेतं फलं प्राप्नोतीत्यर्थः । तानेव प्र
कारानाह-तिर्यगिति । भावनिर्देशोऽयम् । जायस्व म्रियस्वेत्युक्तगति
रित्यर्थः । उक्तं हि तत्त्वप्रदीपे-तिर्यङ्नरकं तम इति । तत्र प्रथमं
स्पष्टमुक्तम्-जायस्व म्रियस्वेति । इतरे चोक्ते 'संयमने' इत्यादिने
ति । अनेन नरकार्थतया यातनापदमपि व्याख्यातम् । वाशब्द उभ
यत्र सम्बध्यते । भारते इत्यनन्तरं वचनादिति शेषः । अस्य विद्या
कर्मापेक्षयेति पूर्वेणान्वयः । केचित्तु-सूत्रे इतिशब्दः सौत्रपदा
र्थोक्तिपरः । अर्थशब्दश्चाध्याहार्यः । तथा चैतयोरित्यस्य 'विद्याकर्म
णोरिति' तु विद्याकर्मणोरेवार्थः, न तु मार्गयोरित्यपीति सूत्रार्थमा
हुः ॥ १४ ॥
॥ इति विद्याधिकरणम् ॥
१५. अधिकरणम् ॥
( १ ) अत्राधिकरणेऽन्धतमसस्य दुःखमात्रत्वं समर्थ्यते । पूर्वपक्ष
यति-यत्रेति ॥ इति वचनादिति । इत्येतद्वचनगृहीतव्याप्तिकदुःखयु
क्तत्वहेतोरित्यर्थः । तथा च परसुखदुःखयोरप्रत्यक्षत्वाद्व्याप्तिग्रहणा
योग इति चोद्यानवकाशः । अत्र यस्मिन् यस्मिन् दुःखं तत्र स
र्वत्रापि सुखमस्ति न तु क्वचिदिति नियतसहचारप्रतीतेरिति
भावः । सर्वत्रेत्युक्तमुपपादयति-अपीति । विशेषणसमुच्चयार्थोऽपिः ।
तथा च यदा दुःखाकरत्वेन प्रसिद्धायामपि 'नीचगतौ' नरके किञ्चि
त्सुखमस्ति तदा मानुषदेहिनो गतौ सुखमस्तीति किमु वक्तव्यमित्य
र्थः । तथा च न कुत्रापि व्यभिचार इति भावः । महातमस्यपीति ।
त्रिविधाधोगतिषु मध्ये न केवलं मानुषादौ नरके च, किन्तु महादुः

[ अधि - १५. सू - २०. ] दीपिकासहितम्. ७२५
( २ ) अत आह—
सू—न तृतीये तथोपलब्धेः ॥ ॐ ॥ १९ ॥
'अथाविद्वानकर्माऽवाग्गच्छति । त्रिधा ह वावाग्गति
स्तिर्यग्यातना तम इति । द्वे वाव सुखानुवृत्ते न तम
स्सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति' ( )
इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ १९ ॥
( ३ ) सू— ॐ ॥ स्मर्यतेऽपि च लोके ॥ ॐ ॥ २० ॥
तिर्यक्षु नरके चैव सुखलेशो विधीयते ।
नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन ॥
खत्वेन प्रसिद्धे तमस्यपीत्यर्थः । प्राप्तिरिति । अस्ति तमोयोग्यस्येति
शेषः । अनेनान्धं तमोऽपि सुखयुक्तमेवेति पूर्वपक्षसाध्यं दर्शितम् ।
सुखप्राप्तिरपीत्यन्वये सति दुःखयुक्तत्वादिति हेतुरपि दर्शितः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अर्थान्तरारम्भे
ऽथशब्दः । 'अविद्वान्' मुक्तिहेतुज्ञानरहितः 'अकर्मा' स्वर्गाद्या
पादककर्मरहितो दुष्कर्मा सात्त्विकतामसो राजसतामसश्च 'अ
वाक्' अधोगतिं 'गच्छति' प्राप्नोति । तां विभजते—त्रिधेति । 'त्रिधा
ह वाऽवाग्गच्छति' इति श्रुतिपाठः । हेति प्रसिद्धौ । वावेत्यवधारणे ।
तत्त्वप्रदीपोक्तरीत्या समाने लोप इति एकवकारलोपः । अवाग्गच्छती
ति यत्तत्त्रिधैवेत्यर्थः । त्रैविध्यमेव दर्शयति—तिर्यगिति । तिर्यक्त्वमित्य
र्थः । साच नानायोनिप्राप्तिरूपा 'जायस्व म्रियस्व' इत्युक्ता तृतीया ग
तिः । 'यातना' नरको दुर्भरत्वं वा । यथोक्तं गीतातत्पर्ये—'दुर्भर
त्वं च तिर्यक्त्वं तमश्चेति फलं क्रमात्' इति । इति त्रिधैवेत्यन्वयः ।
तासां लक्षणमाह—द्वे इति । 'अनुवृत्ते' युक्ते । न तमः सुखयुक्तमि
त्यत्र हेतुमाह—'हि' यतः 'केवलं' अत्यन्तं 'अत्र' तमसि दुःखं
'भवति' प्राप्यते । इति श्रुतेरित्यनेन तथोपलब्धेरिति हेतुर्व्याख्यातः ।
न तृतीयेति । 'तिर्यग्वा नरकं तमः' इत्युक्ताधोगतिषु 'तृतीये' तम
सि न सुखमस्तीत्यर्थः । अनेन सुखमस्तीत्यध्याहृतसाध्यभागो व्या
ख्यातः ॥
( ३ ) एतमेवार्थं स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्य तां
स्मृतिमुदाहरति—स्मर्यते इति ॥ तिर्यक्ष्विति । 'क्षुद्रमिश्राणि' इत्यु
क्ततृतीयगतावित्यर्थः । 'विधीयते' अस्तीत्युच्यते आगमेषु । 'मग्ना

७२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
इति भविष्यत्पर्वणि ।
(४) लोकसिद्धं चैतत् । चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।
(५) अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।
अत्यप्रिये सुखमपि तथैव परमेश्वरः ॥
इति हि ब्राह्मे ॥ २० ॥
(६) सू— ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥
ष्टां' स्थितानां 'कश्चन' किंनिमित्तोऽपीत्यर्थः । किमु यथेष्टमित्यपेर-
र्थः । भविष्यत्पर्वणीत्यस्य स्मर्यत इत्यनेनान्वयः ॥
(४) लोक इत्येतदनुमानसूचक तया व्याख्याति— लोकसिद्धमि-
ति ॥ 'एतत्' अन्धे तमसि सुखराहित्यं लौकिकदृष्टान्तयुक्तानुमानसि-
द्धं चेत्यर्थः। न केवलं स्मृतिसिद्धमिति चार्थः। चेत्यनेन अपिः व्याख्या-
तः । अनुमानप्राबल्यहेतुस्मृतिसिद्धत्वसूचकतया चशब्दं व्याख्या-
ति— चशब्दादिति । न केवलं तमसः सुखराहित्यं श्रुतिसिद्धं, किन्तु
'लोकसिद्धिः' लौकिकदृष्टान्तवदनुमानेन तमसः सुखराहित्यसिद्धि-
रपि 'स्मार्ता' स्मृतिसिद्धेति चशब्दात् सूत्रकारः 'आह' सूचयती-
त्यर्थः । तथा च लोकसिद्धत्वं च स्मर्यत इति चशब्दान्वय इति भावः॥
(५) काऽसौ स्मृतिरित्यत आह— अतीति ॥ राजा यथा अतिप्रि-
ये पुरुषे क्वचित्कालेऽपि दुःखं न सहते, किन्तु सुखमेव । यथा चात्य-
प्रिये सुखं न सहते, किन्तु दुःखमेव, तथा परमेश्वरोऽपीत्यर्थः । अने-
न विप्रतिपन्नास्तामसाः न सुखित्वेन ईश्वरेणः अप्रियत्वादिति सूत्रकृ-
दभिप्रेतानुमाने पादद्वयेन राजप्रिये व्यतिरेकव्याप्तिः तृतीयेन तु राज-
विप्रियेऽन्वयव्याप्तिश्च दर्शिता भवति । अथवा— पूर्वे सदसज्जनानां
प्रकृतत्वात्तेषां प्रकृतिः स्वरूपमत्रोच्यते । न चासङ्गतिः । प्रियत्वाप्रिय-
त्वाभ्यां सदसज्जनेषु दुःखसुखासहने साध्ये अनुमानद्वयेऽप्यन्वयव्य-
तिरेकदृष्टान्तप्रदर्शनार्थत्वेन सङ्गतत्वात् । यद्यपि नानेनानुमानेन तमसः
सुखराहित्यसिद्धिः। तथाऽप्यनेन सिद्धेन सुखित्वेनेश्वरानिष्टत्वेन हेतु-
ना तामसानां सुखराहित्यसिद्धौ तमसस्तद्रहितत्वमपि सिद्ध्यतीति
तात्पर्यम् । इति हीति । हिशब्दो यत इत्यर्थे । तथा च ब्राह्मे पुराणव-
चने यत इत्युक्तं अतः चशब्दादित्युक्तं युक्तमित्यन्वयः ॥
(६) प्रत्यक्षेणाप्येतमर्थं साधयत्सूत्रमुपन्यस्य व्याचष्टे— दर्श-
नाच्चेति ॥ दर्शनवचनादित्यनेन दर्शनादित्येतद्दर्शनवचनादिति व्या-

[ अधि - १५. सू - २१. ] दीपिकासहितम्. ७२७
नारायणप्रसादेन समिद्धज्ञानचक्षुषा ।
अत्यन्तदुःखसंलीनान्निशेषसुखवर्जितान् ॥
नित्यमेव तथाभूतान्विमिश्रांश्च गणान् बहून् ।
निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥
अपश्यत्त्रिविधान्ब्रह्मा साक्षादेव चतुर्मुखः ।
ख्यातम् । अनेन हेत्वसिद्धिः परिहृता । पाद्मे दर्शनप्रतिपादकवचना
दित्यन्वयः । चशब्दस्तु न वचनान्वितः, किन्तु दर्शनान्वितः । तस्य
तमसः सुखराहित्ये साध्ये हिरण्यगर्भकर्तृकप्रत्यक्षाख्यहेतुसमुच्चयार्थ
त्वात् । सम्यग्दीप्तं दीप्तं समिद्धं, समृद्धमिति पाठे सम्यगभिवृद्धमि
त्यर्थः । समिद्धं च तत् ज्ञानचक्षुश्चेति विग्रहः । चक्षुर्हशिः । तथा च
चतुर्मुखो नारायणप्रसादेन समृद्धज्ञानचक्षुषा 'साक्षात्' परमुखमन्त
रेण स्वयमेव त्रिविधान् जीवानपश्यदित्यन्वयः । तानेव प्रकारिणो द
र्शयति—अत्यन्तेति । 'संलीनान्' मग्नान् । अनेन पादद्वयेन तमोयो
ग्याः सङ्गृहीताः । नित्यमेवेति पादद्वयेन नित्यसंसारिणः । 'तथाभूता
न्' मिश्रभूतान्। निरस्तेति पादद्वयेन मोक्षयोग्याः । जीवानिति शेषः ।
चौ परस्परसमुच्चये । अत्र तत्त्वप्रदीपे--'अपश्यत्त्रिविधान्ब्रह्म' इत्यु
क्तम् । त्रैविध्यं त्रिष्वपि तेषु नित्यदुःखिषु विमिश्रेषु नित्यसुखिषु च
अवान्तरभेदादवगन्तव्यम् । 'महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽ
धरम्' इति हि वक्ष्यति दुःखतारतम्येन भेदं तदायतनानाम् । विमि
श्रभेदस्तु अल्पसुखसममिश्राल्पदुःखभेदान्नारकिणो मानुषाः स्वर्गिण
इति । मनुष्योत्तमा ऋषिगन्धर्वा देवा इति मुक्तेषु नित्यसुखिषु च सु
खतारतम्याद्भेद उक्तः । एतेषु नित्यमेव तथाभूतत्वं च समानम् । वि
मिश्रेषु नित्यमतथाभाविनश्च सन्ति । स्वरूपस्थितमध्यम एव नित्यं
तथा भावात्सर्वेषां च जीवानां आस्वरूपावस्थानाद्विमिश्रत्वमेवेत्यनेक
शो विमिश्राः । अत एव तदाह--विमिश्रांश्च गणान्बहूनिति । तच्च
विमिश्रत्वमनन्तविधमिति सूचयति—विमिश्रानिति, इत्युक्तम् । अने
न त्रिविधानित्यस्य प्रत्येकं त्रिविधानित्यर्थः सूचितः । 'तदायतना
नां' नित्यदुःखस्थानानामित्यर्थः । विमिश्रभेदस्तु नारकिणो मानुषाः
स्वर्गिण इत्युक्त इत्यन्वयः। कथम्? अल्पसुखादिभेदात् । अल्पसुखमि
श्राः सुखदुःखसाम्येन मिश्राः अल्पदुःखमिश्राश्चेति भेदादित्यर्थः ।

७२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
इति दर्शनवचनाच्च पाद्मे ॥ २१ ॥
( ७ ) सू-ॐ ॥ तृतीये शब्दावरोधः संशोकजस्य ॥ ॐ ॥ २२ ॥
तृतीये तृतीयतमसः श्रवणादेव शब्दानुसारेण संशो
'नारकिणो' नरकप्रचुराः 'मानुषाः' भूप्रचुराः 'स्वर्गिणः' स्वर्गप्र
चुराः । भेदः उक्त इति । 'तत्र मन्दा मनुष्येषु' इत्यादिप्रमाणोक्त इ
त्यर्थः । 'एतेषु' त्रिषु तमोयोग्यादिषु नित्यमेव 'तथाभूतत्वं' स्वस्व
रूपावस्थितत्वम् । समानमित्यनेन नित्यमेव तथाभूतानित्येतत्त्रिविधा
नामपि विशेषणमिति सूचितम् । विमिश्रेषु नित्यमतथाभाविनश्च स
न्तीत्यनेन मुक्तियोग्यादीनां त्रयाणामपि विमिश्रत्वं सूचितम् । परं तु
मुक्तियोग्यतमोग्ययोः 'आस्वरूपावस्थानात्' स्वरूपाविर्भावपर्यन्त
मेव,

[ अधि - १५. सू - २३. ] दीपिकासहितम्. ७२९
कजमोहप्राप्तिः ॥ २२ ॥
(८) सू—ॐ ॥ स्मरणाच्च ॥ ॐ ॥ २३ ॥
महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् ।
श्रवणादेव मूर्छादिरधरस्य यतो भवेत् ॥
तस्मान्न विस्तरेणैतत्कथ्यते राजसत्तम । इति कौर्मे ॥ २३ ॥
-:*:–
न्ती मोहप्राप्तिरपि न सर्वेषामेकविधा, किन्तु स्वकारणश्रवणविषयव
क्तृशब्दानुसारेणेत्युक्तं भवति । तथा च तृतीयतमःस्वरूपप्रतिपादक
वक्तृशब्दविस्तारानुसारात्तदानुगुण्यादित्यर्थः । विस्तरस्तु व्याख्यान
सम्यग्व्याख्यानातिसम्यग्व्याख्यानादिरूपः । फलमपि सम्यग्व्याख्या
नेऽतिमूर्छेत्यादिरूपम् । तदुक्तिविस्तारानुसारेण मूर्छादि समासतो
व्यासतो वा भवतीति तत्त्वप्रदीपवाक्यस्य एकस्य द्वयोर्वा प्राप्तिस्स
मासः, सर्वेषां प्राप्तिर्व्यास इत्यर्थः। प्राप्तिरित्यनन्तरमतोऽपीत्यध्याहारे
ण न तृतीये सुखमिति प्रधानसाध्येनान्वयः । अनेन यतस्तृतीयतम
स्सु विषये तृतीये वक्तृशब्दानुसारात् संशोकजादेरवरोधः प्राप्तिर्भ
वति, अतश्च न तृतीये सुखमिति चशब्दानुषङ्गेण सूत्रयोजनान्तरमु
क्तं भवति ॥
(८) तृतीयतमःस्वरूपश्रवणे श्रोतृणां मोहप्राप्तिरित्येतत्कुतोऽवग
म्यते । यदन्यथाऽनुपपत्त्या तत्र सुखाभावावगम इत्याशङ्कां स्मृत्या प
रिहरत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—स्मरणाच्चेति ॥ अत्र चश
ब्दो नाक्षेपकस्यासिद्धिरिति साध्यसमुच्चायकः । तस्येति शेषः । तथा
च तस्य तृतीये शब्दाद्यरोधस्य स्मरणाच्चार्थापत्तावाक्षेपकस्यासिद्धिborder/रि
ति सूत्रार्थः । स्मृतौ 'महातमः' अन्धतामिस्राख्यम् । 'अधरस्य' त
मसः शब्दश्रवणेन तस्मान्निमित्ताच्छ्रोतृणां मूर्छादि भवेदित्यर्थः । आ
दिशब्दाट्टीकारीत्याऽतिमूर्छादि ग्राह्यं, तत्त्वप्रदीपरीत्या तु उन्मादमर
णयोर्ग्रह्णम् । 'विस्तरेण' सम्यग्व्याख्यानेन 'एतत्' अन्धतमसः,
विस्तारो न क्रियत इति यावत् । राजसत्तमेति कस्य चित्सम्बुद्धिः ।
कौर्मे स्मरणादित्यन्वयः ॥ १५ ॥
॥ इति न तृतीयाधिकरणम् ॥
— * —
९२

७३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
१६. अधिकरणम् ॥
( १ ) ‘ धूमो भूत्वाऽभ्रं भवति ’ ( छा. ५-१०-५. ) इत्याद्यन्य-
भावः श्रूयते । स कथमिति ।
( २ ) अतो ब्रवीति—
सू—ॐ ॥ तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ॐ ॥ २४ ॥
धूमादिषु प्रविश्य तद्गतौ गतिस्तत्स्थितौ स्थितिरित्या
१६. अधिकरणम् ॥
( १ ) अत्राधिकरणे कर्मिणो धूमादिभावो निवार्यते । तत्र विषयं
दर्शयति—धूम इति ॥ इत्यादीति लुप्तविभक्तिकम् । तथा च छन्दोग-
श्रुतौ काषायणश्रुतौ च ‘ धूमो भूत्वा ’ इत्यादौ धूमादिदेवताभ्योऽन्य-
स्य कर्मिणो धूमादिदेवताभावः श्रूयत इत्यर्थः । अनेन धूमादिदेवता-
भावाख्यविषयो दर्शितः । सन्देहप्रकारं दर्शयति—स इति । धूमादि-
भावः ‘ कथं ’ किं प्रकारः किं कर्मिणो धूमादिदेवैक्यं ? किं वा तत्प-
दप्राप्तिः ? प्रकारान्तरं वेत्यर्थः ॥
( २ ) धूमादिदेवैक्यं तत्पदप्राप्तिर्वा धूमादिभाव इति पूर्वपक्ष-
स्य अन्यभावः प्रतीयते इत्यनेनैव प्रदर्शितत्वात्तमप्रदर्श्य सिद्धान्तपरंसू-
त्रमवतार्य व्याचष्टे—अत इति ॥ धूमादिष्विति । धूमादिदेवतादेहेष्वि-
त्यर्थः । कर्मणि सप्तमी । ‘ तद्गतौ ’ धूमादिगतौ । स्थितावित्यत्रापि त-
च्छब्दान्वयः । आदिशब्दाल्लघुत्वं अन्यदेहाविग्रहवत्तद्देह एवाभिमा-
नः पृथगभिमानाभावश्च गृह्यते । ‘ तद्भावापत्तिः ’ तत्स्वभावापत्तिः ।
तथा च तत्स्वभावैकदेशसादृश्यनिबन्धनो गौणोऽयं निर्देश इति भा-
वः । यद्वा—आदिशब्देन स्थानैक्यं गृह्यते । तेन लाक्षणिकोऽयं प्रयोग
इति सूचयति । एवं टीकाभिप्रेतं तदधीनत्वनिमित्तं च आदिपदार्थत-
या ग्राह्यम् । अत एव स्मृतौ ‘ ब्रह्मेदं जगदित्यपि ’ इति दृष्टान्तोक्तिः ।
अन्यथाऽसङ्गतेः । अस्मिन् पक्षे श्रौतनिर्देशो मुख्यः । अनेन सूत्रे तत्त्व-
प्रदीपोक्तरीत्या गजमुख इतिवत्तस्य धूमादेः स्वभावपदोक्तधर्मसदृशः
स्वभावो यस्य सः तत्स्वभावः, तस्य भावः तत्स्वाभाव्यम्, तस्याप-
त्तिरिति विग्रहः । लाक्षणिकत्वपक्षे तस्य स्वभावस्य तद्देहस्थितत्व-
स्यापत्तिरिति विग्रहः । मुख्यत्वपक्षे तदधीनस्वभावस्यापत्तिरिति ।
पक्षद्वयेऽपि स्वार्थे ष्यञ् । तथा च ‘ तस्यां ’ ‘ धूमो भूत्वा ’ इति श्रुतौ
श्रुता ‘ तद्भावापत्तिः ’ धूमादिभावप्राप्तिर्नाम तत्स्वाभाव्यापत्तिरेव, न

[ अधि - १६. सू - २४. ] दीपिकासहितम्. ७३१
दिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते ।
न च तत्पदप्राप्तिः ।
( ३ ) गारुडे च —
धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु ।
स्थितौ स्थितिः प्रदेशश्च लघुत्वादिस्तथैव च ॥
न ह्यन्यस्यान्यथाभावो न च तत्पद्मिष्यते ।
विद्यागम्यं पदं यस्मान्न तत्प्राप्यं हि कर्मणा ॥
( ४ ) एकदेशस्वभावेन वागभेदाऽपि युज्यते ।
त्वैक्यम्, तत्पदप्राप्तिर्वेति प्रतिज्ञार्थ उक्तो भवति । कुतोऽर्थोऽयं श्रुतेः
स्यादित्यतः प्रवृत्तमुपपत्तेरिति हेतुं व्याचष्टे—न हीति । हिशब्दो य-
स्मादित्यर्थे । 'अन्यस्य' कर्मिणः 'अन्यभावो' धूमादिभावः । कुतो
नेत्यतोऽप्याह—न हीति । दृश्यत इति शेषः । तत्प

७३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि ॥ इति ॥ २४ ॥
१७. अधिकरणम् ॥
(१) बहुस्थानगमनात्कल्पान्तमप्येवं स्यादिति ।
यथोक्तं तत्त्वप्रदीपे—भेदरहिता वागिति । केचित्तु—अर्शआद्यजन्तो
ऽयं शब्द इत्याहुः । अपिर्निमित्तान्तरसमुच्चये । पूर्वपादेनान्वेति । न
न्वदर्शनादयुक्तोऽयमर्थ इत्यत एकदेशसादृश्येनाभेदप्रयोगं दर्शयति—
यथेति । 'तत्त्वमसि' (छा.६-८-७.) इत्यादावित्यर्थः । श्रुतियुक्त्यनुभ
वसम्प्रतिपत्तिबलादयं दृष्टान्त उपात्तः । यत्प्राक्सूचितं तदधीनत्वाद्
प्ययं प्रयोग इति, तत्र दृष्टान्तमाह—ब्रह्मेदमिति । 'सर्वं खल्विदं ब्रह्म'
(छा.३-१४-१.) इत्यादावित्यर्थः । सर्वस्य ब्रह्माधीनत्वादयं व्यपदेशः।
यद्वा—तद्गुणसारत्वादित्यत्रोक्तदिशाऽयमपि दृष्टान्तः सकलजगद्गुण
सदृशगुणात्मकत्वेन ब्रह्म जगदित्युच्यत इति सादृश्यनिमित्तक एव
योजनीयः । अपिर्दृष्टान्तसमुच्चये ॥ १६ ॥
॥ इति तत्स्वाभाव्याधिकरणम् ॥
१७. अधिकरणम् ॥
(१) अत्राधिकरणे स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासा
दिप्राप्तिः समर्थ्यते । तत्र कर्मी स्वर्गान्निर्गतश्चिरेणैव देहं प्राप्नोतीति पू
र्वपक्षप्रतिज्ञाया नातिचिरेणेति सूत्रांशेन ज्ञापितत्वात्तमप्रदर्श्य तद्धेतुं
दर्शयति—बहुस्थानेति ॥ गमनं प्राप्तिः । तेन च तच्छ्रवणमुपलक्ष्यते ।
तथा च 'यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति' (छा.
५-१०-५.) इत्यादौ कर्मिणो बहुस्थानप्राप्तिश्रवणादित्यर्थः । बहुस्थानग
मनं च नाचिरेण सम्भवति । तत्र तत्र तत्स्वाभाव्येनातिमहासुखे च
सम्भवति तद्विहायागमने प्रयोजनाभावात्। अतस्तदन्यथानुपपत्त्याऽऽ
गतौ विलम्बोऽङ्गीकार्य इति भावः । तावता स्वर्गादागमने विलम्बः
कुत इत्यत आह—कल्पान्तमिति । ब्रह्मकल्पपर्यन्तमित्यर्थः । 'एवं'
तत्तद्देवतास्वाभाव्यं 'स्यात्' असकृदनुष्ठितयज्ञस्य मध्ये मार्गमिति
भावः । सदेत्यनुक्त्वा कल्पान्तमित्यवध्युक्तिः कल्पावसाने देवानां प
दपर्यवसानादित्यभिप्रायेण ॥