पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 760, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - ११० ] दीपिकासहितम्. ७१३
( ३ ) सू—ॐ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ॐ ॥ ११ ॥
तर्हि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्यान-
र्थक्यमिति चेत्—
( ४ ) न, चरणापेक्षत्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोप-
पत्तेः ॥ ११ ॥
( ३ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे-
आनर्थक्यमिति ॥ तर्हीत्युक्ते यदीति लभ्यते । यज्ञादीत्यादिकमत्रापि
सम्बध्यते । तथा च यदि 'रमणीयचरणाः' (छा. ५-१०-७.) इत्यादिषु
तिर्यज्ञाद्युपलक्षणार्था, तर्हि श्रुतौ चरणशब्दस्य 'आनर्थक्यं' तत्प्रयोग
वैयर्थ्यम्, किन्तु रमणीयाः कपूया इत्येव प्रयोज्यं स्यात् न तु चरण
शब्दोऽपीत्यर्थः । यज्ञाधिकारिणां पूर्वे प्रकृतत्वेन ये यज्ञाधिकारिणो र-
मणीयाः कपूयाश्चेति रमणीयकपूयपदाभ्यामेव यज्ञाद्युपलक्षणसम्भ-
वात् 'चरणशब्दानर्थक्यं' तच्च न युक्तमिति भावः ॥
( ४ ) परिहारांशं व्याचष्टे—नेति ॥ वैयर्थ्यप्रसङ्गादुपलक्षकत्वमेव ना-
स्तीति पक्षो नेत्यर्थः । तथा सति 'इष्टापूर्ते मन्यमानाः' (मु. १-२-१०.)
'त्रैविद्याः' इत्यागमविरोधः स्यादिति भावः। यद्वा-उपलक्षणत्वमङ्गीकृ-
त्य पदान्तरेणाप्युपलक्षणसम्भवाच्चरणपदेनैवोपलक्षणे किं प्रयोजनं, न
किमपीति पक्षो नेत्यर्थः । कुतो नेत्यतश्चरणपदसार्थक्यौपपादकतया
तदपेक्षत्वादित्येतद्योजयति—चरणापेक्षत्वादिति । 'रमणीयत्वादेः'
साध्वसाधुयज्ञादिमत्त्वस्य चरणापेक्षत्वात् स्नानाचमनाद्याचारापेक्ष-
त्वादित्यर्थः । ततः किमित्यत आह—तदिति । तदित्यावर्तते । सार्थ-
क्येत्युपस्कार्यम् । एवं सूत्रेऽपि । तस्य रमणीयत्वादेर्ज्ञापनमर्थः प्रयो-
जनं यस्य तस्य भावस्तत्त्वं तेनेति विग्रहः । इत्थंभूतलक्षणे तृतीया ।
तथा च रमणीयचरणत्वेन ये साधवो यज्ञादिकृतः 'ते रमणीया'
इति श्रुतियोजनायां तेषां यज्ञाधिकारिणामपि रमणीयकपूयाचाराभ्या-
मेतद्रमणीयत्वादि इति ज्ञापनार्थत्वेन तस्य चरणशब्दस्य सार्थक्यौपप-
त्तेरिति योजना । अनेन — यदि चरणादिश्रुतिर्यज्ञाद्युपलक्षणार्था,
तर्हि चरणशब्दस्यानर्थक्यं, रमणीयकपूयपदाभ्यामेव केवलाभ्यां य-
ज्ञाद्युपलक्षणसम्भवादिति चेन्न, कुतः ? 'तदपेक्षत्वात्' तस्य यज्ञादे-
स्तस्य रमणीयत्वादेस्तदपेक्षत्वात्साध्वसाध्वाचारापेक्षत्वात् । ततश्च
तेषां यज्ञादिकृतां रमणीयकपूयाचाराभ्यामेव रमणीयत्वादि नान्यत
९०