सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 768, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 768

[ अधि - १३. सू - १७. ] दीपिकासहितम्. ७२१
( ३ ) 'स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृ
देक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्वं
पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद'
इति पौत्रायणश्रुतेरविरोधः ।
( ४ ) नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥
नुभवेन 'तद्व्यापारात्' तस्येश्वरस्य प्रेरणाख्यव्यापाराभ्युपगमात्
श्रुतियुक्तिविरोधाभाव इति सूत्रार्थः ॥
( ३ ) भवेदयमुभयविरोधाभावो यद्यस्यार्थस्य प्रामाणिकत्वं स्या
त्, तदेव कुत इत्यत आह—स इति ॥ इति श्रुतेरित्यस्य न सन्निहिते
नाविरोधपदेनान्वयः, किं त्वदुःखेन । तद्व्यापारादित्यस्य नासिद्धिरी-
त्युपस्कृतसाध्येन, अस्य चाविरोध इत्यनेनान्वयः । अविरोधः नरके
दुःखमङ्गीकृत्य ईश्वरस्य नारकिप्रेरकत्वपक्षोक्तदोषो नेत्यर्थः ।
प्रेरकत्वमङ्गीकृत्य तत्र दुःखाननुभवेन तत्रोक्तदोषपरिहारादिति
भावः । 'सः' ईश्वरः स्वर्गादावनुविष्टस्सन् एक एव स्वतः प्रवृत्ति
कृदित्यर्थः । ननु स्वर्गनरकादौ जीवेन सहावस्थानात्तद्वदीश्वरस्यापि
तत्तद्गतसुखदुःखभोगः स्यादित्यत आह—नेति । 'असौ' ईश्वरः । ने
त्यत्र हेतुः—प्रभुत्वादिति । तथा त्वे असार्वज्ञ्यं स्यात् यतो दुःखाभो
गो दुःखानुभव इत्यत उक्तम्—सर्वं पश्यतीति । तत्र हेतुः—सर्वं
कारयतीति । कैमुत्यन्यायेनेश्वरस्य दुःखाभोगमाह—नेति । य एवं वे
दासावधिकार्यपि न दुःखभुक्, किमीश्वर इत्यर्थः ॥
( ४ ) सर्वं पश्यतीत्युक्तार्थे स्मृतिं चाह—नरकेऽपीति ॥ तर्हि
सर्वज्ञस्य कथं दुःखाभोगः, अनुभवस्यैव भोगत्वादित्यत आह—नी
चेति ।
अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ ।
तदेव सुमहत्तेजः करोति भगवान् महत् ॥
इति बृहद्भाष्योक्तदिशा तूलपिण्डस्येव स्वरूपसङ्कोचविकासावेव दुः
खादेर्भोग इत्युच्यते, न तत्साक्षात्कारमात्रमित्यर्थः । न च
तद्गतानां तु भोगानां भोगोऽभिमतिरुच्यते ।
तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ॥
इति गीतातत्पर्यवचनविरोधः । तथा भोगोऽनुभवः स्वीयतया साक्षा
९१