पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
४४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पां - १. ]
( ३) सू—ॐ ॥ अधिकं तु भेदनिर्देशात् ॥ ॐ ॥ २३ ॥
न च ब्रह्मणः श्रमचिन्तादिदोषप्राप्तिः, अधिकशक्तित्वात्,
'श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता सर्वेषां भूता
नामन्तरपुरुषः' (ऐ. आ. ३-२-४.) 'एष त आत्मा
विनेव हिताकरणादेरभावाख्यदोषप्रसङ्ग इति व्याचख्युः । अत्र पक्षे
यद्यपि भाष्यटीकयोरानुगुण्यमस्ति, प्रामाणिकपरित्यागरूपत्वादानिष्ट
ता च । तथाऽपि अन्यथा हिताकरणादयो दोषाः प्रसज्येरन्निति तत्त्व
प्रदीपो विरुद्धयत इति ध्येयम् । अनेन—सूत्रे 'अस्मद्व्यपदेशात्' इति
सूत्राच्चेदित्यनुवर्तते । स च यद्यर्थे। तत एव तर्हीति लभ्यते । तथोच्य
त इति तस्येति शेषः । इतरशब्दश्च प्रस्तुतब्रह्मकर्तृत्वान्यजीवकर्तृत्वा
र्थकः । अनुषक्तनञ्शिरस्केन हितेत्यादिना भिन्नपदेनोक्तस्य हिताकर
णमहितकरणं च न स्यादित्यापाद्यस्य विपक्षे बाधकापाद्यान्तरसमर्प
णाय हितेत्यादिसमस्तम् । तत्रापाद्यस्यानिष्टत्वज्ञापनाय दोषपदम् ।
हिताकरणादयश्च ते दोषाश्च तेषां प्रसक्तिरिति विग्रहः । हितशब्देना
त्मनः सौमनस्यकरं गृह्यते । अहितशब्देन जन्ममरणाद्यनर्थजालं गृ
ह्यते । तथा च 'इतरव्यपदेशात्' इतरस्य जीवकर्तृत्वस्य 'जीवाद्ध
वन्ति' इत्यादिश्रुत्युक्तत्वात्साक्ष्यनुभवसिद्धत्वाच्चेद्यदि 'तथोच्यते'
जीवः स्वतन्त्रकर्तेत्युच्यते तर्हि तस्य न हिताकरणादिस्स्यात् हिता
करणमहितकरणं च न स्यादन्यथाऽपरिहार्यत्वात्तस्मिन् हिताकरणा
द्विदोषाः प्रसज्येरन् स्वतन्त्रकर्तरि तेषामयोगादिति भावः, विद्यन्ते
च ते जीवे अतो न जीवः स्वतन्त्रकर्ता, किन्तु परमेश्वर एवेति सूत्रा
र्थे उक्तो भवति ॥
(३) यदि यत्किञ्चिद्दोषमात्रेण जीवकर्तृता निराक्रियते, तर्हि ब्र
ह्मणोऽपि कर्तृत्वं न प्राप्नोति, तस्यापि श्रमादिदोषनियमात् । एवं च
पक्षयोः साम्ये सत्यनुभवश्रुतिसिद्धजीवकर्तृत्वमेवाश्रयणीयमित्याश
ङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अधिकमिति ॥ न चेत्यनेन सूत्रे
नेत्यस्य तस्येत्यस्य दोषप्रसक्तिरित्यस्य चानुषङ्गः सूचितः । श्रमचि
न्तादीत्यादिपदेन साधनास्मरणदुःखादिदोषाः गृह्यन्ते । हिताक्रिया
देः ब्रह्मण्यनुभवसिद्धत्वाभावादग्रहणम् । यद्वा—ब्रह्मणो जीवसाम्य
व्यावर्तकेन तुशब्देनायमर्थः सूचित इति नानुषङ्गादि । कुतो न दोष
प्राप्तिरित्यतस्तत्र हेतुत्वेन अधिकमित्येतद्व्याचष्टे—अधिकेति । अस्य
[ अधि - ७. सू - २४. ] दीपिकासहितम्. ४५९
सर्वान्तरः' (बृ. ५-५-१०.) 'योऽशनायापिपासे शोकं
मोहं जरां मृत्युमत्येति' (बृ. ५-५-१०) इत्यादि विशेष
निर्देशात् ॥ २३ ॥
(४) सू— ॐ ॥ अश्मादिवच्च तदनुपपत्तिः ॥ ॐ ॥ २४ ॥
चेतनत्वेऽप्यश्मादिवदस्वतन्त्रत्वात् स्वतः कर्तृत्वानु
पपत्तिर्जीवस्य ।
तात्पर्यार्थो निर्दोषगुणपरिपूर्णहेयोपादेयरहितत्वादिति तत्त्वप्रदीपे अभि
हितः। न च हेत्वसिद्धिरित्यत्र हेतुः-भेदनिर्देशादिति, तद्यथाएष-श्रो
तेति । इत्यादीत्यविभक्तिको निर्देशः । इत्यादावित्यर्थः। आदिशब्देन
'य आत्माऽपहतपाप्मा' (छां.८-१-५०) इत्यादि गृह्यते । विशेषोऽतिशय
इति भेदशब्दार्थोक्तिः । स च विशेषोऽखिलश्रोतृत्वान्तर्यामित्वोशना
याद्यतीत
(५) यथा दारुमयीं योषां नरः स्थिरसमाहितः ।
इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥
इति च भारते ॥ २४ ॥
(६) सू-ॐ ॥ उपसंहारदर्शनान्नेति चेत्क्षीरवद्धि ॥ ॐ ॥ २५ ॥
जीवेन कार्योपसंहारदर्शनात्तस्य कर्तृत्वमिति चेत्-
न, यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते ।
या वैपरीत्यानुपपत्तेरिति भावः ॥
(५) अस्वातन्त्र्यहेतोरसिद्धिमाशङ्क्याह—यथेति ॥ यद्वा—सू-
त्रार्थे स्मृतिसम्मतिमाह—यथेति । स्थिरसमाहित इति बहुव्रीहिः,
भावे क्तः । स्थिरशब्देनाचाञ्चल्यमुच्यते । समाधानं मनःप्रणिधानम् ।
इङ्गनसाधनविषयकयथार्थज्ञानं कर्तरि क्तः कर्मधारयो वा । तथा
च यथा 'स्थिरसमाहितो' मनश्चाञ्चल्यं विना स्वकार्यसमाधा-
नवान् नरो 'दारुमयीं योषां' दार्वात्मकस्त्रीप्रतिमां
( ७) अन्नं रसादिरूपेण प्राणः परिणयत्यसौ ।
इति वचनात् । एवं जीवे दृश्यमानोऽपि कार्योपसंहा-
रोऽस्वातन्त्र्यात्परकृत एव ।
( ८) य आत्मानमन्तरोऽयमयति ।
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः । इत्यादेः॥२५॥
( ९) सू—ॐ ॥ देवादिवदपि लोके ॥ ॐ ॥ २६ ॥
न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्य-
ह्येवकारार्थः ॥
(७) कुतः प्राणाधारत्वं क्षीरस्येत्यतो हीति सूचितां स्मृतिं दर्श-
यति—अन्नमिति ॥ भुक्तं वस्त्वित्यर्थः । 'असौ' सर्वशरीरप्रेरकत्वेन
प्रसिद्धः । क्षीरवदित्यनेन लब्धं दार्ष्टान्तिकं दर्शयति—एवमिति । दृ-
श्यमान इति । स्वेनानुभूयमानोऽन्यैर्दृश्यमानश्च कार्योपसंहारः 'परमे-
श्वरकृतः' तन्नि
४५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
त्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी श
किर्दृष्टा किम्बीश्वरस्य
( १० ) न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् ।
विरोध एव वाक्यानां युक्तयो न तु युक्तयः ॥
इति बृहत्संहितायाम् ॥ २६ ॥
( ११ ) सू—ॐ ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ ॐ ॥२७॥
लब्धिरितिचेन्न । ईश्वरस्यापि देवादिवददृश्यत्वशक्तियोगात् । अदृ-
र्शनानुकूलान्तर्धानशक्तियुक्तत्वात्ततोऽप्यदृष्टियोगदित्यावृत्त्या योज-
ना । ईश्वरस्यादृश्यत्वशक्तिमत्त्वमेव कुत इत्यतः प्रवृत्तेन अपिलोक इ-
त्यनेन सूचितं कैमुत्तिकन्यायं दर्शयति—लोकेऽपीति । अपिशब्दः पि-
शाचादीनामपीति भिन्नक्रमः कैमुत्यार्थो विशेषणान्तरसमुच्चयार्थश्च ।
तथा च 'लोके' जगत्यनीश्वराणां लौकिकानामपि पिशाचादीनां 'ए-
तादृशी' अदृश्यत्वानुकूला 'शक्तिः' अन्तर्धानसामर्थ्यं दृष्टं, ईश्वरस्य
तादृशी शक्तिरस्तीति किमु वक्तव्यमित्यर्थः । तथा च नोक्तहेत्वसि-
द्धिरिति भावः ॥
(१०) यदभिप्रेतं श्रुतिसिद्धः परमेश्वरो नानुलब्ध्या निराकार्य
इति, तत्रार्थे स्मार्तं चाह—नेति ॥ ॥ 'वाक्यानि' श्रुतिस्मृतिरूपाणि
'युक्तियोगात्' युक्तिलक्षणोपायात् 'क्वचिदपि' विषये न प्रमाणत-
याऽसाधकत्या वा निराकार्याणीत्यर्थः । विरोधे सति कथं निर्णय इ-
त्यत आह—विरोध इति । युक्तीनां जात इति शेषः । तथा च 'वा-
क्यानां विरोधे' तन्निरूपितविरोधे युक्तीनां 'जाते' प्रतीते सति ता
युक्तय एव 'न युक्तयो' न सद्युक्तयः किं त्वाभासा एवेत्यर्थः । यद्वा-
वाक्यानां परस्परविरोधे सति ता युक्तयः एकवाक्यानुसारिन्याया
एवार्थसाधकाः, न तु शुष्कयुक्तय इत्यध्याहारेणान्वयः । बृहत्संहिता-
यामित्यस्योक्तत्वाच्च न विरोध इति शेषेण पूर्वेणान्वयः ॥
(११) युक्त्यन्तरेण जीवस्य स्वतः कर्तृत्वं निराकुर्वत्सूत्रमुपन्य-
स्यति-कृत्स्नेति ॥ अत्र कस्मिन् पक्षेऽयं दोष उच्यते इति न ज्ञायते, गु-
णसूत्रत्वात् जीवकर्तृत्वपक्ष इति सिद्धेऽपि तत्र हिताक्रियादिदोषस्यो-
क्तत्वादोषान्तरत्वज्ञापकचशब्दाभावाच्च अनुपपत्तिरेवेत्याशङ्कां परिह-
रन्सूत्रं व्याचष्टे—अयं चेति । न केवलं हिताक्रियादिदोषो जीवस्य
स्वतःकर्तृत्वपक्षे, किन्त्वयं वक्ष्यमाणश्च प्रसज्यत इति समुच्चये च
[ अधि - ७. सू - २७. ] दीपिकासहितम्. ४५३
अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण
प्रवर्तमानोऽपि पूर्णप्रवृत्तिस्स्यात् । न च तद्युज्यते, सा-
मर्थ्यैकदेशदर्शनात् ।
( १२ ) न चैकदेशेन, निरवयवत्वात् । 'अथ यस्स जीवः स
नित्यो निरवयवो ज्ञाताऽज्ञाता सुखी दुःखी शरीरेन्द्रिय-
स्थः' इति भाल्लवेयश्रुतिः ।
शब्दः । अनेन सूत्रे इतरव्यपदेशादिति चेत्तर्हि न केवलं हिताकरणा-
दिदोषप्रसक्तिः, किन्तु कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वेति दोष-
स्य च प्रसक्तिरिति प्रधानसूत्रगतापादकानुवृत्त्या चशब्दानुषङ्गेण च
सूत्रयोजना कार्येति सूचितम् । यद्यपि जीवकर्तृत्वपक्षे इति प्रागुक्त-
त्वादत्र न वाच्यम् । तथाऽपि बहुव्यवहितत्वात्तत्स्मारणाय पुनरुक्तिः।
सूत्रे वाशब्देन किं जीवः सर्वकार्येषु सर्वसामर्थ्येन प्रवर्तते, उतांशेने-
ति विकल्पमुखेन दोषापादनस्य सूचितत्वात्तदनुसारेणाद्यपक्षे कृत्स्न-
प्रसक्तिरित्यनेनोक्तं दोषं विवृणोति—एकेनेति । सजातीयाङ्गुल्यन्तर-
व्यावृत्त्यर्थमेतत् । विजातीयहस्तादिव्यावर्तनाय मात्रपदम् । प्रवर्तमा-
नस्तृणादानादाविति शेषः । तेनापेरन्वयः । अल्पकार्येऽपीति वा न के-
वलं सर्वाकारेण प्रवर्तमान इति वा अपेरर्थः । जीव इति बुद्ध्या विवे-
केनात्र सम्बध्यते । 'पूर्णप्रवृत्तिः' पूर्णशक्त्या प्रवृत्तिमान् स्यादित्यर्थः ।
प्रसङ्गत्वद्योतनाय स्यादिति । न च स्यादेवमित्याह — न चेति । त-
त्र पूर्णशक्त्याऽप्रवर्तनं कुत इत्यत आह—सामर्थ्येति । जीवस्य कार्ये-
षु स्वरूपसामर्थ्यांशेन प्रवृत्त्यनुभवादित्यर्थः । तथा चापाद्याभ्युपगमे
ऽनुभवविरोधः स्यादिति भावः ॥
( १२ ) अथ द्वितीयपक्षमनूद्य दूषयति—न चेति ॥ नापि जीवः
स्वसामर्थ्यैकदेशेन तत्तत्कार्येषु प्रवर्तेत इत्यर्थः । कुतो नेत्यतस्तत्र नि-
रवयवत्वादिति हेतुमध्याहृत्य योजयति—निरवयवत्वादिति । निरंश-
त्वादित्यर्थः । जीवस्येति शेषः। निरवयवत्वानङ्गीकारे बाधकोपन्यासा-
य प्राप्तं निरवयवत्वशब्दकोप इत्यंशं तच्छ्रुत्युदाहरणेन विवृणोति—
अथेति । अथेत्यतः प्राक् तदनङ्गीकार इति ग्राह्यम् । श्रुतिरित्त्यनन्तरं
व्याकुप्यत इति शेषः । श्रुतावथेत्यर्थान्तरे । य एवंभूतः स जीव इत्यु-
च्यते । 'सः' जीवो नित्यो निरवयव इत्यादिका योजना, तच्छब्दद्वय
४५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
( १३ ) न चोपाधिकृतांशः स एवांश उपहित इति, द्वित्वापे
क्षत्वात् ॥
श्रवणात् । यो जीवः स नित्यः सः निरवयव इति सर्वत्र तच्छब्दान्व
येन वा योजना । 'शरीरेन्द्रियस्थः' तदधिष्ठाता ॥
( १३ ) ननु एकदेशेनेति द्वितीयपक्ष एवाश्रीयते । न च निरवयव
त्वोक्तिविरोधः । अंशानामौपाधिकत्वाभ्युपगमात्, श्रुतेश्च स्वाभावि
कांशनिषेधविषयत्वादित्याशङ्कयासम्बद्धोपाधेरंशकारकत्वे अतिप्रस
ङ्गात् सम्बद्धस्यैव तत्त्वे वाच्ये उपाधिसम्बद्धत्वं किं समग्रजीवस्यो
त तदंशस्येति विकल्प्य नाद्य इत्याह—न चेति ॥ उपाधिकृतांश इति
बहुव्रीहिः । उपाधिकृतोऽम्शो यस्येति । उपहित इत्यावर्तते नेति च ।
तथा च यः श्रुत्युक्तः समग्र एव जीवः 'उपहितः' उपाधिना ग्रस्तः
न त्वंश इति न । कुतो ? यतस्तर्हि स उपाधिकृताऽम्शो न भवेदिति
योजना । सर्वस्य जीवस्योपाधिना ग्रस्तत्वेन पुनस्तस्य तत्कृतांशत्वा
सम्भवादिति भावः । द्वितीयं निराकरोति—अंश इति । न चेत्यनुवर्त
ते । 'अंश उपहितः' उपाधिना ग्रस्त इत्यपि पक्षो नेत्यर्थः । कुत इ
त्यत आह—द्वित्वेति । उपाधिसम्बन्धार्थं स्वाभाविकांशद्वित्वस्या
पेक्षितत्वादिति भावः । सर्वत्रोपहितानुपहितद्विरूपमपेक्ष्यैवोपाधेः प्र
वृत्तेस्तदर्थं स्वाभाविकांशद्वयाभ्युपगमे निरंशत्वश्रुतिविरोधः । तस्या
प्यौपाधिकत्वेऽनवस्था स्यादिति भावः । अनेन—किं जीवः सर्वकार्ये
षु सर्वसामर्थ्येन प्रवर्तते ? उतांशेन ? नाद्यः, यतः 'कृत्स्नप्रसक्तिः'
तथा सति जीवस्य सर्वत्रापि पूर्णशक्त्या प्रवृत्तिप्रसङ्गः । न द्वितीयः
निरवयवत्वात् । अंशाङ्गीकारे च निरवयवत्वशब्दकोपो वेति निरंश
त्वश्रुतिविरोधः स्यात् । तथा च कर्तृत्वस्य कृत्स्नैकदेशाभ्यां व्याप्त
या व्यापकयोस्तयोर्निवृत्त्या व्याप्यं कर्तृत्वमपि जीवाद्यावर्तेत इति
न जीवः स्वतन्त्रकर्तेति भावः । न च सामर्थ्यस्य विचित्रत्वेऽपि न
जीवस्य निरवयवत्वोक्तिर्विरुध्यते । तस्य तद्भिन्नत्वादिति वाच्यम् ।
तत्सामर्थ्यस्य तदभिन्नत्वात् । उक्तं हि सुधायाम्—न हि सामर्थ्याप
रपर्यायं कर्तृत्वं जीवाद्भिन्नमिति । एवं जीवस्योपाधिकृतांशाभ्युपगमे
'कृत्स्नप्रसक्तिः' उपाधेः सर्वजीवसम्बन्धः स्यात् । तथा चोपाधिना
ग्रस्तस्योपाधिकृतांशस्य च भेदो न स्यात् । अंशसम्बन्धेऽपि निरव
यवत्वश्रुतिविरोध इति द्वेधा सूत्रवृत्तिर्दर्शिता भवति । यद्यपि कृत्स्न
[ अधि - ८. सू - २८. ] दीपिकासहितम्. ४५५
(१४) न चान्यत्कल्प्यम् । 'यद्धि युक्त्या विरुद्ध्येत तदीश
कृतमेव हि' इति गत्यन्तरोक्तेः ॥ २७ ॥
-::--
८. अधिकरणम् ॥
(१) सू-ॐ ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ ॐ ॥ २८ ॥
प्रसक्त्यादिदोषोऽप्यादिशब्देन ग्रहीतुं शक्यत इति नेदं सूत्रं पृथक्कर्त
व्यम् । तथाऽपि हिताक्रियादिदोषापेक्षया बहूपपत्त्या निराकार्यत्वात्
पृथक्करणं युक्तम् । अत एव भाष्ये न चेत्यादिग्रन्थः प्रवृत्तः ॥
(१४) तर्हि एतज्जीवस्य कर्तृत्वं युक्तिविरुद्धत्वादविचारितरमणी
याविद्यानिमित्तमस्तु इत्यत आह— न चेति ॥ 'अन्यत्' अनिर्वाच्या
विद्यानिमित्तं जीवकर्तृत्वं न कल्प्यमेवेत्यर्थः अप्रामाणिकत्वात्तेन नि
र्वाहाभावाच्चेति भावः । तर्हि युक्तिविरोधपरिहारोपायाभावान्न जीव-
कर्तृत्वमित्यत आह— यद्धीति । आद्यो हिशब्दो वस्तुनः प्रतीतत्वमा
ह । द्वितीयोऽस्यार्थस्य न्यायसिद्धतां वक्ति । तथा च यत्प्रतीतमपि गु
णादिकं वस्तु युक्त्या 'विरुद्ध्येत' विरुद्ध्यते । 'तदीशकृतं' ईशाधी
नमेव कल्प्यम्, न त्वप्रामाणिकाविद्यानिमित्तमित्यर्थः । इतीति । इति
न्यायसूचकवचनेनेत्यर्थः । गत्यन्तरोक्तेरिति । अन्या गतिर्गत्यन्तरम् ।
तथा च जीवकर्तृत्वे प्रमिते तत्र युक्तिविरोधपरिहारस्य ईश्वराधीन
त्वाख्योपायान्तरोक्तेरित्यर्थः । उक्तेरित्यस्य न चेत्यनेनान्वयः । न चे
श्वराधीनत्वमात्रेण कथं जीवकर्तृत्वस्य युक्तिविरुद्धतापरिहार इ
ति वाच्यम् । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकः चै
तन्यमवच्छेदकं विधाय विशेषान्निमित्तीकृत्य विरुद्धेऽप्यभेदबहुत्वे एक
त्र समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रस
क्तिं न्यक्कृत्य जीवस्य कार्यानुरूपसामर्थ्यविशेषं योजयन् जीवेन का
र्यं करोतीति सुधारीत्येति गृहाण ॥ ७ ॥
इति इतरव्यपदेशाधिकरणम् ॥
-::--
८. अधिकरणम् ॥
(१) अत्राधिकरणे विष्णोः सर्वकर्तृत्वे प्रबलयुक्तिविरोधः परि
ह्रियते । जीवकर्तृत्वपक्षे ये कृत्स्नप्रसक्त्यादयो दोषाः उक्ताः ते ई
श्वरपक्षेऽपि समाः तत्र विशेषादर्शनादतो न तस्य जगत्कर्तृत्वं युक्तमि
Look at :
"श्रुतावे" then 'व' with 'ो' = 'वो'!
Wait, why did it look like 'धो'?
Because the loop of 'व' with the vertical bar and 'ो' can look slightly like 'धो', or the type had a slight mark. But the word is clearly:
"श्रुतावेवोक्तेरिति यावत्" (श्रुतौ एव उक्तेः = श्रुतावेवोक्तेः)!
Yes! "श्रुतौ एव उक्तेः इति यावत्" = श्रुतावेवोक्तेरिति यावत्!
Wait, look at in the image:
Is it 'धो' or 'वो'?
Look at 'व' in "यावत्": 'व' has a round belly on the left of the stem.
Now look at "श्रुतावेवोक्तेरिति": the belly is round, but at the top there is a tiny speck of ink.
So it is श्रुतावेवोक्तेरिति (or श्रुतावेधोक्तेरिति if misprinted, but standardly transcribed as श्रुतावेवोक्तेरिति, let's keep it accurate to reading).
Now let's check :
"द्धत्वादित्येवशब्दाथैः । एवेत्यनेन तुशब्दार्थे उक्तो भवति । श्रुत्य
[ अधि- ८. सू- २८. ] दीपिकासहितम्. ४५७
( ३ ) यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात्क्वचित् ।
विरोधे वाक्ययोः कापि किञ्चित्त्साहाय्यकारणम् ॥
ऽपीत्युक्तं भवति । ईश्वरे जीववच्छब्दमूलत्वाख्यो विशेषोऽसिद्ध इत्य-
तोऽप्याह—शब्दमूलत्वादिति । शब्दमूलत्वस्य ‘ नावेदवित् ’ इत्यादि-
शब्दमूलत्वादित्यर्थः । यद्वा—श्रुतेरित्यस्यावृत्त्याऽत्र सम्बन्धः । तथा
च शब्दमूलत्वस्य श्रुतेरित्यर्थः । अस्त्वीश्वरेऽयं विशेषः, ततः किमि-
त्यतस्तथा च नेश्वरे युक्तिविरोधोऽवतरतीत्याह—नेति । तत्रेति शे-
षः । तथा च ‘ तत्र ’ परमेश्वरे न जीव इव कृत्स्नप्रसक्त्यादिकेवलयु-
क्तिविरोधोऽवतरतीत्यर्थः । युक्त्यविषयत्वात्, यथा प्रत्यक्षाविषये प्र-
त्यक्षविरोध इति भावः । यद्यपि न विरोध इति प्रागुक्तत्त्वादिह पुनर्न
वाच्यम्, तेनैवास्याप्यन्वयसम्भवात् । तथाऽपि तत्र लोके विरुद्धानां
परमेश्वरे विरोधो नास्ति, तथा श्रुतेरित्युकम् । अत्र तु युक्तिविरोधो
नास्ति, तत्परिहारोपायस्य शब्दमूलत्वाख्यस्य विशेषस्य सत्त्वादित्यु-
च्यते, अतो नावक्तव्यता । अतएव तत्र विरोध इत्येवोक्तम्, अत्र तु
युक्तिविरोध इति ज्ञातव्यम् । अनेन—ईश्वरकर्तृत्वपक्षे कृत्स्नप्रसक्त्या-
दियुक्तिविरोधः न, कुतो ? ‘ योऽसौ ’ इति निर्दोषभूतावेव परमेश्वरे
लोकविरुद्धस्यापि भिन्नांशरहितस्याप्येकदेशेन प्रवृत्तिरूपस्य स्वरू-
पांशस्य बाहुल्येऽपि भेदाभावस्यांशतः कार्यकारणेऽपि निरवयवत्व-
स्य प्राकृतदेहादिरहितत्वेऽपि कर्तृत्वस्याविरुद्धतयाऽवस्थानोक्ते-
र्न जीवपक्ष इव सम्भावितदोषः प्रत्यक्षासिद्धत्वात् । श्रुत्युक्तमपि
विरुद्धधर्मजातं युक्तिविरुद्धत्वात्कथमीशेऽङ्गीकर्तुं शक्यम्, अन्यथा
जीवेऽपि प्रत्यक्षबलादङ्गीकार्यं स्यादविशेषादिति चेत्—न अत्र ‘ श-
ब्दमूलत्वात् ’ युक्तिविरोधपरिहारोपयोगिनः शब्दमूलत्वस्य शब्दैक-
समधिगम्यत्वस्यात्र परमेश्वरे सत्त्वादविशेषासिद्धेः । न च तदसि-
द्धिः तस्य शब्दमूलत्वस्य ‘ शब्दमूलत्वात् ’ ‘ नावेदवित् ’ इत्यादिश-
ब्दसिद्धत्वादिति सूत्रार्थ उक्तो भवति ॥
( ३ ) न केवलं शब्दैकसमधिगम्यत्वेन युक्त्यविषयत्वादीश्वरे यु-
क्तिविरोधाप्रसक्तिः किन्तु शब्दैकसमधिगम्ये युक्तिविरोधो नास्तीति
स्मृत्युक्तत्वाच्चेत्याह—यदिति ॥ ‘ युक्तिः ’ शुष्कानुमा ‘ वाक्योक्तं ’
आगमेनोक्तं ‘ यत् ’ प्रमेयम् न तत् ‘ विरोद्धुं ’ निषेद्धुं शक्नुयादित्यर्थः
किं तर्ह्यस्याः कृत्यमित्यत आह—विरोध इति । ‘क्वापि ’ क्वचिद्विष-
५८
इति पुरुषोत्तमतन्त्रे ॥ २८ ॥
(४) सू—ॐ ॥ आत्मनि चैवं विचित्राश्च हि ॥ ॐ ॥ २९ ॥
परमात्मनो विचित्राश्च शक्तयस्सन्ति नान्येषाम् ।
(५) विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृ
[ शस्स्युः ।
एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानु
[ विष्टः ॥ ( )
ये वाक्ययोः परस्परविरोधे प्रतीते सति एकवाक्यानुकूला युक्तिः
'किञ्चित् साहाय्यकारणं' आगमेनार्थसाधने तस्य विरोधपरिहारमु
खेन किञ्चित् साहाय्यकृत् तदनुग्राहिका तद्विषयव्यवस्थापिकेत्यर्थः ।
इतीत्यनन्तरमुक्तमिति तन्त्र इत्यनन्तरं ग्रन्थ इति च शेषः। अतः शब्द
मूलत्वादित्यादिनाऽन्वयः ॥
(४) जीवपक्ष एव युक्तिविरोधो, नेश्वरपक्ष इत्येतमर्थं युक्त्यन्त
रेण प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे—आत्मनीति ॥ आत्मनीति स
प्तमीबोधिताधिकरणत्वस्येहानुपयुक्तत्वात्तां विपरिणम्य योजयति--
परमात्मन इति । चशब्दस्य परमात्मन इत्यनेन शक्तय इत्यनेन च स
म्बन्धः । तत्राद्यस्सौत्राद्यचशब्दानुवादरूपोऽवधारणे । अत एव त
द्व्यावर्त्यमाह—नान्येषामिति । द्वितीयो न केवलं शब्दमूलत्वादविरो
धः, किन्त्वीश्वरे यतो विचित्रशक्तयश्च सन्तीति समुच्चयार्थकद्विती
यचशब्दानुवादः । शक्तय इत्यध्याहृतं पदम् । अस्यातोऽपि न युक्ति
विरोध इति पूर्वेणान्वयः ॥
(५) ईश्वरस्यैव विचित्रशक्तित्वं नान्येषामित्येतत्कुत इत्यतो ही
ति सूचितां श्रुतिं दर्शयति—विचित्रशक्तिरिति ॥ चोऽवधारणे । तथा
च ‘पुराणः’ पुरातनः ‘पुरुषो’ भगवान्नेव । विचित्रशक्तिरेवेत्यस्य
व्यावर्त्यमाह—न चेति । ‘अन्येषां’ जीवानां ‘तादृशः’ तादृश्यः परमा
त्मशक्तिसमाः अनेन सौत्रैवंशब्दस्य एवंविधा अन्यनिरपेक्षा एवमेवा
नुक्तविषयाश्चेत्यर्थ उक्तो भवति तथैव तत्त्वप्रदीपोक्तेः । अर्थान्तरं
तु शब्दमूलत्वाच्च न युक्तिविरोध इति भाष्येण एवं एवंविधा युक्ति
विरोधनिरासका इति टीकायां च सूचितम् । ‘एकः’ प्रधानः सर्वे
वशे यस्यासौ वशी ‘सर्वभूतान्तरात्मा’ ब्रह्मादिसर्वचेतनानां भूम्या
दिसर्वजडानामन्तर्नियामकः सर्वान् देवान् ‘एक एव’ अभिन्नरूपेण
[ अधि - ८. सू - ३०. ] दीपिकासहितम्. ४५९
इति श्वेताश्वतरश्रुतिः ॥ २९ ॥
( ६) सू—ॐ ॥ स्वपक्षदोषाच्च ॥ ॐ ३० ॥
ये दोषा इतरत्रापि ते गुणाः परमे मताः ।
व 'अनुप्रविष्टः' प्रेरणायेत्यर्थः । अन्यादृष्टविचित्रशक्तिसम्भावनाय
वाक्यशेषोपन्यासः । श्रुतिर्यत इति शेषः । अस्यं परमात्मन इति पू-
र्वेणान्वयः । शक्तेः विचित्रत्वं तु भिन्नावयवशून्यानां जीवानामीश्वर-
स्य चैकदेशेन प्रवृत्त्यादिरूपाघटितविचित्रकार्यकरत्वम् । तथा श्वेता-
श्वतरेऽन्यत्र वाऽनुक्तकार्यविषयकत्वमित्यादितत्त्वप्रदीपोक्तं द्रष्टव्यम् ।
सूत्रार्थस्तु—स्पष्टः ॥
( ६) ननु यथा विष्णोः शब्दमूलत्वात् विचित्रशक्तित्वाच्च न त-
त्र युक्तिविरोधो दोष इत्युच्यते तथा जीवेऽपि किं नोच्यते तत्रापि चे-
४६० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
न दोषः परमे कश्चिद्गुणा एव निरन्तराः ॥
इतिवचनाज्जीवपक्ष एव दोषो न परपक्षे ।
( ७ ) ' अथ यस्स दोषः साञ्जनः सजनिः स जीवोऽथ यः
स निर्दोषो निष्कलः सगुणः परः परमात्मा ' इति का-
षायणश्रुतिः ॥ ३० ॥
( ८ ) सू—ॐ ॥ सर्वोपेता च तद्दर्शनात् ॥ ॐ ॥ ३१ ॥
प्यन्तीयत आह—निरन्तरा इति । तथा चेश्वरवत् तदभिन्नगुणेष्व-
पि न दोषनाशौ शङ्कयाविति भावः । न च भगवतो निर्दोषत्वे निर्भेद-
गुणत्वे च प्रमाणाभाव इति वाच्यम् । 'निरनिष्टो निरवद्यः' ( )
'नेह नानाऽस्ति किञ्चन' (कठ. २-४-११.) 'एवं धर्मान् पृथक्पश्यन्' (कठ.
४ - १४. ) इत्यादिश्रुतिसद्भावादित्याह—यतो निरन्तरा गुणा विष्णौ
मता प्रमिता इति श्रुत्यर्थः । 'ये दोषाः' इत्येतत् श्रुतिरिति भाति ।
स्मृतिरित्यपि केचित् । अत एव भाष्यटीकयोर्वचनशब्दप्रयोगः ॥
( ७ ) ननु ईश्वरवत् जीवस्यापि निर्दोषत्वात्तत्र प्रतीतदोषोऽप्य-
न्यथा नीयतामित्याशङ्कां 'स्वपक्षे' जीवेशयोः सदोषत्वनिर्दोषत्वप-
क्षे श्रुतिविरोधदोषाच्च स नेति सूत्रस्य वृत्त्यन्तरमाश्रित्य परिहरति-
अथेति ॥ प्रकरणान्तरारम्भेऽथशब्दः । यो दुःखालपज्ञत्वादिना रागा-
दिना वा सदोषः 'साञ्जनः' पुण्यपापादिसङ्गी तत्फलभोक्तेति याव-
त् । 'सजनिः' उत्पत्तियुक्त स जीवः । यो निर्दोषो 'निष्कलो' भिन्नां-
शशून्यः षोडशकलाशून्यो वा 'सगुणः' ज्ञानानन्दादिगुणयुक्त 'परः'
उत्तमः स परमात्मेति वा, यो जीवः सः उक्तगुणकः, यः परमात्मा
स एवमादिगुण इति वा श्रुत्यर्थः । श्रुतिरित्यनन्तरं यतः इति शेषः ।
अस्य जीवपक्षे दोष एव न परपक्ष इति पूर्वेणान्वयः । अनेन—सूत्रे च
शब्दस्योभयत्रान्वयः । युक्तिविरोधस्येति योग्यतयाऽन्वेति । दोषपदं
च भावप्रधानं तदुक्तिलक्षकम् । तथा च कृत्स्नप्रसक्त्यादियुक्तिविरो-
धस्य जीवपक्षे दोषत्वस्यैवोक्तत्वात् नासौ तत्रादोषतां नेतव्यः । त-
था जीवपक्ष एवास्य दोषत्ववचनात् न परमात्मपक्षेऽयं दोषः । एवं
जीवस्य निर्दोषत्वपक्षे जीवेशयोः सदोषत्वनिर्दोषत्ववचनविरोधाख्य
दोषात्स न युक्त इति त्रेधा सूत्रार्थ उक्तो भवति ॥
( ८ ) ननु सा शक्तिर्यद्विषयिणी न भवति, यदा च नश्यति, तदा
तत्र विरोधनियमान्न तया तत्परिहारो युक्त इत्याशङ्कां परिहरन्सूत्रमु-
[ अधि - ८. सू - ३२. ] दीपिकासहितम्. ४६१
सर्वैर्युक्ता शक्तिभिर्देवता सा परेति यां प्राहुरजस्रश[क्तिम् ।
नित्यानन्दा नित्यरूपाऽजरा च या शाश्वतात्मेति च [ यां वदन्ति ॥
इति चतुर्वेदशिखायाम् । अतो न केवलं विचित्रशक्तिः, किन्तु सर्वशक्तिरेव ॥ ३१ ॥
( ९ ) सू- ॐ ॥ विकरणत्वान्नेति चेत्तदुक्तम् ॥ ॐ ॥ ३२ ॥
न च करणाभावादनुपपत्तिरिति युक्तम् ।
पन्यस्य व्याचष्टे—सर्वैति ॥ चतुर्वेदशिखायामुक्तमिति शेषः । ततः
किमित्यत आह—अत इति । उक्तत्वादित्यर्थः । अनेन तद्दर्शनादिति
हेत्वंशस्य तस्यां श्रुतौ तथोक्तत्वादित्यर्थ उक्तो भवति । न केवल
मित्यनेन सूत्रस्थशब्दः समुच्चयार्थतया व्याख्यातः । सर्वशक्तिरिति ।
सर्वदा सर्वविषयीणी सर्वकालिका शक्तिर्यस्याः सा तथोक्ता । अनेन
सर्वोपेतेति साध्यभागो व्याकृतो भवति । एवेति चशब्दस्यार्थान्तरो
क्तिः।सा परमात्माख्यदेवतेति शेषः । न त्वसर्वशक्तिर्नापि कदाचिद्भ्रष्टश
क्तिरित्यार्थः । अतः शक्त्या युक्तित्त्वविरोधपरिहारो युक्त इति भा
वः । स्पष्टः सूत्रार्थः । स्त्रीलिङ्गप्रयोगस्तु श्रुत्यनुसारेण । कवयो ' या
मजस्रशक्तिं ' नित्यशक्तियुतां प्राहुः । यां च 'शाश्वतात्मेति' निर्वि
कारस्वरूपिणीति वदन्ति । या च 'नित्यानन्दा' बहुव्रीहिरियम् । 'नि
त्यरूपा' नित्याऽऽकृतिरित्यपि तद्वदेव । न विद्यते जरा यस्याः सा त
थोक्ता ' सा परा देवता' परमात्माख्या देवता, सा ' सर्वैः शक्तिभिः'
लिङ्गव्यत्ययः । सर्वविषयीणिभिः सार्वकालिकाभिः शक्तिभिर्युक्तेति
श्रुत्यर्थः विषयबाहुल्याच्छक्तिभिरिति बहुवचनम् ॥
( ९ ) विष्णोर्जगत्कारणत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्या
चष्टे—विकरणत्वादिति ॥ न चेत्यारभ्य युक्तमित्यन्तेन आक्षेपांशो वि
वृतः । चः समुच्चये, एतच्छङ्कापरिहारसमुच्चितस्यैवोक्तन्यायस्य सा
ध्यसाधकत्वात् । ईश्वरस्य करणाभावादित्यनेन विकरणत्वादित्यस्य
विगतं करणं यस्मादिति विग्रहेण फलितार्थ उक्तो भवति । करणमि
न्द्रियं करादि । अनुपपत्तिः । जगत्कर्तृत्वस्येति । अनेन नेत्यस्य सा
ध्यसमर्पकस्य पूर्वपक्षांशे न च युक्तमित्यनेन सिद्धान्तांशे च आवृत्त्या
ऽन्वयः सूचितः ॥
(१०) अपाणिपादो जवनो गृहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरु
[ षं महान्तम् ॥ (श्वे. ३-१९.)
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिक
[ श्च दृश्यते ।
(१०) कुतो न युक्तमित्यतस्तत्र हेतुत्वेन प्रवृत्तस्य यतस्तदुक्तमि
त्यस्य परोक्तहेतोरप्रयोजकत्वमसिद्धिं च प्रदर्शयतो यतस्तस्यां श्रु
तौ पाण्यादिविरहिणोऽपि हरेर्ग्रहणादिकमुक्त्वा ‘तस्य’ करणराहि
त्यवचनस्य ‘तत्’ अप्राकृतविषयत्वं ‘उक्तं’ उपपादितं चेत्यर्थमभि
प्रेत्य ननु साक्षादिममर्थं न काऽपि श्रुतिर्वक्ति, नाप्युपपादयति तत्क
थमुच्यते तदुक्तमितीत्यसिद्धिशङ्कापरिहाराय सूत्रकृदभिप्रेताः श्रुती
रुदाहरति-अपाणिपाद इति ॥ अपाणिपाद् इत्यारभ्य महान्तमित्यन्तमे
कं वाक्यम् । ‘न तस्य’ इत्यन्यत् । ‘न तत्समः’ इत्यपरम् । ‘पराऽ
स्ये’ इति इतरत् । वाक्यचतुष्टयं श्वेताश्वतरश्रुतिगतं ‘पराऽस्य’ इत्या
थर्वणेऽपि श्रुतम् । आदिशब्देन एतज्जातीयकं शाखान्तरवाक्यं गृह्य
ते । श्रुतिभ्य इति पञ्चमी तृतीयार्थे । तदुक्तमिति सौत्रपदमत्र सम्ब
ध्यते । यत इति शेषः । अस्यातो न च युक्तमिति पूर्वेणान्वयः । तथा
च ‘अपाणिपादः’ इति श्रुतौ पाण्यादिविरहिणोऽपि हरेर्ग्रहणाद्युक्त्या
ऽर्थादप्राकृतपाणिपादादेरुक्तत्वात् ‘न तस्य कार्यम्’ इति श्रुत्या च
पाण्यादिराहित्यस्य प्राकृतविषयत्वेनोपपादितत्वात् ‘न तत्समः’ इति
वाक्येऽपि सर्वोत्तमत्वोक्त्या प्राकृतपाण्यादिरहितत्वस्योपपादितत्वा
त् ‘पराऽस्य’ इत्यत्रापि परमशक्तित्वोक्त्याऽस्योपपादितत्वान्न तदु
क्त्यभावो, नापि तदुपपादनाभाव इति भावः । सूत्रार्थस्तु स्पष्टः । श्रु
तौ—स भगवान् ‘अपाणिपादः’ न विद्यते प्राकृतं पाणिपादं यस्य
स तथोक्त इति प्राकृतभिन्नाप्राकृतपाण्यादिमानिति च त्रेधा व्याख्ये
यः । एवमचक्षुरित्याद्यपि व्याख्येयम् । अत एव तत्तदिन्द्रियोचितक्रि
याकर्तृत्वमाह—जवन इत्यादिना । अत्रापाणिर्गृहीता अपादो ‘जव
नो’ वेगेनागन्ता अचक्षुः पश्यति अकर्णः शृणोति इति योजना । स
इति द्विर्ग्रहणात्स इत्यस्य सर्वत्र सम्बन्धः सूचितः । ‘वेद्यं’ ज्ञातव्यं
सर्वं भूतं भवत् भविष्यच्च ‘वेत्ति’ जानाति । ‘तस्य’ हरेः कश्चन को
ऽपि ‘वेत्ता’ ज्ञाता नास्तीत्यर्थः । नन्वन्यत्रादृष्टमपाण्यादेः गृहीतृत्वा
[ अधि - ९. सू - ३३. ] दीपिकासाहितम्. ४६३
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल-
[ क्रिया च ॥ ( श्वे. ६-८. )
इत्यादिश्रुतिभ्यः ।
( ११ ) सर्वोपेता चेति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थे पु-
नराशङ्का ॥ ३२ ॥
९. अधिकरणम् ॥
( १ ) यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णता इति ।
दिकं कथमीश्वरे घटते इत्यत आह—तमिति । ‘तं’ उक्तगुणं ‘अ-
ग्र्यं’ सर्वश्रेष्ठं महान्तं पुरुषमाहुः कवयः अत उक्तं युक्तमित्यन्वयः ।
‘तस्य’ हरेः ‘कार्यं’ प्रकृतिकार्यं ‘करणं’ पाण्यादीन्द्रियं नास्त्येवे-
त्यर्थः । यद्वा—कार्यं प्राकृतं ग्रहणादिकं तथाविधं कारणं च नास्ती-
त्यर्थः । ‘न तत्समश्च’ इत्यत्राद्यश्चशब्दोऽवधारणे अन्यस्तुशब्दार्थे ।
तथा च भगवत्सम एव न दृश्यते अधिकस्तु कुतः स्यादित्यर्थः । ‘अ-
स्य’ हरेः शक्तिः ‘परा’ उत्कृष्टा ‘विविधा’ विचित्रा ‘स्वाभावि-
की’ यावद्द्रव्यभाविनीति तथैव सुधोक्तेः । ज्ञानं च बलं च क्रिया
च एतद्रूपेति च श्रूयत इत्यर्थः । यद्वा—अस्य ‘विविधा’ सर्वविषयी-
णी परा च शक्तिः । श्रूयते ज्ञानं बलं क्रिया च श्रूयत इत्यर्थः । अस्येति
भेदोक्तिस्तु विशेषबलाद्युज्यते ॥
( ११ ) ननु ‘सर्वोपेता’ इति सूत्र एव विचित्राशेषशक्तिबलेन नि-
खिलविरोधानां परिहृतत्वात्कथं पुनरधिकरणत्वादिति शङ्काऽवकाश इ-
त्यत आह—सर्वेति ॥ सूत्रेणेति शेषः । सामान्येति । अप्यर्थेऽपीत्या-
द्यर्थे । साधारण्येन सर्वविरोधानां परिहारे कृतेऽपीत्यर्थः । विशेषेति ।
विशेषतो ऽसाधारण्येन अस्यैव चोद्यस्य परिहारानुकूल युक्तिबोध-
नेच्छया पुनः शङ्का दर्शितेत्यर्थः । अतएव सिद्धान्ते प्राकृतशरीराभा-
वेऽपि चिदानन्दाद्यात्मकविग्रहवत्त्वादिरूपा, ‘अपाणिपादः’ इत्यादि
प्रमाणविशेषरूपा वा शङ्कापरिहारोपायभूता विशेषयुक्तिः सूत्रकृता
तदुक्तमित्यनेनोक्तेति भावः ॥ ८ ॥
इति श्रुतेस्तु शब्दमूलत्वादधिकरणम् ॥
:*:-
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे ईश्वरस्य जगत्कर्तृत्वे निष्फलत्वादियुक्तिवि-
रोधः परिह्रियते । सयुक्तिकं पूर्वपक्षयति—यदिति ॥ अत्र यच्छब्दो
यद्यर्थे । यः पर इतिवत् किंशब्दार्थे च । तदूनत्वादिति तच्छब्दोऽपि
बुद्ध्या विविक्तः तर्हीत्यर्थे भवति । विष्णोः स्यादिति शेषः । तथा च
यदि ‘प्रयोजनार्थे’ तदुद्देशेन विष्णोः ‘सृष्ट्यादिः’ जगत्सर्जनाविषय-
क प्रवृत्तिरङ्गीकृता स्यात्, तर्हि ‘तदूनत्वात्’ सृष्ट्यादेः पूर्वं तेन भा-
विना प्रयोजनेन ‘ऊनत्वात्’ तद्रहितत्वात् ‘अपूर्णता’ अनाप्तकाम-
त्वं स्यात्, ततश्च अपूर्णता अपालकत्वं च स्यात् । पालकत्वोपलक्षितं
सर्वकर्तृत्वं न स्याद्यज्ञदत्तवदित्येका योजना । एवं सृष्ट्यादीरीश्वरस्य
यत्प्रयोजनार्थं किं प्रयोजनार्थं, न किञ्चित्प्रयोजनायेति यदि, तर्हि ‘तदू-
नत्वात्’ प्रवृत्तिमात्रेणैवोनत्वात् ‘अपूर्णता’ न सर्वकर्तृत्वं स्यात् इत्य-
परा योजना । तथा चोभयथाऽपि प्रवृत्त्ययोगात् प्रकारान्तरस्य चा-
भावान्न विष्णोर्जगत्कर्तृत्वं युक्तमिति भावः ॥
( २ ) एवं प्राप्ते फलानुद्देशेनैव प्रवृत्तिरिति द्वितीयपक्षावलम्बनेन
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इत्यादिना वाक्येन कृ-
तकृत्यत्वावगमान् न प्रयोजनाय सृष्टिः परमेश्वरस्येति योजना । इत्या-
दिनेत्यनेनासिद्धिः परिहृता । कृतकृत्यत्वादित्यनेन प्रयोजनवत्त्वादित्य-
स्य नेत्यादिना च न प्रयोजनवत्त्वादित्यस्य विभक्तिविपरिणामेन व्या-
ख्यानं कृतं भवति । परमेश्वरस्येत्यनुकर्षसिद्धत्वात् अनुक्तिः । आ-
दिशब्देन ‘निरनिष्टः सत्यकामः’ इत्यादिकं गृह्यते । न च श्रुतेरेव सा-
क्षात्प्राप्तव्यत्वापरपर्यायकृतकृत्यत्वसाधकत्वे टीकायां पूर्णानन्दत्वेन
तत्साधनानुपपत्तिरिति वाच्यम् । पूर्णानन्दत्वेनेति टीकायाः पूर्णान-
न्दत्वप्रतिपादकवाक्येनेत्यर्थाश्रयणात् । अतएव सुधायां—न कर्तृत्वे
न प्रयोजनवत्त्वं साध्यं, कृतकृत्यत्वेन प्रयोजनाभावस्य निश्चितत्वात् ।
न चासिद्धो हेतुः । ‘अथैष एव परम आनन्दः’ ( बृ. ६-३-३३. )
‘निरनिष्टो निरवद्यः’ ( ) इति श्रुतेरिति । श्रुतेरेव साक्षा-
त्कृतकृत्यत्वबोधकतोच्यते । यद्वा—टीकानुसारात् इत्यादिना सिद्धेन
पूर्णानन्दत्वेन कृतकृत्यत्वावगमादिति भाष्यान्वयः । अस्मिन् पक्षे सुधा
[ अधि - ९. सू - ३४. ] दीपिकासहितम्. ४६५
( ३ ) किन्तु -
सू - ॐ ॥ लोकवत्तु लीलाकैवल्यम् ॥ ॐ ॥ ३४ ॥
यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिली
स्थहेतुशब्दो हेतुसाधकहेतुपरो द्रष्टव्यः । सौत्रपदं च प्रयोजनवत्त्वेन
प्रयोजनवत्त्वादित्यावृत्त्या योज्यम् । सृष्ट्यादिरिति प्रकृतेऽपि पुनः सृष्टि
रित्युक्तिः सृष्ट्यादिष्वेकैकमुखेनाप्याक्षेपपरिहारौ कर्तव्यौ इत्याशये
न । श्रुतावेवेत्यर्थान्तरारम्भे । तथा च 'एषः' भगवानेव 'परमानन्दः'
पूर्णानन्द इत्यर्थः । 'परम आनन्दः' (बृ.६-३-३३.) इति भिन्नपदत्वेन
पाठेऽप्ययमेवार्थो बोध्यः । न प्रयोजनाय सृष्टिरित्यनन्तरं यत इति शे
षः नेति चावर्तते। तथा च यतः परमेश्वरस्य न प्रयोजनाय न प्रयोज
नोद्देशेन सृष्टिः सृष्ट्यादिप्रवृत्तिः अतो नापूर्णत्वादिदोषः अतएव न त
स्य जगत्कर्तृत्वायोगः तथाऽऽप्तकामत्वेन दयासाध्यफलाभावात् न प
रप्रयोजनार्थमपि तस्य सृष्ट्यादिप्रवृत्तिर्युज्यते इति योजना ॥
( ३ ) ननु नेश्वरः फलानुद्देशेन प्रवृत्तिमान्, चेतनत्वाद्यज्ञदत्तव
दित्युपपत्तिविरोधात्कथं ईश्वरस्य फलानुद्देशेन प्रवृत्तिरित्याशयेन पृ
च्छति-किन्त्विति ॥ तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे—लोकव
दिति । यथेत्यारभ्य प्रयोजनापेक्षयेत्यनेन लोकवदित्यंशो व्याकृतः ।
'लोके' भुवने 'मत्तस्य' उन्मत्तजनस्य 'सुखोद्रेकात्' अभिव्यक्त
सुखात् नृत्तं नटनं गानं गीतिः । आदिपदेन निष्फलवार्तादिकं गृह्यते ।
'लीला'
४६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
ला, न तु प्रयोजनापेक्षया, एवमेवेश्वरस्य ।
( ४ ) नारायणसंहितायां च—
सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु ।
कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥
पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः ।
मुक्ता अप्याप्तकामाः स्युः किमु तस्याखिलात्मनः ॥ इति॥
चारो दुरुद्धर इति भावः । प्रथमसूत्रार्थस्तु—नेश्वरप्रवृत्तिरन्येषामिव
स्वप्रयोजनार्था । कुतः? प्रयोजनवत्त्वेन कृतकृत्यत्वेन प्रयोजनवत्त्वात् ।
यदर्थमीश्वरस्य प्रवृत्तिस्तस्य प्रयोजनस्याप्तकामत्वेन प्रागेव सिद्धत्वा
त् । यद्वा—ईश्वरप्रवृत्तेर्दयालुपृवृत्ताविव परप्रयोजनवत्त्वात् । अथ वा—
नेश्वरप्रवृत्तिः स्वप्रयोजनार्था, नप्रयोजनवत्त्वात् । नसमासोऽयम् ।
व्याख्यानादिकाले हस्तचालनादाविव सुखोद्रेकाद्गानादाविव च प्रयो
जनवत्त्वराहित्यादिति चन्द्रिकायामुक्तः । द्वितीयसूत्रे—लोकवच्चि
ति तुशब्दोऽवधारणे, पक्षान्तराङ्गीकारसूचकः, किं त्वित्यर्थे च । ली
लाकैवल्यमिति समस्तपदं स्वरूपार्थोऽयं कैवल्यशब्दः । ईश्वरस्य प्रवृ
त्तिरिति शेषः । तथा च नेश्वरस्य प्रयोजनोद्देशेन प्रवृत्तिः किन्तु ‘लो
कवत् ’ यथा लोके मत्तस्य सुखोद्रेकादेव प्रवृत्तिः तस्याश्च लीलाकैव
ल्यं तथा परमेश्वरस्य तन्निमित्तप्रवृत्तेरपि ‘ लीलाकैवल्यं ’ केवलली
लात्वं लीलारूपत्वमेव न तु प्रयोजनान्तरार्थत्वं न वा लीलार्थत्वं अतः
प्रयोजनानुद्देशे तस्य कीदृशी प्रवृत्तिरिति प्रश्नाववकाश इति सूत्र
र्थः । न चैवमाद्यसूत्रार्थे वाण्वपि प्रयोजनमीश्वरस्येति तत्त्वप्रदीपवि
रोधः, अत्र प्रयोजनसामान्यनिषेधादिति वाच्यम् । तस्य लोकानुग्र
हाय सृष्ट्यादिक्रियां करोतीति टीकानुसारादण्वपि स्वप्रयोजनं ना
स्तीति व्याख्यातव्यत्वात् । अत एव भारततात्पर्यनिर्णये ‘ भूत्यै नि
जाश्रितजनस्य ’ इति परप्रयोजनोक्तिः ॥
( ४ ) अत्रैवार्थे स्मृतिमाह—नारायणेति ॥ हरिः सृष्ट्यादिकं न
स्वप्रयोजनं ‘अपेक्ष्य’ उद्दिश्य कुरुते, किन्तु ‘केवलानन्दात्’ स्वरूपान
न्दादेरेव कुरुत इति योजना । अत्र दृष्टान्तमाह—यथेति । प्रथमार्थे म
त्तस्येति षष्ठी । तथा च यथा मत्तस्स्वानन्दादेव कुरुते तथेत्यर्थः ।
कुत एवं कल्प्यत इत्यत आह—पूर्णेति । ‘तस्य’ हरेः ‘इह ’ सृष्ट्या
[ अधि - ९. सू - ३४. ] दीपिकासहितम्. ४६७
( ५ ) ' देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा '
र्द्विविषये ' प्रयोजनमतिः' अनेन मम भविष्यत्प्रयोजनमस्तीति बुद्धि
स्तदपेक्षा वा 'कुतो' न कुतोऽपीत्यर्थः । कुतो नेत्यतस्तत्र—आप्तका
मत्वादिति हेतुः पूर्णेत्यनेनोक्तः । तस्यासिद्धिमाशङ्क्य कैमुतिकन्याये
न तं साधयति—मुक्ता इति । विशेषणसमुच्चयार्थोऽपिशब्दः । तथा
च अनीश्वरा अपि ' मुक्ताः' जीवाः यदा आप्तकामाः स्युः तदा अखि
लस्वामिनस्तस्य विष्णोराप्तकामता किमु वक्तव्येत्यर्थः । इति नाराय
णसंहितायामित्यन्वयः । सूत्रकारोक्तमुक्तमिति शेषः ॥
( ५ ) विवक्षिताशेषार्थप्रतिपादकत्वात् प्रथमं स्मृतिमुपन्यस्य सौ
त्रलीलाशब्दार्थविवेकायात्रैवार्थे माण्डूकेयीं श्रुतिमप्याह—देवस्येति ॥
चः समु