सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 495, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 495

४४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पां - १. ]
( ३) सू—ॐ ॥ अधिकं तु भेदनिर्देशात् ॥ ॐ ॥ २३ ॥
न च ब्रह्मणः श्रमचिन्तादिदोषप्राप्तिः, अधिकशक्तित्वात्,
'श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता सर्वेषां भूता
नामन्तरपुरुषः' (ऐ. आ. ३-२-४.) 'एष त आत्मा
विनेव हिताकरणादेरभावाख्यदोषप्रसङ्ग इति व्याचख्युः । अत्र पक्षे
यद्यपि भाष्यटीकयोरानुगुण्यमस्ति, प्रामाणिकपरित्यागरूपत्वादानिष्ट
ता च । तथाऽपि अन्यथा हिताकरणादयो दोषाः प्रसज्येरन्निति तत्त्व
प्रदीपो विरुद्धयत इति ध्येयम् । अनेन—सूत्रे 'अस्मद्व्यपदेशात्' इति
सूत्राच्चेदित्यनुवर्तते । स च यद्यर्थे। तत एव तर्हीति लभ्यते । तथोच्य
त इति तस्येति शेषः । इतरशब्दश्च प्रस्तुतब्रह्मकर्तृत्वान्यजीवकर्तृत्वा
र्थकः । अनुषक्तनञ्शिरस्केन हितेत्यादिना भिन्नपदेनोक्तस्य हिताकर
णमहितकरणं च न स्यादित्यापाद्यस्य विपक्षे बाधकापाद्यान्तरसमर्प
णाय हितेत्यादिसमस्तम् । तत्रापाद्यस्यानिष्टत्वज्ञापनाय दोषपदम् ।
हिताकरणादयश्च ते दोषाश्च तेषां प्रसक्तिरिति विग्रहः । हितशब्देना
त्मनः सौमनस्यकरं गृह्यते । अहितशब्देन जन्ममरणाद्यनर्थजालं गृ
ह्यते । तथा च 'इतरव्यपदेशात्' इतरस्य जीवकर्तृत्वस्य 'जीवाद्ध
वन्ति' इत्यादिश्रुत्युक्तत्वात्साक्ष्यनुभवसिद्धत्वाच्चेद्यदि 'तथोच्यते'
जीवः स्वतन्त्रकर्तेत्युच्यते तर्हि तस्य न हिताकरणादिस्स्यात् हिता
करणमहितकरणं च न स्यादन्यथाऽपरिहार्यत्वात्तस्मिन् हिताकरणा
द्विदोषाः प्रसज्येरन् स्वतन्त्रकर्तरि तेषामयोगादिति भावः, विद्यन्ते
च ते जीवे अतो न जीवः स्वतन्त्रकर्ता, किन्तु परमेश्वर एवेति सूत्रा
र्थे उक्तो भवति ॥
(३) यदि यत्किञ्चिद्दोषमात्रेण जीवकर्तृता निराक्रियते, तर्हि ब्र
ह्मणोऽपि कर्तृत्वं न प्राप्नोति, तस्यापि श्रमादिदोषनियमात् । एवं च
पक्षयोः साम्ये सत्यनुभवश्रुतिसिद्धजीवकर्तृत्वमेवाश्रयणीयमित्याश
ङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अधिकमिति ॥ न चेत्यनेन सूत्रे
नेत्यस्य तस्येत्यस्य दोषप्रसक्तिरित्यस्य चानुषङ्गः सूचितः । श्रमचि
न्तादीत्यादिपदेन साधनास्मरणदुःखादिदोषाः गृह्यन्ते । हिताक्रिया
देः ब्रह्मण्यनुभवसिद्धत्वाभावादग्रहणम् । यद्वा—ब्रह्मणो जीवसाम्य
व्यावर्तकेन तुशब्देनायमर्थः सूचित इति नानुषङ्गादि । कुतो न दोष
प्राप्तिरित्यतस्तत्र हेतुत्वेन अधिकमित्येतद्व्याचष्टे—अधिकेति । अस्य