पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 505, कुल 1267 में से
संदर्भ में पढ़ेंइति पुरुषोत्तमतन्त्रे ॥ २८ ॥
(४) सू—ॐ ॥ आत्मनि चैवं विचित्राश्च हि ॥ ॐ ॥ २९ ॥
परमात्मनो विचित्राश्च शक्तयस्सन्ति नान्येषाम् ।
(५) विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृ
[ शस्स्युः ।
एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानु
[ विष्टः ॥ ( )
ये वाक्ययोः परस्परविरोधे प्रतीते सति एकवाक्यानुकूला युक्तिः
'किञ्चित् साहाय्यकारणं' आगमेनार्थसाधने तस्य विरोधपरिहारमु
खेन किञ्चित् साहाय्यकृत् तदनुग्राहिका तद्विषयव्यवस्थापिकेत्यर्थः ।
इतीत्यनन्तरमुक्तमिति तन्त्र इत्यनन्तरं ग्रन्थ इति च शेषः। अतः शब्द
मूलत्वादित्यादिनाऽन्वयः ॥
(४) जीवपक्ष एव युक्तिविरोधो, नेश्वरपक्ष इत्येतमर्थं युक्त्यन्त
रेण प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे—आत्मनीति ॥ आत्मनीति स
प्तमीबोधिताधिकरणत्वस्येहानुपयुक्तत्वात्तां विपरिणम्य योजयति--
परमात्मन इति । चशब्दस्य परमात्मन इत्यनेन शक्तय इत्यनेन च स
म्बन्धः । तत्राद्यस्सौत्राद्यचशब्दानुवादरूपोऽवधारणे । अत एव त
द्व्यावर्त्यमाह—नान्येषामिति । द्वितीयो न केवलं शब्दमूलत्वादविरो
धः, किन्त्वीश्वरे यतो विचित्रशक्तयश्च सन्तीति समुच्चयार्थकद्विती
यचशब्दानुवादः । शक्तय इत्यध्याहृतं पदम् । अस्यातोऽपि न युक्ति
विरोध इति पूर्वेणान्वयः ॥
(५) ईश्वरस्यैव विचित्रशक्तित्वं नान्येषामित्येतत्कुत इत्यतो ही
ति सूचितां श्रुतिं दर्शयति—विचित्रशक्तिरिति ॥ चोऽवधारणे । तथा
च ‘पुराणः’ पुरातनः ‘पुरुषो’ भगवान्नेव । विचित्रशक्तिरेवेत्यस्य
व्यावर्त्यमाह—न चेति । ‘अन्येषां’ जीवानां ‘तादृशः’ तादृश्यः परमा
त्मशक्तिसमाः अनेन सौत्रैवंशब्दस्य एवंविधा अन्यनिरपेक्षा एवमेवा
नुक्तविषयाश्चेत्यर्थ उक्तो भवति तथैव तत्त्वप्रदीपोक्तेः । अर्थान्तरं
तु शब्दमूलत्वाच्च न युक्तिविरोध इति भाष्येण एवं एवंविधा युक्ति
विरोधनिरासका इति टीकायां च सूचितम् । ‘एकः’ प्रधानः सर्वे
वशे यस्यासौ वशी ‘सर्वभूतान्तरात्मा’ ब्रह्मादिसर्वचेतनानां भूम्या
दिसर्वजडानामन्तर्नियामकः सर्वान् देवान् ‘एक एव’ अभिन्नरूपेण