पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 510, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - ३३. ] दीपिकासाहितम्. ४६३
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल-
[ क्रिया च ॥ ( श्वे. ६-८. )
इत्यादिश्रुतिभ्यः ।
( ११ ) सर्वोपेता चेति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थे पु-
नराशङ्का ॥ ३२ ॥
९. अधिकरणम् ॥
( १ ) यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णता इति ।
दिकं कथमीश्वरे घटते इत्यत आह—तमिति । ‘तं’ उक्तगुणं ‘अ-
ग्र्यं’ सर्वश्रेष्ठं महान्तं पुरुषमाहुः कवयः अत उक्तं युक्तमित्यन्वयः ।
‘तस्य’ हरेः ‘कार्यं’ प्रकृतिकार्यं ‘करणं’ पाण्यादीन्द्रियं नास्त्येवे-
त्यर्थः । यद्वा—कार्यं प्राकृतं ग्रहणादिकं तथाविधं कारणं च नास्ती-
त्यर्थः । ‘न तत्समश्च’ इत्यत्राद्यश्चशब्दोऽवधारणे अन्यस्तुशब्दार्थे ।
तथा च भगवत्सम एव न दृश्यते अधिकस्तु कुतः स्यादित्यर्थः । ‘अ-
स्य’ हरेः शक्तिः ‘परा’ उत्कृष्टा ‘विविधा’ विचित्रा ‘स्वाभावि-
की’ यावद्द्रव्यभाविनीति तथैव सुधोक्तेः । ज्ञानं च बलं च क्रिया
च एतद्रूपेति च श्रूयत इत्यर्थः । यद्वा—अस्य ‘विविधा’ सर्वविषयी-
णी परा च शक्तिः । श्रूयते ज्ञानं बलं क्रिया च श्रूयत इत्यर्थः । अस्येति
भेदोक्तिस्तु विशेषबलाद्युज्यते ॥
( ११ ) ननु ‘सर्वोपेता’ इति सूत्र एव विचित्राशेषशक्तिबलेन नि-
खिलविरोधानां परिहृतत्वात्कथं पुनरधिकरणत्वादिति शङ्काऽवकाश इ-
त्यत आह—सर्वेति ॥ सूत्रेणेति शेषः । सामान्येति । अप्यर्थेऽपीत्या-
द्यर्थे । साधारण्येन सर्वविरोधानां परिहारे कृतेऽपीत्यर्थः । विशेषेति ।
विशेषतो ऽसाधारण्येन अस्यैव चोद्यस्य परिहारानुकूल युक्तिबोध-
नेच्छया पुनः शङ्का दर्शितेत्यर्थः । अतएव सिद्धान्ते प्राकृतशरीराभा-
वेऽपि चिदानन्दाद्यात्मकविग्रहवत्त्वादिरूपा, ‘अपाणिपादः’ इत्यादि
प्रमाणविशेषरूपा वा शङ्कापरिहारोपायभूता विशेषयुक्तिः सूत्रकृता
तदुक्तमित्यनेनोक्तेति भावः ॥ ८ ॥
इति श्रुतेस्तु शब्दमूलत्वादधिकरणम् ॥
:*:-
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे ईश्वरस्य जगत्कर्तृत्वे निष्फलत्वादियुक्तिवि-