सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 499, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 499

४५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
त्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी श
किर्दृष्टा किम्बीश्वरस्य
( १० ) न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् ।
विरोध एव वाक्यानां युक्तयो न तु युक्तयः ॥
इति बृहत्संहितायाम् ॥ २६ ॥
( ११ ) सू—ॐ ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ ॐ ॥२७॥
लब्धिरितिचेन्न । ईश्वरस्यापि देवादिवददृश्यत्वशक्तियोगात् । अदृ-
र्शनानुकूलान्तर्धानशक्तियुक्तत्वात्ततोऽप्यदृष्टियोगदित्यावृत्त्या योज-
ना । ईश्वरस्यादृश्यत्वशक्तिमत्त्वमेव कुत इत्यतः प्रवृत्तेन अपिलोक इ-
त्यनेन सूचितं कैमुत्तिकन्यायं दर्शयति—लोकेऽपीति । अपिशब्दः पि-
शाचादीनामपीति भिन्नक्रमः कैमुत्यार्थो विशेषणान्तरसमुच्चयार्थश्च ।
तथा च 'लोके' जगत्यनीश्वराणां लौकिकानामपि पिशाचादीनां 'ए-
तादृशी' अदृश्यत्वानुकूला 'शक्तिः' अन्तर्धानसामर्थ्यं दृष्टं, ईश्वरस्य
तादृशी शक्तिरस्तीति किमु वक्तव्यमित्यर्थः । तथा च नोक्तहेत्वसि-
द्धिरिति भावः ॥
(१०) यदभिप्रेतं श्रुतिसिद्धः परमेश्वरो नानुलब्ध्या निराकार्य
इति, तत्रार्थे स्मार्तं चाह—नेति ॥ ॥ 'वाक्यानि' श्रुतिस्मृतिरूपाणि
'युक्तियोगात्' युक्तिलक्षणोपायात् 'क्वचिदपि' विषये न प्रमाणत-
याऽसाधकत्या वा निराकार्याणीत्यर्थः । विरोधे सति कथं निर्णय इ-
त्यत आह—विरोध इति । युक्तीनां जात इति शेषः । तथा च 'वा-
क्यानां विरोधे' तन्निरूपितविरोधे युक्तीनां 'जाते' प्रतीते सति ता
युक्तय एव 'न युक्तयो' न सद्युक्तयः किं त्वाभासा एवेत्यर्थः । यद्वा-
वाक्यानां परस्परविरोधे सति ता युक्तयः एकवाक्यानुसारिन्याया
एवार्थसाधकाः, न तु शुष्कयुक्तय इत्यध्याहारेणान्वयः । बृहत्संहिता-
यामित्यस्योक्तत्वाच्च न विरोध इति शेषेण पूर्वेणान्वयः ॥
(११) युक्त्यन्तरेण जीवस्य स्वतः कर्तृत्वं निराकुर्वत्सूत्रमुपन्य-
स्यति-कृत्स्नेति ॥ अत्र कस्मिन् पक्षेऽयं दोष उच्यते इति न ज्ञायते, गु-
णसूत्रत्वात् जीवकर्तृत्वपक्ष इति सिद्धेऽपि तत्र हिताक्रियादिदोषस्यो-
क्तत्वादोषान्तरत्वज्ञापकचशब्दाभावाच्च अनुपपत्तिरेवेत्याशङ्कां परिह-
रन्सूत्रं व्याचष्टे—अयं चेति । न केवलं हिताक्रियादिदोषो जीवस्य
स्वतःकर्तृत्वपक्षे, किन्त्वयं वक्ष्यमाणश्च प्रसज्यत इति समुच्चये च