पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 512, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - ३४. ] दीपिकासहितम्. ४६५
( ३ ) किन्तु -
सू - ॐ ॥ लोकवत्तु लीलाकैवल्यम् ॥ ॐ ॥ ३४ ॥
यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिली
स्थहेतुशब्दो हेतुसाधकहेतुपरो द्रष्टव्यः । सौत्रपदं च प्रयोजनवत्त्वेन
प्रयोजनवत्त्वादित्यावृत्त्या योज्यम् । सृष्ट्यादिरिति प्रकृतेऽपि पुनः सृष्टि
रित्युक्तिः सृष्ट्यादिष्वेकैकमुखेनाप्याक्षेपपरिहारौ कर्तव्यौ इत्याशये
न । श्रुतावेवेत्यर्थान्तरारम्भे । तथा च 'एषः' भगवानेव 'परमानन्दः'
पूर्णानन्द इत्यर्थः । 'परम आनन्दः' (बृ.६-३-३३.) इति भिन्नपदत्वेन
पाठेऽप्ययमेवार्थो बोध्यः । न प्रयोजनाय सृष्टिरित्यनन्तरं यत इति शे
षः नेति चावर्तते। तथा च यतः परमेश्वरस्य न प्रयोजनाय न प्रयोज
नोद्देशेन सृष्टिः सृष्ट्यादिप्रवृत्तिः अतो नापूर्णत्वादिदोषः अतएव न त
स्य जगत्कर्तृत्वायोगः तथाऽऽप्तकामत्वेन दयासाध्यफलाभावात् न प
रप्रयोजनार्थमपि तस्य सृष्ट्यादिप्रवृत्तिर्युज्यते इति योजना ॥
( ३ ) ननु नेश्वरः फलानुद्देशेन प्रवृत्तिमान्, चेतनत्वाद्यज्ञदत्तव
दित्युपपत्तिविरोधात्कथं ईश्वरस्य फलानुद्देशेन प्रवृत्तिरित्याशयेन पृ
च्छति-किन्त्विति ॥ तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे—लोकव
दिति । यथेत्यारभ्य प्रयोजनापेक्षयेत्यनेन लोकवदित्यंशो व्याकृतः ।
'लोके' भुवने 'मत्तस्य' उन्मत्तजनस्य 'सुखोद्रेकात्' अभिव्यक्त
सुखात् नृत्तं नटनं गानं गीतिः । आदिपदेन निष्फलवार्तादिकं गृह्यते ।
'लीला'