पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 497, कुल 1267 में से
संदर्भ में पढ़ें(५) यथा दारुमयीं योषां नरः स्थिरसमाहितः ।
इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥
इति च भारते ॥ २४ ॥
(६) सू-ॐ ॥ उपसंहारदर्शनान्नेति चेत्क्षीरवद्धि ॥ ॐ ॥ २५ ॥
जीवेन कार्योपसंहारदर्शनात्तस्य कर्तृत्वमिति चेत्-
न, यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते ।
या वैपरीत्यानुपपत्तेरिति भावः ॥
(५) अस्वातन्त्र्यहेतोरसिद्धिमाशङ्क्याह—यथेति ॥ यद्वा—सू-
त्रार्थे स्मृतिसम्मतिमाह—यथेति । स्थिरसमाहित इति बहुव्रीहिः,
भावे क्तः । स्थिरशब्देनाचाञ्चल्यमुच्यते । समाधानं मनःप्रणिधानम् ।
इङ्गनसाधनविषयकयथार्थज्ञानं कर्तरि क्तः कर्मधारयो वा । तथा
च यथा 'स्थिरसमाहितो' मनश्चाञ्चल्यं विना स्वकार्यसमाधा-
नवान् नरो 'दारुमयीं योषां' दार्वात्मकस्त्रीप्रतिमां