सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १०. सू - ७. ] दीपिकासहितम्. १६७
सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः ॥
इति स्कान्दे ॥ ७ ॥
च्छन्दोमयत्वं च विष्णोर्युक्तमित्युक्तं भवति । ऐतरेयभाष्ये—' संपू-
र्णदर्शनशक्तेः चक्षुर्मयः संपूर्णश्रवणशक्तेः श्रोत्रमयः सत्यकामत्वात्
छन्दोमयः सर्वमन्तृत्वान्मनोमयः सर्ववक्तृत्वाद्वाङ्मयः पूर्णफलरूपत्वा
दात्मा' इति । तथा बृहद्भाष्ये—'मयद्प्राचुर्यार्थः स्वरूपे च' इति प्र-
तिज्ञाय—
सर्वद्रष्टृस्वरूपत्वाच्चक्षुर्मय इतीर्यते ।
सर्वश्रोतुस्वरूपत्वात्स श्रोत्रमय ईरितः ॥
इति । तथा भागवततात्पर्ये—
सर्वे विष्णौ स्थिता यस्मादतस्सर्वमयो ह्यसौ ।
इति प्रकारान्तरेण भगवति चक्षुर्मयत्वादिकं व्याख्यातम् । स्कान्दे
इत्यनन्तरं उक्तत्वादिति शेषः । अस्य जीवविलक्षणस्यापि इन्द्रि-
यस्वामित्वादिना चक्षुर्मयत्वादि युज्यते इति न तदयोग इत्युपस्कृत
साध्येनान्वयः ॥
अनेन 'सर्वेषु भूतेषु' इत्यत्रार्भकौकस्त्वोक्तेः 'चक्षुर्मयः' इत्या-
दौ च तस्य जीवस्य तेन चक्षुर्मयत्वादिना प्रकारेणोक्तत्वात् आदित्य
व्यपदेशाच्च अस्मादेव बाधकान्न सर्वत्रोक्तो नारायण इति चेत्—न,
कुतः ? अत्र बाधकाभावात्, अर्भकौकस्त्वादेश्च विष्णोवेवोपपत्तेः । न
चापरिच्छिन्नस्यार्भकौकस्त्वोक्तिः जीवविलक्षणस्य चक्षुर्मयत्वाद्युक्ति
श्च व्यर्थेति वाच्यम् । एवं निचाय्यत्वात् । चायृ पूजानिशामनयोः ।
तस्यैव तस्यापरिच्छिन्नस्यापि विष्णोः अल्पौकस्त्वचक्षुर्मयत्वादिना
प्रकारेणोपास्यत्वेन उपासनार्थं तदुक्तिसार्थक्यात् । न चापरिच्छिन्ने
जीवविलक्षणे च ब्रह्मणि अर्भकौकस्त्वाद्युक्तिर्न युज्यते इति वाच्यम् ।
यतः 'एवं च' एवमपि सर्वगतत्वेऽपि 'व्योमवत्' तदल्पौकस्त्वं च-
क्षुर्मयत्वादि युज्यते । यथा व्याप्तस्यापि व्योम्नोऽव्याकृताकाशस्य म-
ठायेकदेशावस्थितिः तथा ब्रह्मणो भूताशयादौ स्थितिरुक्ता । यतश्चै-
वं विष्णोर्जीवविलक्षणत्वेऽपि इन्द्रियस्वामित्वादिना चक्षुर्मयत्वाद्युक्ति-
र्युक्ताऽत इति सूत्रार्थ उक्तो भवति ॥

१६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
( २२ ) सू—ॐ ॥ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ॐ ॥ ८ ॥
जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिरिति
चेत्—न,
( २३ ) सामर्थ्यवैशेष्यात् ।
( २४ ) उक्तं च गारुडे—
सर्वज्ञालपज्ञताभेदात्सर्वशक्त्यल्पशक्तितः ।
( २२ ) पुनरुक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—सम्भोगेति ॥
अत्र पूर्वसूत्रादेवंशब्दमनुवर्त्य तद्बोधितमापादकं दर्शयन् पूर्वपक्षांशं
तावद्व्याचष्टे—जीवेति । जीवपरमात्मनोरित्यर्थः । एकेति । विष्णोः
सर्वशरीरस्थत्वे जीवेन सहैकशरीरस्थत्वप्राप्तेरिति भावः । संशब्द
स्य ‘व्यवहृपणोस्समर्थयोः’ इत्यत्रेव समानार्थत्वमाश्रित्याह—समा
नेति । परस्य जीवसमानभोगप्राप्तिर्बाधिकाऽस्तीति शेषः । अतो जीव
पक्ष इवेश्वरपक्षेऽपि बाधकसाम्यान्नायं सर्वगत इति वाक्यशेषः । प
रिहारांशं व्याचष्टे—नेति । नेश्वरस्य समानभोगप्राप्तिरित्यर्थः ॥
( २३ ) कुतो नेत्यतस्तत्र हेतुत्वेन वैशेष्यादित्यंशं योजयति—साम
र्थ्येति ॥ स्वार्थे ष्यञ् । विशेषिणो भाव इति वा । तथा च परस्य स
मानभोगाप्राप्तौ जीवादपि सामर्थ्यवैशेष्यादित्यर्थः ॥
( २४ ) किं तत्सामर्थ्यवैशेष्यं, येन समानभोगाप्राप्तिरित्यत आह—
उक्तमिति ॥ न केवलं सूत्रे जीवेशयोर्भोगसाम्याभावः, तत्र हेतुत्वेन
सामर्थ्यवैशेष्यं चोक्तम्, किन्तु गारुडे चेति समुच्चयार्थश्चः । किमु
क्तमित्यतस्तत्पठति—सर्वज्ञेति । सर्वज्ञत्वाल्पज्ञत्वरूपभेदकधर्माभ्या
मित्यर्थः । प्राप्तस्य बाधकस्य परिहाराय विष्णोः सामर्थ्ये सत्यपि प्र
थमे प्राप्तिस्तावत्स्यादेव अग्निस्तम्भवतो दाहप्राप्तिवत् । साऽपि भगव
ति न सम्भवति । तस्य सार्वज्ञेनैव दृष्टबाधकपरिहर्तृत्वसम्भवादिति भा
वेनेह सार्वज्ञोक्तिः, न हेतुत्वेन, हेतुस्तु सर्वशक्तित्वम् । तलः तसि
ल्श्च प्रत्येकमन्वयः । ईश्वरस्य जीवेन सहैकशरीरस्थत्वेऽपि दुःखप
रित्यागेन सुखमात्रभोगे स्वातन्त्र्यं हेतुः । जीवस्य चोभयानुभवे पा
रतन्त्र्यं हेतुरिति विवेक्तव्यम् । ‘सम्भोगः’ समानभोगः । गारुड इ
त्यन्वयः । ‘इति च’ इति चशब्दपाठे तत्र पूर्वोक्तेन समुच्चयार्थश्च
कारः । अनेन यतो यथा एकस्य जीवस्य सर्वशरीरस्थत्वे सर्वसमान
भोगप्राप्तिः बाधिकाऽनुपपत्तिः सूत्रोक्ताऽस्ति । तथा एवमीशस्य

[ अधि - २. सू - ८. ] दीपिकासहितम्. १६९
स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः ॥
इति च ॥ ८ ॥
२०. अधिकरणम् ॥
( १ ) 'जन्माद्यस्य यतः' इत्युक्तम् । तत्रात्तृत्वं 'स यद्यदे
सर्वभूतगतत्वमङ्गीकृत्य जीवेश्वरयोरेकशरीरस्थत्वे परस्य जीवसमा
नभोगप्राप्तिर्बाधिकाऽस्ति । अतो नेश्वरः सर्वभूतगत इति चेत्-न, कु
तः? तस्य तदप्राप्तौ जीवादपि सामर्थ्यवैशेष्यात् अग्निस्तम्भवतो दा
हाभाववदिति सूत्रार्थ उक्तो भवति ॥ १ ॥
॥ इति सर्वगतत्वाधिकरणम् ॥
२०. अधिकरणम् ॥
( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धादितिशब्देन सहोक्तात्तृ
त्वलिङ्गस्य हरौ समन्वयः क्रियते । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृ
त्य विषयसंशयौ सयुक्तिकपूर्वपक्षं च सूचयति—जन्मेति ॥ जन्मादि
सूत्रे जन्मादिकर्तृत्वं विष्णोरुक्तमित्यर्थः । तत्रेति । उक्तलक्षणेषु मध्य
इत्यर्थः । प्रविष्टमिति शेषः । अत्तृत्वमिति ।
स सर्गकाले च करोति सर्वं
संहारकाले तु तदत्ति भूयः ।
स्रष्टा पाता तथैवात्ता (स्कान्दे)
इत्यादावदिधातुप्रकृतिकानेकशब्दवाच्यं संहर्तृत्वापरपर्यायशब्दबो
ध्यं ऊर्णनाभ्यादिवदत्तृत्वं तदित्यर्थः । अनेन अदेर्भक्षणार्थत्वाददिते
रत्तृत्वेऽपि न संहर्तृत्वलक्षणस्यातिव्याप्तिरिति शङ्का निरस्ता । प्रथ
मेतिशब्दः श्रुतिगतः । द्वितीयस्तु भाष्यकारीयः । अदितेरित्यावर्तते ।
तत्रैकं भावप्रधानम् । तथा च इति बृहदारण्यकवाक्ये यदत्तृत्वं प्र
तीयते तन्न 'अदितेः' देवमातुरेव भवेत् । कुतः ? 'अदितेः' अ
दितिश्रुतेः । तथा अदितित्वलिङ्गाच्चेति योजना । अदितित्वं च गोत्वा
दिवददितिमात्रधर्मो, न विष्णौ सावकाशम् । अनेन जन्मादिसूत्रो
क्तलक्षणस्यातिव्याप्त्यसम्भवाक्षेपात्सेनास्याक्षेपिकी सङ्गतिः। श्रुत्युक्त
मत्तृत्वं धिपयः । विष्णोरन्यस्य वेति सन्देहः । देवमातुरदितेरेवेति
२२

वासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददिते
रदितित्वम्’ (बृ. ३-२-५०) इत्यदितेः प्रतीयते ।
(२) ‘स यद्यदेवासृजत’ इति पुल्लिङ्गं च ‘कूटस्थोक्षर उ
च्यते’ (भ. १५-१६०) इत्यादिवत् ॥

पूर्वः पक्षः । अदितिश्रुतिरदितित्वयुक्तिश्च सूचिता भवति । पूर्वपक्षे
श्रुत्यर्थस्तु—‘सः’ अदितिर्देवमाता संवत्सरनाम्ना चतुर्मुखेन ‘यद्य
देवासृजत तत्तदत्तुमध्रियत’ मनः । आदधेति शेषः । कुतः सर्वात्तृत्व
मदितेः ? यस्मात्सर्वात्त्री सा सर्वमत्तीति यत् तदेव ह्यदितेर्देवमातुः
‘अदितित्वं’ अदितिशब्दवाच्यत्वे निमित्तं, अन्यथा तन्न स्यादिति ।
अस्मिन् पक्षेऽपि स्थलान्तरस्थादितिशब्दस्य निर्वचनमिदम् । अत्र
सर्वशब्दः सुधारीत्या अदित्यदनयोग्यसर्वपरः । टीकारीत्या सङ्कुचित
सर्वपरो वा । सिद्धान्ते श्रुत्यर्थस्तु—‘सः’ संवत्सरनामकः चतुर्मु
खो ‘यद्यदेवासृजत तत्तत्सर्वमत्तुं’ स मृत्युनामा जनार्दनोऽध्रियत ।
आदधे । कुतः सर्वसंहर्तृत्वं विष्णोः ? ‘अदितेः’ अदितिशब्दात् ।
अदितिर्हि ‘इदं सर्वं..यदिदं किञ्च’ (तै. २ - ६०) ‘अदितिर्देव
तामयी’ (कठ. ४ - ७०) इति श्रुत्यन्तरे ब्रह्मण्यदितिशब्दप्रयोगादि
ति यावत् । तावताऽपि कुतः सर्वात्तृत्वं विष्णोः ? सर्वमत्तीति यत्तदे
व हि ‘अदितेः’ स्त्रीलिङ्गादितिशब्दवाच्यस्य ‘अदितित्वं’ अदिति
शब्दवाच्यत्वं अन्यथा स निर्निमित्तकः स्यादिति भावः । अनेन वि
ष्णोः सर्वात्तृतायां तन्निमित्तकश्रुत्यन्तरगतादितिशब्दो हेतुरित्युक्तं
भवति । उक्तं हि चन्द्रिकायाम् । ‘तत्तदत्तुमिति पूर्वप्रतिज्ञातसर्वात्तृ
तायां श्रुत्यन्तरे ब्रह्मणि प्रयुक्तस्य सर्वात्तृत्वनिमित्तकस्यादितिशब्द
हेतुकरणे सम्भवति’ इति । अतएव ऋग्भाष्ये ‘अत्ति विश्वं तेन चै
वादितिरिति विष्णुः’ इत्युक्तम् । तत्रैव ‘गुणतः कालतश्चानन्त्यरूप
मखण्डितत्वं चादितिशब्दप्रवृत्तिनिमित्तम्’ इति चोक्तम् ॥
(२) नन्वेतदत्तृत्वमदितेश्चेत्कथं तर्हि तस्यां स इति पुल्लिङ्गं यु
क्तं स्यात् । अतस्तेन श्रुत्यादिबाध इत्यत आह—स इति ॥ इति वा
क्ये श्रुतमित्यर्थः । इत्यादिवदित्यनन्तरं अदित्यां युज्यत इति शेषः ।
चस्त्वर्थः । आदिपदेन ‘सोऽहं वायुं दिशां वत्सं वेद’ इति छन्दोग
वाक्यं गृह्यते । कूटमाकाशं तद्वन्निर्विकारतया तिष्ठतीति कूटस्थः ।

[ अधि - २. सू - ९. ] दीपिकासहितम्. १७१
( ३ ) अत्रोच्यते—
सू—ॐ ॥ अत्ता चराचरग्रहणात् ॥ ॐ ॥ ९ ॥
( ४ ) न हि चराचरस्य सर्वस्यात्तृत्वमदितेः ।
( ५ ) स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु ।
वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा ॥
इति स्कान्दे ।
( ६ ) एकः पुरस्ताद्य इदं बभूव
यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये
प्रकृतिः ' अक्षरो' देहतोऽविनाशित्वादुच्यते इति गीतावाक्यस्यार्थः ।
दिक्शब्दितानां पूर्वादिचतुर्दिगवस्थितभगवद्बाहूनां 'वत्सं' ततो जा
तं 'वायुं' मुख्यप्राणमहं 'वेद' जानामीत्यर्थः । लक्ष्मीवाक्यमेतत् ॥
( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत्रेति ॥ इति चोद्ये समाधा
नमुच्यते सूत्रकृता इति शेषः । अनेन सूत्रेऽत्रोच्यते इति शेषो दर्शि
तः । तत्सूत्रं पठति—अत्तेति । तत्स्वित्यनुवर्तते, विपरिणम्यते च । त
था चात्र वाक्ये यः 'अत्ता' संहर्तोच्यते स विष्णुरेव । कुतः ? 'सर्वं वा
अत्ति' इति 'चराचरस्य' चेतनाचेतनरूपस्य विश्वस्याद्यतया संहार्य
तया 'ग्रहणा'च्चराचरात्तृत्वलिङ्गादिति यावदिति सूत्रार्थः ॥
( ४ ) चराचरस्याद्यतया ग्रहणेऽपि कुतो नादितेस्तदत्तृत्वमिति
लिङ्गस्य सावकाशत्वशङ्कां निराह—न हीति ॥ हिशब्दः प्रसिद्धौ । च
राचरस्येति सूत्राक्षराण्यनूद्य श्रुत्यनुसारेण सर्वस्येति व्याख्यानम् ।
न च सामान्यपदेन व्याख्यानं व्यर्थमिति वाच्यम् । सूत्रस्य श्रुतिवि
संवादप्रतीतिनिरासार्थत्वात् । ' अदितेः ' देवमातुः ॥
( ५ ) चराचरात्तृत्वं विष्णोरपि कुतः सिद्धमित्यत आह—स्रष्टे
ति ॥ 'पुंसां परः' तेभ्य उत्तमो 'वासुदेवः' कृष्णः 'एक एव' नि
खिलजगतः एकः स्वतन्त्रः 'स्रष्टा' सृष्टिकर्ता तथा 'पाता' रक्षिता
तुश्चार्थे । अत्ता च । 'वासुदेवेतरे' ब्रह्माद्यास्तु 'अल्पस्य' जगदेक
देशस्यास्वातन्त्र्येण सृष्ट्यादिकर्तारो भवन्ति । स्वातन्त्र्यापेक्षया ने
त्यर्थः । इति स्कान्दे इत्यनन्तरं उक्तत्वादिति वाक्यशेषः ॥
( ६ ) स्पष्टार्थत्वात्प्रथमं स्मृतिमुदाहृत्यात्रैवार्थे श्रुतिमप्याह—ए
क इति ॥ एक इत्यस्यावृत्तिः, इदमित्यस्याप्यावृत्तिपरिणामौ । तथा

वत्सरोऽभवत् . .तं जातमभिव्याद
दात्स भाणमकरोत्सैव वागभवत्स ऐक्षत यदि हवा इममभिमंस्ये कनी
योऽन्नं करिष्य इति स तया वाचा तेनात्मना इदं सर्वमसृजत’ (बृ.३-२.)
इति विष्णुविषयाण्यनेकवाक्यानि श्रूयन्ते । ‘अग्रे’ प्रलये ‘इह’ अस्मिन्

Wait, let's check line 11-12 break:
In the image:
Line 11 ends with: अस्यार्थो?
Wait! Let's look at line 11 again!
मन्त्रद्रष्टृऋषिवाक्यमेतत् । इति श्रुत्यनन्तरं यत इति शेषः । अस्यार्थो
ऽपि विष्णोश्चराचरात्तृत्वं सिद्धमित्यन्वयः ॥
Wait, does line 11 end with अस्यार्थो?
Wait, earlier I noted:
अस्यातो
Line 11 has:
मन्त्रद्रष्टृऋषिवाक्यमेतत् । इति श्रुत्यनन्तरं यत इति शेषः । अस्यार्थो
Wait, is ऽपि at the start of L12?
Yes! L12 starts with: `ऽपि विष्णोश्चराचरात्तृत्व

[ अधि - २. सू - १०. ] दीपिकासहितम्. १७३
( ९ ) ने हासीत्किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा ।
स्त्ववर्गे, गगन इति वा । 'किञ्चन' जीवजडरूपं वस्तु नैवासीदि
ति । ननु—
सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च ।
कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ।
संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत् ॥
इति बृहद्भाष्योदाहृतवचनान्नित्यानां जीवानामपि सत्त्वात्कथमियमु
क्तिरित्यत उक्तं—मृत्युनैवेति । 'इदं' जीवादिकं 'मृत्युना' तन्नाम
केन जनार्दनेन 'आवृतं' आच्छादितमासीत् । मृत्योरवरकत्वे हेतुः—
अशनायेति । अशं जगत्तन्नेत्रयेत्यर्थः । मृत्योरशनायात्वं श्रुतिप्रसिद्ध
मित्याह—अशनाया हीति । 'तत्' तस्मादेकाकित्वान्मृत्युः 'आ
त्मन्वी' जगद्रूपशरीरवान् स्यामित्यैच्छत् । एवं स मृत्युः 'अर्चन्'
स्वात्मानं पूजयन् सं चचार तस्यार्चत आपोऽजायन्त । ता एव ता
सामर्चनसाधनमिति भावः । तत्राप्सु योऽपां 'शरः' फेनरूपो मण्ड
आसीत्तच्छरः । स शरो मृत्युना स्वरेतसा 'समहन्यत' सङ्घातत्वं
प्रापितः । यस्सङ्घातः सा 'पृथिवी' ब्रह्माण्डरूपाऽभवत् 'तस्यां' पृ
थिव्यां श्वेतद्वीपे 'अश्राम्यत्' शिश्ये मृत्युः । स मृत्युः 'मे' मम
'आत्मा' ब्रह्मा द्वितीयो वाय्वपेक्षया जायेतेति अकामयत । अथ 'अ
शनाया' स मृत्युः 'मनसा' स्वेच्छया 'वाचा' वेदाभिमानिश्रिया
'मिथुनं' द्वन्द्वीभावं 'समभवत्' प्रापत् । तेन मिथुनीभावेन यद्रेत
आसीत् 'तत्संवत्सरः' तदुपादानकदेहवान् संवत्सरनामकश्चतुर्मु
खोऽभवत् । अथ जातं संवत्सरमभिलक्ष्य अमुं 'व्याददात्' विददार
स्वमुखं मृत्युः । स संवत्सरो भयात् विष्णुदीप्त्याऽऽनन्दबोधकभाणि
ति शब्दमकरोत् । यद्भाणिति वचस्तदभिमानिनी सैव वाङ्नाम्नी सर
स्वत्यभवत् । स मृत्युः 'ऐक्षत' आलोचितवान् । किमिति ? 'यदी
मं' संवत्सरं 'अभिमंस्ये' लीनं करिष्ये तत्तदा मे 'कनीयः' अल्प
मन्नं करिष्ये । ततो बह्वन्नं भवत्वित्यालोच्य स मृत्युः 'तया वाचा'
सरस्वत्या 'तेनात्मना' चतुर्मुखेनेदं सर्वमसृजत । जनयामासेति
श्रुत्यर्थः ॥
( ९ ) नन्वप्संवत्सरसृष्ट्यादिनाऽत्रोच्यमानेनापि कथमस्य विष्णु

[१७४] ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २.]

सोत्मनो मनसाऽस्राक्षीदप एव जनार्दनः ॥
शयानस्तासु भगवान्निर्ममेऽण्डं महत्तरम् ।
तत्र संवत्सरं नाम ब्रह्माणमसृजत्प्रभुः ॥
तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ।
अथ तत्कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ॥
सोऽसृजद्भुवनं विश्वमद्यार्थं हरये विभुः ॥
इति ब्रह्मवैवर्ते ॥ १० ॥

प्रकरणत्वनिश्चय इत्यतोऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्वादिति भावेन
तस्य तल्लिङ्गत्वे स्मृतिमाह—नेहासीदिति ॥ 'आदौ' प्रलये 'इह'
अस्वतन्त्रवर्गे 'किञ्चनापि' जीवो जडं वा नासीत् । नन्विदमयुक्तं, जी-
वादेः नित्यस्य सत्त्वादित्यत आह—मृत्युरिति । प्रलये मृत्युनामा ह-
रिः जीवाद्यावरकत्वेनासीत् । अत आवृतत्वान्नासीदित्युक्तमिति नानु-
पपत्तिरिति भावः । 'सः आत्मनः' इति पदच्छेदः । 'मन्त्रेष्वङ्यादे-
रात्मनः' इत्यालोपः । तथा च 'सः' प्रभुर्विष्णुरात्मनो 'मनसा' स्वे-
च्छयैवापोऽस्राक्षीत् । 'तासु' अप्सु 'महत्तरं' स्वार्थे तरप् । महत्
स्थूलं 'अण्डं' ब्रह्माण्डं निर्ममे । 'तत्र' अण्डे संवत्सराख्यं ब्रह्माणम-
सृजदित्यन्वयः । नामेत्यनेन सम्यग्वत्सभूतान् रमयतीति व्युत्पत्त्या
संवत्सरशब्दश्चतुर्मुखे प्रसिद्ध इत्युच्यते । अत्रासामर्थ्यपरिहाराय—
प्रभुरिति । 'तं' चतुर्मुखं 'अत्तुं' भक्षयितुं 'व्याददात्' व्यावृतम् वि-
ष्णुः । तदा ब्रह्मा 'विरुराव' भाणिति शब्दमकरोदित्यर्थः । हेति अ-
स्यार्थस्य श्रुतिप्रसिद्धतां सूचयति । अथ आरावकरणानन्तरं 'तत्कृ-
पया' तस्मिन् चतुर्मुखे कृपया विष्णुस्तमजग्ध्वा सृष्टिक्रियायाम योज-
यत् । 'स विभुः' चतुर्मुखो हरये हरेरद्यार्थे भुवनमसृजत् । यद्वा—
भुवनमसृजत, सृष्टं तद्धरयेऽर्पितवानिति शेषेण योजना । ब्रह्मवैवर्त इत्य-
नन्तरं यत उक्तमिति शेषः । अस्यातोऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्व-
सिद्धिरित्यध्याहृतसाध्येनान्वयः ॥
॥ इति अत्तृत्वाधिकरणम् ॥

[ अधि - ३. सू - १०. ] दीपिकासहितम्. १७५
३. अधिकरणम् ॥
( १ ) सर्वात्तैकः पर उक्तः ।
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे
[ परार्धे ।
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धकर्मफलभोक्तृत्वलिङ्ग-
स्य विष्णौ समन्वयः प्रतिपाद्यते । पूर्वाधिकरणश्रुतिसङ्गतिं विषयवा-
क्योदाहरणपूर्वकं विषयं सूचयति—सर्वेति ॥ यस्मात् 'परः' पर-
मात्मा 'एकः' एकत्वसङ्ख्यायुक्तः 'सर्वात्ता' सर्वसंहर्ता च, तस्मा-
त्प्रकृतिप्रत्ययार्थयोस्तत्र योगात् सर्वात्तेत्यादिक्रियालिङ्गबोधकशब्दवा-
च्यत्वेनोक्त इत्यर्थः । सर्वात्तेत्युक्त्यैवार्थात्पातेत्यप्युक्त इति भावः ।
ततः किमित्यत आह—ऋतमिति । तत्रेत्यादौ संयोज्यम् । तथा च
'तत्र' सर्वात्तृत्वमध्ये प्रविष्टं तद्विशेषभूतं पातृत्वं यत्रोक्तं तत्र कठ-
के 'ऋतं पिबन्तौ' इत्यत्र 'पिबन्तौ' कर्मफलसारभोक्तारौ द्वौ प्रती-
येते इति योजना । द्विवचनेन द्वित्वबोधादिति भावः । अनेन युक्तम-
त्तृत्वं भगवतस्तत्र प्रकृतिप्रत्ययार्थयोरुपपत्तेः । इह तु कर्मबन्धविधुरे
परमात्मनि प्रकृत्यर्थस्य निर्भेदे प्रत्ययार्थस्य चायोगान्न तस्य द्विवच-
नान्तपिबच्छब्दवाच्यतेति पूर्ववैषम्येन प्रत्यवस्थानाद्वा पूर्वमर्थादुक्त-
स्य पातृत्वस्यान्यमात्रनिष्ठत्वे ऽसम्भवादन्यस्मिन्नपि सत्त्वेऽतिव्याप्ते-
र्वा आक्षेपाद्वा पूर्वाधिकरणेनास्य सङ्गतिः, पातृत्वाख्यविषयश्च सूचि-
तो भवति । विषयवाक्ये जन्यजनकभावः षष्ठ्यर्थः तथा च 'सुकृत-
स्य लोके' सुकृतनिर्मिते पुण्यकार्ये तत्त्वप्रदीपरीत्या सुकृतनिमित्ते श-
रीरे हृदयगुहां प्रविष्टौ गुहायामपि 'परमे' सर्वजीवोत्तमे आ ऋध्
आर्धः परेभ्यो रुद्रादिभ्य आर्धः परार्धः । तस्मिन्नतिपूर्णे वायाविति शे-
षः । तथा च तत्र प्रविष्टौ हृदयगुहाश्रितवाय्वधिष्ठानाविति यावत् ।
'स हायस्तः पितुरर्धमेयाय' (छा.५-३-४.) इति तत्त्वप्रदीपोदाहृतश्रुतेः
परब्रह्मावासत्वात्तदन्यजीवाभिमन्यमानत्वात्परार्धे शरीरमिति वा ।
ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते ।
ऋतं तु मानसो धर्मः..
इति गीताभाष्योदाहृतस्मृतेः शास्त्रविहितकर्मभिरागतं फलमुपलक्ष-
णया ऋतमित्युच्यते । तथा च 'ऋतं पिबन्तौ' भुञ्जानौ यावात्मा

१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रि
[ नाचिकेताः । ( कठ. १-३-१०. )
इति पिबन्तौ प्रतीयेते तौ काविति ॥
( २. ) उच्यते—
सू—ॐ ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ॐ ॥ ११ ॥
गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव ।
( ३ ) ' घर्मो समन्तात्त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा
न्तरात्माख्यभगवद्रूपविशेषौ वर्तते तौ ' ब्रह्मविदो ' ब्रह्मज्ञानिनः ' प
ञ्चाग्नयो ' देवपितृभूतमनुष्यब्रह्मयज्ञाख्यपञ्चमहायज्ञवन्तः । ' स
एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः'
( ) इत्यैतरेयोक्तपञ्चमहायज्ञा वा । द्युपर्जन्यधरापुंस्त्री
ख्यपञ्चाग्न

[ अधि - ३. सू - ११. ] दीपिकासहितम्. १७७
जगाम' (ऋ. १०-११४-१०) इत्यादिना तद्दर्शनात् ॥
तिमुदाहरति—घर्मेति ॥ भगवन्ताविति, कर्तुमिति च शेषः । त्रिवृतमि
त्यावर्तते । तथा च ' घर्मो' घर्मौ दीप्तौ घर्षकौ सङ्कोचकाविति वा ।
' घर्षणात्सर्वलोकस्य नृसिंहो घर्म उच्यते' इत्यैतरेयभाष्योक्तेः, घृष्ट
त्वेन घर्षकत्वेन च मिताविति तत्त्वप्रदीपोक्तेश्च । ' समन्ता' समन्तौ
व्याप्तौ प्रकृतिपुरुषकालव्यापिनौ । देशतः कालतः शक्तितश्च सम्पू
र्णौ यौ भगवन्तौ त्रिवृतं तेजोबन्नात्मकं शरीरं ' व्यापतुः ' विशेषेणा
पतुः देहहृदयगुहास्थानं प्राप्तौ । तयोः ' जुष्टिं' सेवां कर्तुं ' मातरिश्वा'
मुख्यवायुरपि त्रिवृतं जगाम । 'दिवो' देव्या वायुपत्न्याः स्तन्यं 'प
यो' 'दिधिषाणाः' पिपासन्तो देवाः द्विरूपं तमेकं 'अवेपन्' अन्वै
च्छन् । तं ' अर्कं' अरं अलं कं सुस्वरूपं ' सहसामानं ' सहवायुं वि
दुरिति श्रुत्यर्थः । गुर्वर्थदीपिकायां तु—समन्तादिति पदच्छेदं कृत्वा
विद्यमानाविति चाध्याहृत्य समन्ताद्विद्यमानौ व्याप्ताविति व्याख्यात
म् । तच्चिन्त्यम् । इत्यादिनेति । वाक्येनेति शेषः । आदिपदेन 'दिव
स्पयः' इत्युत्तरार्धं, तथा—
एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे ।
तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेल्हि स उ रेल्हि मातरम्॥
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । (ऋ.
१०-११४-४,,५० )
इत्यादिकं च गृह्यते । 'एकः सुपर्णः' सुष्ठु परमानन्दरूपो भग
वान् समुद्रमाविवेश । स इदं सर्वं जगत् 'विचष्टे' पश्यति । 'तं '
परमात्मानं पक्वेन मनसा अहमपश्यम् । 'तं माता' व्यञ्जकत्वाद्वा
क् सरस्वती 'रेल्हि' लिह्यत इव । स परमात्मा मातरं रेल्हि । ताव
न्योन्यं सम्बद्धौ भवतः । तथा च—भगवद्व्यञ्जकवाचोऽपि तद्व्यङ्ग्य
त्वमिति भावः । तमेव सुपर्णमेकं सन्तं 'विप्राः' विशेषेण प्रकृष्टाः
कवयो 'वचोभिः' शब्दैः 'बहुधा' केशवादिद्वादशधा स्थितं कल्प
यन्ति चिन्तयन्ति इत्यर्थः । तद्दर्शनादिति । हस्य विष्णोः द्विरूपतया
सर्वशरीरप्रवेशस्य उक्तत्वादित्यर्थः । तथा च—एकस्मिन्नपि विष्णौ
युक्तं रूपद्वयाभिप्रायेण द्विवचनमिति भावः । एवं तद्दर्शनात् इत्येतत्
तत्त्वप्रदीपरीत्या उक्तविशेषणे निर्णीतेविष्णौ द्विवचनदर्शनात् 'एकः
सुपर्णः' इत्यादिना तच्छब्देनेकवचनेन परामर्शदर्शनात् तस्यैव समु
२३

१७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
( ४) आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः ।
निविष्टो हृदये नित्यं रसं पिबति कर्मजम् ॥
इति बृहत्संहितायाम् ।
( ५) शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् ।
द्रनिवेशिनो निखिलभुवनदर्शिनः 'अपश्यमन्तितः' इति गुहाप्रविष्ट
त्वदर्शनादेकस्यैव बहुनामरूपदर्शनात् इत्यपि व्याख्येयम् ॥
(४) ननु विष्णौ रूपद्वयविवक्षया प्रत्ययार्थोपपत्तावपि प्रातिपदि
कार्थकर्मफलभोक्तृत्वायोगात् न 'ऋतम्' इति वाक्यप्रतिपाद्यत्वं त
स्येत्यत आह—आत्मेति ॥ एक एव हरिः देहजीवरूपोपाधिभेदात्
आत्मान्तरात्मेति रूपभेदेन 'द्विधास्थितो' द्विधाभूतः । देहजीवयोर्हृ
दये निविष्टः । यद्वा—टीकारीत्या उपाधिभेदविवक्षामन्तरेणैव

[ अधि - ३. सू - ११. ] दीपिका सहितम्. १७९
पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित् ॥
इति पाद्मे ॥
( ६ ) 'यो वेद निहितं गुहायाम्' ( तै. २-१०) इत्यादिना
केः । तथा च—पूर्णानन्दरूपस्यास्य विष्णोः 'चेष्टा' ऐश्वर्यं क्वचि-
त्काले देशे केनापि साकल्येन 'न ज्ञायते' न चिन्त्यते इत्यर्थः । तथा
च—ऐश्वर्यबलेन पूर्णानन्दस्यापि सुखभोगो युक्त इति भावः ॥
यद्वा—विष्णोर्भोक्तृत्वाभ्युपगमे 'अनश्नन्नन्यः' ( मु. ३-१-१० )
इति श्रुतिविरोध इत्यत आह—शुभमिति ॥ पराधीनभोगाभावविषयं
अशुभभोगाभावविषयं वा तद्वाक्यमिति भावः । न च 'नीचोच्चतैव
दुःखादेर्भोग इत्यभिधीयते । नासौ नीचोच्चतां याति' इति वाक्यवि-
रोधः, सुखभोगस्योच्चतारूपत्वादिति वाच्यम् । विष्णौ जीवसमवेते
भोगे स्वीकारमात्राभ्युपगमेन उच्चतासम्पादकविक्रियाविशेषानभ्युप-
गमात् । उक्तं हि तत्त्वप्रदीपे—न च 'अनश्नन्नन्यः' इति श्रुतिविरोधः ।
न हि पराधीनतया भोगो, नाप्यप्रियभोगो, न च तन्निमित्तोच्चनीचता
विष्णोः, किन्तु—जीवसमवेते भोगे स्वीकारमात्रमुच्यत इति । यद्वा-
नीचोच्चतासम्पादको भोगः स्वीयतया साक्षात्कारः, स चाभिमानयु-
तो विवक्षितः, न चासावीश्वरे इति न विरोधः । पाद्म इत्यनन्तरं उ-
क्त्वादिति शेषः । तथा च—न श्रुतियुक्तिविरोध इति भावः ॥
( ६ ) ननु कथं गुहानिविष्टत्वलिङ्गात्पिबतो विष्णृत्वनिश्चयः, त-
स्य जीवेऽपि योगादित्यत आह—यो वेदेति ॥ विष्णोरेव गुहानिहित-
त्वमत्र ग्राह्यमिति चोपस्कर्तव्यम् । आदिशब्देन 'आत्माऽन्तरात्मा' इ-
ति 'श्रोत्रं चक्षुः' इति 'अहं वैश्वानरो भूत्वा' इत्यादिसमृतिर्गृह्यते ।
तथा च-इत्यादिना विष्णोरेव प्रसिद्धं गुहानिहितत्वमत्र ग्राह्यमिति इ-
ममर्थं सूत्रकारो हिशब्देन दर्शयतीत्यर्थः । तथा च—हृदयगुहास्थत्व-
मात्रस्य जीवे सम्भवेऽपि न तदिह हेतुत्वेन गृह्यते । किन्तु—श्रुत्यादि-
प्रसिद्धं मोक्षजनकज्ञानप्रकारीभूतं प्राधान्येन गुहानिहितत्वमेव । तच्च
जीवे निरवकाशमिति भावः ॥
सूत्रे समन्वयसूत्रात्तुशब्दमात्रमनुवर्तते । आत्मानवित्यवर्तते ।
तथा च 'आत्मानौ' आधेयं सुखं मात्यनुभवतीति व्युत्पत्त्या आत्मश-
ब्दोक्तशुभकर्मफलभोक्तारौ 'आत्मानावेव' आत्मान्तरात्माख्ये विष्णुरूपे
एव, न तु जीवेश्वरौ । कुतः ? हि यस्मात्तौ हृदयगुहां प्रविष्टौ तस्मात् ।

१८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
प्रसिद्धं हिशब्देन दर्शयति ॥ ११ ॥
(७) सू—ॐ ॥ विशेषणाच्च ॥ ॐ ॥ १२ ॥
न हि जीवेऽपि गुहानिविष्टत्वलिङ्गं सम्भवतीति वाच्यम् । तस्य श्रु-
त्याद्यप्रसिद्धत्वात् । तत्र प्रसिद्धस्यैव ग्राह्यत्वात् । विष्णोस्तु ‘यो वे-
द’ इति श्रुत्यादिप्रसिद्धत्वादिति हिशब्दार्थः । ननु विष्णौ पिबन्तावि-
ति द्विवचनानुपपत्तिः । न च रूपद्वयाभिप्रायेण तदुपपत्तिरिति वा-
च्यम् । विष्णोस्सर्वशरीरेष्वेकरूपेण प्रवेशेन द्विरूपेण प्रवेशस्या-
सिद्धत्वादित्याशङ्कयाह—तद्दर्शनादिति । तस्य हरेर्द्विरूपतया शरीर-
हृदयगुहास्थत्वस्य लिङ्गस्य दर्शनात् ‘घर्मा’ इति श्रुत्युक्तत्वादिति
सूत्रार्थः । अत्र तत्तित्यस्यानुवृत्त्या श्रौतपदानुवृत्त्या च आनन्दमयस्त-
द्

[अधि - ३. सू - १२.] दीपिकासहितम्. १८१
'यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्' (कठ. १-
३-२.) इति ॥
(८) पृथग्वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः ।
यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् ।
अमिता हि गुणा यस्मान्नान्येषां तमृते प्रभुम् ॥
इति ब्राह्मे ।
(९) न च जीवे समन्वयोऽभिधीयते ।
पठित्वा तदभिप्रेतश्रुतिमेवोदाहरति—विशेषणाच्चेति ॥ इति विशेष-
णादित्यन्वयः । सूत्रे पिबतोर्गिति विपरिणामेनानुवर्तते । चो युक्तिस-
मुच्चये । तथा च 'यः सेतुः' इति श्रुतौ पिबतोरेकवचनबोध्येनैकत्वे-
न विशेषणादेक एव पाता । स च यजमानसेतुत्वब्रह्मत्वाक्षरत्वादिना
विशेषणाद्

१८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
( १० ) 'सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा स-
त्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः ' ॥ इ-
ति पैङ्गिश्रुतेः ।
( ११ ) 'आत्मा हि परमस्स्वतन्त्रोऽधिगुणो जीवोऽल्पश-
ध्याये इति तदर्थः । हेतौ, स्वव्याख्यानेन सह परव्याख्याननिराकरण-
स्य समुच्चये वा चशब्दः । तथा चासङ्गतिरिति भावः ॥
( १० ) ननु नात्र जीवे समन्वय कथनमसङ्गतम् । जीवेश्वरभेदस्या-
सत्यत्वेन तयोरैक्यात् । जीवसमन्वयस्यैव ब्रह्मसमन्वयरूपत्वादित्य-
त आह—सत्य इति ॥ 'सत्यं' सत्या 'भिदा' भेदः । यद्यप्यात्मजीव-
योः सत्यत्ववचनेनैव तत्स्वरूपभेदस्यापि सत्यत्वमुक्तं भवति । तथा-
ऽपि पुनः 'सत्यं भिदा' इत्युक्तिर्दर्शनप्रतीताभेदप्रतीतिनिरासतात्प-
र्यार्था शपथावृत्तिः । केचिद्भेदमसत्यमाहुः तत्कथमेतदित्यतस्तेषां प-
क्षे श्रुतिरभीक्ष्णं दूषणमभिधत्ते—मैवेति । 'आरुवण्यः' अरा दोषास्तद्व-
न्तः, आसमन्तादरशीला वा आरवः तैरसत्यभेदज्ञानिभिः विष्णुः सर्व-
धा वन्द्यो भजनीयो नेत्यर्थः । इति पैङ्गिश्रुतिरित्यनन्तरं यत इति शेषः ।
अस्य नासत्यो भेद इत्युत्तरेणान्वयः । एवं भाल्लवेयश्रुतिरित्यस्यापि ।
अत्र यद्यपि भागवततात्पर्ये—' सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ ।
स्थाणुर्होच्चक्राम स प्रजापतिमुवाच कोऽसि के स्मः कः सः इति । स
होवाच योऽस्मि ये स्थ यः स इति । अथैनमुपाक्रोशत् सत्यं भिदा स-
त्यं भिदा सत्यं भिदा ' इत्यादिना 'सत्यम्' इति वाक्यं भाल्लवेयश्रुत्य-
न्तर्गततया पठ्यते । भाष्यपुस्तकेऽपि क्वचित् 'सत्यम् ' इति वाक्यं
'आत्मा हि' इति वाक्यं च भाल्लवेयश्रुतित्वेनैव पठ्यते । न तु श्रुति-
द्वयस्थत्वेन । तथाऽपि अनयोस्तात्पर्यानुसारेणैकश्रुतिस्थत्वं, बहुतर-
पाठबलात् 'सत्य आत्मा' इति पैङ्गिश्रुतिः । 'आत्मा हि' इति भाल्ल-
वेयश्रुतिः । तात्पर्येोदाहृता तु अन्या तत्समाख्या रूपा चेत्यदोषः ।
'स्थाणुः' रुद्रः 'उच्चक्राम' ऊर्ध्वं जगाम । 'सः' रुद्रः 'प्रजापतिं'
ब्रह्माणं उपाक्रोशदुवाच । किमिति? त्वं 'कः' कीदृशः । वयं 'के'
कीदृशाः । सः विष्णुः 'कः' कीदृशः । किं भिन्न उताभिन्न इत्याश-
यः । क्रमेणोत्तरमाह—अहं 'यो' यादृशोऽस्मि सर्वदा तादृशोऽस्मि ।
यूयं 'ये' यादृशाः तादृशाः स्थ । 'सः' विष्णुर्यादृशो मया भवदादि-
भिन्न भिन्नस्तादृश एवेति श्रुत्यर्थः ॥
( ११ ) अत्रोक्तभेदसाधकप्रमाणत्वेन विरुद्धगुणोपन्यासाय 'आ-

[ अधि - ३. सू - १२. ] दीपिकासहितम्. १८३
क्तिरस्वतन्त्रोऽवरः' इति च भाल्लवेयश्रुतिः ।
( १२) यथेश्वरस्य जीवस्य भेदस्सत्यो विनिश्चयात् ।
एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि ॥
त्मा' इति द्वितीयवाक्यं प्रवृत्तम् । 'आत्मा' परमात्मा 'परमः' स्व-
तन्त्रः । 'अधिगुणः' पूर्णशक्तिः । अतएवोत्तरत्र परमत्वस्वतन्त्रत्व-
पूर्णशक्तित्वविरुद्धानां धर्माणां अल्पशक्तिरित्यादिपदैर्व्युत्क्रमेणाभिधा-
नं कृतम् ॥
( १२) अत्रैवार्थे पुराणवाक्ये पठति—यथेति ॥ अत्र षष्ठ्यन्तं
वाक्यं पाद्मस्थं, प्रथमान्तं स्कान्दगतमिति तत्त्वप्रदीपोक्तेः । 'मे मा-
म्' इत्याभ्यां तत्प्रकृतो ग्राह्यः । 'विनिश्चयात्' एवार्थोऽयं शब्दः । स-
त्यभेदाविति बहुव्रीहिः । यथा सत्यभेदौ तथैव विद्यमानानतिक्रमेण
ज्ञातेन 'सत्येन' सत्यभेदेन भेदसत्यत्वज्ञानाख्यकारणेनेति यावत् ।
सहकेशवा इत्येकं पदं, केशवसहिता देवाः 'त्रायन्तु' अस्मान् रक्ष-
न्त्वित्यर्थः । इत्यादेर्वाक्यान्नासत्यो भेदः, किन्तु—सत्य एवेति ज्ञायत
इत्यर्थः । अत्र पूर्ववाक्ये जीवेशभेदस्य दृष्टान्तत्वेनोपादानात्प्रामाणि-
कत्वं ज्ञायते, तादृशस्यैव दृष्टान्तत्वात् । द्वितीये तु विषयानतिक्रमेण
भेदसत्यत्वज्ञानस्य त्राणकारणत्वोक्त्या भेदसत्यत्वमपि ज्ञायत इति
प्रकृतसङ्गतिः । आदिपदेन ग्राह्यवचनानि तत्त्वप्रदीपे उदाहृतानि ।
तथाहि—
द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥
इत्यारभ्य—
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥
इति भगवद्वचनम् । ( भ. गी. १६-६ . . १९ . )
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
त आसुराः स्वयं नष्टाः जगतः क्षयकारिणः ॥
इति व्यासस्मृतिः ।
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।

| १२४ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २. ]
यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् ।
तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥
इत्यादेर्नासत्यो भेदः ॥ १२ ॥
पराशृणीतमचितो न्योषतं हतं नुदेथां निशिशीतमत्रिणः ।
( ऋ.७-१०४-१०)
इन्द्रा सोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
तपुर्वधेभिरजरेभिरत्रिणः ; ( ऋ.७-१०४-५.)
इत्यादिका श्रुतिः ।
एषां भिज्जगदीश्वरजीवानां नास्ति तेऽत्रिणः ।
स्वाज्ञानकल्पितजगत्परमेश्वरस्य
जीवस्य भेदकलुषीकृतभूमभावे ।
इति हि मायिनो वदन्ति ।
आच्छाद्य विक्षिपति संस्फुरदात्मतत्त्वं ।
जीवेश्वरस्य जगदाकृति तन्मृषैव ।
इत्यादि च ।
त्रियातुधानः प्रसितिं तयेत्वृतं यो अग्रे अनृतेन हन्ति ।
( ऋ.१०-८६-११.)
वाचा स्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं
यातुधानः । ( ऋ.१०-८७-१५.)
‘अथ ज्ञानोपसर्गः’ इत्यारभ्य ‘येचान्ये मिथ्यातर्कैर्दृष्टान्तैः कु
हकैरैन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैः सह न संवसेत् । प्रकाइया
ह्येते तस्करा अस्वर्ग्याः’ (मैत्री. ७ - ८.) इत्यादिश्रुतिशतैरन्धं तम
एव मायिनां गतिरिति निश्चीयते । तथा च स्कान्दे—
सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः ।
अन्यसाम्यविदो विष्णोः विष्णुद्वेष्टार एव च ।
सर्वे यान्ति तमो घोरं न तेषां उत्थितिः क्वचित् ॥ इति ॥
॥ इति गुहाधिकरणम् ॥

[ भाष्ये - ४. सू - १३. ] दीपिकाकहितम्. १८५
४. अधिकरणम् ॥
( १ ) आदित्ये विष्णुरित्युक्तम् । 'य एष आदित्ये पुरुषः
सोऽहमस्मि स एवाहमस्मि' ( छा. ४-११. ) इत्या-
दीनामग्निनामवादित्यादिस्थत्वमुच्यते ।
( २ ) अतोऽक्ष्यादित्ययोरैक्यात् ' य एषोऽन्तरक्षिणि पुरुषो
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे चक्षुरन्तःस्थत्वलिङ्गं ब्रह्मणि समन्वियते । श्रु-
त्यादिसङ्गतिं विषयवाक्यं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च दर्शय-
ति—आदित्य इति ॥ 'यश्चासावादित्ये' इत्यानन्दमयाधिकरणोदाहृ-
तायां तथा 'अन्तरादित्ये' इत्यन्तर्नयोदाहृतायां च श्रुतावानन्दमयोऽ-
न्तस्थस्थो विष्णुरादित्येऽस्तीत्युक्तमित्यर्थः । ततः किमित्यत आह—य
इति । तदित्यादौ संयोज्यम् । 'सोऽहं स एवाहम्' इत्यभ्यासोपन्यासः
पूर्वपक्षयुक्तिप्रदर्शनार्थः । प्रथमादिपदेन 'अथैनमन्वाहार्यपचनोऽनु-
शशास । य एष चन्द्रमसि पुरुषो दृश्यते । सोऽहमस्मि स एवाहम-
स्मि । अथैनमाहवनीयोऽनुशशास । य एष विद्युति पुरुषो दृश्यते सो
ऽहमस्मि स एवाहमस्मीति च वाक्यद्वयं गृह्यते । द्वितीयादिपदेन च-
न्द्रविद्युत्स्थत्वम् । यद्यपि आदित्यस्थत्वस्येव चन्द्रविद्युतस्थत्वयोर-
न्नेरक्षित्वसाधकत्वाभावात्तदुपादानं न प्रकृतोपयुक्तम् । तथा अ-
ग्नीनामिति बहुवचनं चानुपयुक्तम्, पूर्वपक्षे गार्हपत्यस्यैव अक्षित्व-
साधनेन गार्हपत्यादीनां त्रयाणां तस्यासाधनात् । चन्द्रविद्युतोरक्ष्ये-
कविद्वत्वाभावेन तत्स्थत्वस्याक्षित्वसाधकत्वाच्च । तथाऽपि आ-
दिशब्दद्वयं बहुवचनं च पूर्वपक्षे गार्हपत्यादिबह्निप्रभृतिरूपयुक्तिसूच-
नार्थम् । यथा अन्वाहार्यपचनाख्यदक्षिणाग्न्ययाहवनीयोः चन्द्रविद्यु-
त्स्थत्वमुच्यते, एवं गार्हपत्यस्यापि आदित्यस्थत्वमुच्यते इति दृष्टा-
न्तार्थं गार्हपत्यादीनां त्रयाणां क्रमेणादित्यादित्रितयस्थत्वे प्रसिद्धगा-
र्हपत्यस्यैवादित्यस्थत्वमुखेनाक्षित्वमागच्छतीति युक्तिप्रदर्शनार्थं
वा तदुपादानमिति न वैयर्थ्यमिति ध्येयम् ॥
( २ ) ततोऽपि किमित्यत आह—अत इति ॥ अस्य न सन्निहिते-
न 'ऐक्यात्' इत्यनेनान्वयः । प्रकृतस्य अत इत्यनेन परामृष्टस्यादित्यान्तः-
स्थत्वस्य ऐक्ये हेतुत्वायोगात् । किन्तु व्यवहितेन 'अग्नाव्यग्निरेवो-
२४

१८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
दृश्यते' ( छा. ४-१५. ) इत्यत्राप्यग्निरेवोच्यते ।
च्यते' इत्यनेनान्वयः । न केवलमादित्यवाक्य इत्यपेरर्थः । तथा च—
यदानन्दमयाख्यविष्णुनिष्ठतयोक्तमादित्यस्थत्वं तच्छान्दोग्ये 'य एष
आदित्ये पुरुषः सोऽहमस्मि' इत्यादावग्नीनां गार्हपत्याद्याग्नेरेव 'उच्य-
ते' प्रतीयते, न विष्णोः । कुतः ? यतोऽत्र 'अग्नीनां' गार्हपत्य-दक्षिणा-
ग्याहवनीयानां त्रयाणां क्रमेण आदित्यादिस्थत्वमुच्यते, अतः । त-
तः किम् ? यतोऽत्र गार्हपत्याख्याग्नेरेवादित्यस्थत्वमुच्यतेऽतो 'य ए-
षोऽन्तरक्षिणि पुरुषो दृश्यते' इति वाक्येऽप्यक्षिस्थत्वेन गार्हपत्याग्निरे-
वोच्यते, न स विष्णुः । श्रुतिगतऽहंशब्देनापि स एवोच्यते इति योज-
ना । तथा च पूर्वपक्षश्रुतिगताहंशब्दो अग्नावेव मुख्य इति तस्यैव ग्र-
हणमिति भावः । नन्वग्नेरादित्यस्थत्वेऽपि कुतोऽक्षिस्थत्वप्राप्तिरित्यत
आह—अक्ष्यादित्ययोरिति । 'आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्'
इत्यैतरेयश्रुतेश्चेतनाख्यादित्यमण्डलयोरादित्यचक्षुःपदोदितेकचेतना-
धिष्ठितत्वरूपैकधर्मेणैकविधत्वादित्यर्थः । यद्वा— 'अशनयोदाहृता-
दित्यस्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिका' ( ) इति
श्रुत्यनुसारेण तयोस्त्रिवृत्त्वधर्मेणैकविधत्वादित्यर्थः । तथा च—आ.दि-
त्यस्थत्वोक्त्या अर्थादक्षिस्थत्वमपि प्राप्तमेवेति भावः । यद्यपि 'सय-
श्चायम्' इति पूर्वोदाहृततैत्तिरीयश्रुतिस्थादित्यशब्दः उत्कृष्टचेतनमा-
त्रोपलक्षकतया व्याख्यातः । तथाऽपि अत्राधिकरणे सूर्याभिमन्यमाना-
दित्यमण्डलपरत्वमप्यस्याङ्गीकृत्य आक्षेपपरिहारौ कृतौ । अत एव टी-
कायामक्ष्यादित्ययोरेकविधत्वादित्युक्तम् । तत्त्वप्रदीपे तु-अक्षीन्द्रिय-
प्रेरकादित्ययोरेकत्वादिति यथाश्रुतमेव व्याख्यातम् । चन्द्रिकायाम-
पि तत्त्वप्रदीपानुसारेण देवतापरमेवाक्षिप्तम् । अत एव भाष्ये सन्न्या-
यरत्नावल्यां च अक्ष्यादित्ययोरेक्यादित्येवोक्तम्, न त्वेकविधत्वादि-
ति । अक्ष्यादित्ययोरेकविधत्वादिति टीकापि भाष्यानुसारेण प्रकारभेद-
निषेधमुखेन प्रकारैक्यपरा नेयेति पक्षान्तरमप्युक्तम् । तथा च—देवता-
परत्वे 'आदित्ये विष्णुरित्युक्तम्' इति भाष्यश्रुतिस्थाक्ष्यादित्यपद-
योश्च यथाश्रुत एवार्थः । मण्डलपरत्वे तद्भाष्यस्थादित्यपदं पूर्वोदा-
हृततैत्तिरीयश्रुतिस्थादित्यपदं च मण्डलपरतया व्याख्येयमिति विवे-
कः । अनेन छन्दोगश्रुत्युक्ताक्षिस्थत्वस्यान्यनिष्ठत्वाक्षेपमुखेनानन्दम-
यनयोदाहृतायां तैत्तिरीयश्रुतावर्थादुक्तस्यापि तस्यान्यनिष्ठत्वाक्षेपात् ।