पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 230, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - १२. ] दीपिकासहितम्. १८३
क्तिरस्वतन्त्रोऽवरः' इति च भाल्लवेयश्रुतिः ।
( १२) यथेश्वरस्य जीवस्य भेदस्सत्यो विनिश्चयात् ।
एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि ॥
त्मा' इति द्वितीयवाक्यं प्रवृत्तम् । 'आत्मा' परमात्मा 'परमः' स्व-
तन्त्रः । 'अधिगुणः' पूर्णशक्तिः । अतएवोत्तरत्र परमत्वस्वतन्त्रत्व-
पूर्णशक्तित्वविरुद्धानां धर्माणां अल्पशक्तिरित्यादिपदैर्व्युत्क्रमेणाभिधा-
नं कृतम् ॥
( १२) अत्रैवार्थे पुराणवाक्ये पठति—यथेति ॥ अत्र षष्ठ्यन्तं
वाक्यं पाद्मस्थं, प्रथमान्तं स्कान्दगतमिति तत्त्वप्रदीपोक्तेः । 'मे मा-
म्' इत्याभ्यां तत्प्रकृतो ग्राह्यः । 'विनिश्चयात्' एवार्थोऽयं शब्दः । स-
त्यभेदाविति बहुव्रीहिः । यथा सत्यभेदौ तथैव विद्यमानानतिक्रमेण
ज्ञातेन 'सत्येन' सत्यभेदेन भेदसत्यत्वज्ञानाख्यकारणेनेति यावत् ।
सहकेशवा इत्येकं पदं, केशवसहिता देवाः 'त्रायन्तु' अस्मान् रक्ष-
न्त्वित्यर्थः । इत्यादेर्वाक्यान्नासत्यो भेदः, किन्तु—सत्य एवेति ज्ञायत
इत्यर्थः । अत्र पूर्ववाक्ये जीवेशभेदस्य दृष्टान्तत्वेनोपादानात्प्रामाणि-
कत्वं ज्ञायते, तादृशस्यैव दृष्टान्तत्वात् । द्वितीये तु विषयानतिक्रमेण
भेदसत्यत्वज्ञानस्य त्राणकारणत्वोक्त्या भेदसत्यत्वमपि ज्ञायत इति
प्रकृतसङ्गतिः । आदिपदेन ग्राह्यवचनानि तत्त्वप्रदीपे उदाहृतानि ।
तथाहि—
द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥
इत्यारभ्य—
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥
इति भगवद्वचनम् । ( भ. गी. १६-६ . . १९ . )
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
त आसुराः स्वयं नष्टाः जगतः क्षयकारिणः ॥
इति व्यासस्मृतिः ।
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।