सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 214, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 214

[ अधि - १०. सू - ७. ] दीपिकासहितम्. १६७
सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः ॥
इति स्कान्दे ॥ ७ ॥
च्छन्दोमयत्वं च विष्णोर्युक्तमित्युक्तं भवति । ऐतरेयभाष्ये—' संपू-
र्णदर्शनशक्तेः चक्षुर्मयः संपूर्णश्रवणशक्तेः श्रोत्रमयः सत्यकामत्वात्
छन्दोमयः सर्वमन्तृत्वान्मनोमयः सर्ववक्तृत्वाद्वाङ्मयः पूर्णफलरूपत्वा
दात्मा' इति । तथा बृहद्भाष्ये—'मयद्प्राचुर्यार्थः स्वरूपे च' इति प्र-
तिज्ञाय—
सर्वद्रष्टृस्वरूपत्वाच्चक्षुर्मय इतीर्यते ।
सर्वश्रोतुस्वरूपत्वात्स श्रोत्रमय ईरितः ॥
इति । तथा भागवततात्पर्ये—
सर्वे विष्णौ स्थिता यस्मादतस्सर्वमयो ह्यसौ ।
इति प्रकारान्तरेण भगवति चक्षुर्मयत्वादिकं व्याख्यातम् । स्कान्दे
इत्यनन्तरं उक्तत्वादिति शेषः । अस्य जीवविलक्षणस्यापि इन्द्रि-
यस्वामित्वादिना चक्षुर्मयत्वादि युज्यते इति न तदयोग इत्युपस्कृत
साध्येनान्वयः ॥
अनेन 'सर्वेषु भूतेषु' इत्यत्रार्भकौकस्त्वोक्तेः 'चक्षुर्मयः' इत्या-
दौ च तस्य जीवस्य तेन चक्षुर्मयत्वादिना प्रकारेणोक्तत्वात् आदित्य
व्यपदेशाच्च अस्मादेव बाधकान्न सर्वत्रोक्तो नारायण इति चेत्—न,
कुतः ? अत्र बाधकाभावात्, अर्भकौकस्त्वादेश्च विष्णोवेवोपपत्तेः । न
चापरिच्छिन्नस्यार्भकौकस्त्वोक्तिः जीवविलक्षणस्य चक्षुर्मयत्वाद्युक्ति
श्च व्यर्थेति वाच्यम् । एवं निचाय्यत्वात् । चायृ पूजानिशामनयोः ।
तस्यैव तस्यापरिच्छिन्नस्यापि विष्णोः अल्पौकस्त्वचक्षुर्मयत्वादिना
प्रकारेणोपास्यत्वेन उपासनार्थं तदुक्तिसार्थक्यात् । न चापरिच्छिन्ने
जीवविलक्षणे च ब्रह्मणि अर्भकौकस्त्वाद्युक्तिर्न युज्यते इति वाच्यम् ।
यतः 'एवं च' एवमपि सर्वगतत्वेऽपि 'व्योमवत्' तदल्पौकस्त्वं च-
क्षुर्मयत्वादि युज्यते । यथा व्याप्तस्यापि व्योम्नोऽव्याकृताकाशस्य म-
ठायेकदेशावस्थितिः तथा ब्रह्मणो भूताशयादौ स्थितिरुक्ता । यतश्चै-
वं विष्णोर्जीवविलक्षणत्वेऽपि इन्द्रियस्वामित्वादिना चक्षुर्मयत्वाद्युक्ति-
र्युक्ताऽत इति सूत्रार्थ उक्तो भवति ॥