पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 215, कुल 1267 में से
संदर्भ में पढ़ें१६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ]
( २२ ) सू—ॐ ॥ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ॐ ॥ ८ ॥
जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिरिति
चेत्—न,
( २३ ) सामर्थ्यवैशेष्यात् ।
( २४ ) उक्तं च गारुडे—
सर्वज्ञालपज्ञताभेदात्सर्वशक्त्यल्पशक्तितः ।
( २२ ) पुनरुक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—सम्भोगेति ॥
अत्र पूर्वसूत्रादेवंशब्दमनुवर्त्य तद्बोधितमापादकं दर्शयन् पूर्वपक्षांशं
तावद्व्याचष्टे—जीवेति । जीवपरमात्मनोरित्यर्थः । एकेति । विष्णोः
सर्वशरीरस्थत्वे जीवेन सहैकशरीरस्थत्वप्राप्तेरिति भावः । संशब्द
स्य ‘व्यवहृपणोस्समर्थयोः’ इत्यत्रेव समानार्थत्वमाश्रित्याह—समा
नेति । परस्य जीवसमानभोगप्राप्तिर्बाधिकाऽस्तीति शेषः । अतो जीव
पक्ष इवेश्वरपक्षेऽपि बाधकसाम्यान्नायं सर्वगत इति वाक्यशेषः । प
रिहारांशं व्याचष्टे—नेति । नेश्वरस्य समानभोगप्राप्तिरित्यर्थः ॥
( २३ ) कुतो नेत्यतस्तत्र हेतुत्वेन वैशेष्यादित्यंशं योजयति—साम
र्थ्येति ॥ स्वार्थे ष्यञ् । विशेषिणो भाव इति वा । तथा च परस्य स
मानभोगाप्राप्तौ जीवादपि सामर्थ्यवैशेष्यादित्यर्थः ॥
( २४ ) किं तत्सामर्थ्यवैशेष्यं, येन समानभोगाप्राप्तिरित्यत आह—
उक्तमिति ॥ न केवलं सूत्रे जीवेशयोर्भोगसाम्याभावः, तत्र हेतुत्वेन
सामर्थ्यवैशेष्यं चोक्तम्, किन्तु गारुडे चेति समुच्चयार्थश्चः । किमु
क्तमित्यतस्तत्पठति—सर्वज्ञेति । सर्वज्ञत्वाल्पज्ञत्वरूपभेदकधर्माभ्या
मित्यर्थः । प्राप्तस्य बाधकस्य परिहाराय विष्णोः सामर्थ्ये सत्यपि प्र
थमे प्राप्तिस्तावत्स्यादेव अग्निस्तम्भवतो दाहप्राप्तिवत् । साऽपि भगव
ति न सम्भवति । तस्य सार्वज्ञेनैव दृष्टबाधकपरिहर्तृत्वसम्भवादिति भा
वेनेह सार्वज्ञोक्तिः, न हेतुत्वेन, हेतुस्तु सर्वशक्तित्वम् । तलः तसि
ल्श्च प्रत्येकमन्वयः । ईश्वरस्य जीवेन सहैकशरीरस्थत्वेऽपि दुःखप
रित्यागेन सुखमात्रभोगे स्वातन्त्र्यं हेतुः । जीवस्य चोभयानुभवे पा
रतन्त्र्यं हेतुरिति विवेक्तव्यम् । ‘सम्भोगः’ समानभोगः । गारुड इ
त्यन्वयः । ‘इति च’ इति चशब्दपाठे तत्र पूर्वोक्तेन समुच्चयार्थश्च
कारः । अनेन यतो यथा एकस्य जीवस्य सर्वशरीरस्थत्वे सर्वसमान
भोगप्राप्तिः बाधिकाऽनुपपत्तिः सूत्रोक्ताऽस्ति । तथा एवमीशस्य