सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 218, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 218

[ अधि - २. सू - ९. ] दीपिकासहितम्. १७१
( ३ ) अत्रोच्यते—
सू—ॐ ॥ अत्ता चराचरग्रहणात् ॥ ॐ ॥ ९ ॥
( ४ ) न हि चराचरस्य सर्वस्यात्तृत्वमदितेः ।
( ५ ) स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु ।
वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा ॥
इति स्कान्दे ।
( ६ ) एकः पुरस्ताद्य इदं बभूव
यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये
प्रकृतिः ' अक्षरो' देहतोऽविनाशित्वादुच्यते इति गीतावाक्यस्यार्थः ।
दिक्शब्दितानां पूर्वादिचतुर्दिगवस्थितभगवद्बाहूनां 'वत्सं' ततो जा
तं 'वायुं' मुख्यप्राणमहं 'वेद' जानामीत्यर्थः । लक्ष्मीवाक्यमेतत् ॥
( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत्रेति ॥ इति चोद्ये समाधा
नमुच्यते सूत्रकृता इति शेषः । अनेन सूत्रेऽत्रोच्यते इति शेषो दर्शि
तः । तत्सूत्रं पठति—अत्तेति । तत्स्वित्यनुवर्तते, विपरिणम्यते च । त
था चात्र वाक्ये यः 'अत्ता' संहर्तोच्यते स विष्णुरेव । कुतः ? 'सर्वं वा
अत्ति' इति 'चराचरस्य' चेतनाचेतनरूपस्य विश्वस्याद्यतया संहार्य
तया 'ग्रहणा'च्चराचरात्तृत्वलिङ्गादिति यावदिति सूत्रार्थः ॥
( ४ ) चराचरस्याद्यतया ग्रहणेऽपि कुतो नादितेस्तदत्तृत्वमिति
लिङ्गस्य सावकाशत्वशङ्कां निराह—न हीति ॥ हिशब्दः प्रसिद्धौ । च
राचरस्येति सूत्राक्षराण्यनूद्य श्रुत्यनुसारेण सर्वस्येति व्याख्यानम् ।
न च सामान्यपदेन व्याख्यानं व्यर्थमिति वाच्यम् । सूत्रस्य श्रुतिवि
संवादप्रतीतिनिरासार्थत्वात् । ' अदितेः ' देवमातुः ॥
( ५ ) चराचरात्तृत्वं विष्णोरपि कुतः सिद्धमित्यत आह—स्रष्टे
ति ॥ 'पुंसां परः' तेभ्य उत्तमो 'वासुदेवः' कृष्णः 'एक एव' नि
खिलजगतः एकः स्वतन्त्रः 'स्रष्टा' सृष्टिकर्ता तथा 'पाता' रक्षिता
तुश्चार्थे । अत्ता च । 'वासुदेवेतरे' ब्रह्माद्यास्तु 'अल्पस्य' जगदेक
देशस्यास्वातन्त्र्येण सृष्ट्यादिकर्तारो भवन्ति । स्वातन्त्र्यापेक्षया ने
त्यर्थः । इति स्कान्दे इत्यनन्तरं उक्तत्वादिति वाक्यशेषः ॥
( ६ ) स्पष्टार्थत्वात्प्रथमं स्मृतिमुदाहृत्यात्रैवार्थे श्रुतिमप्याह—ए
क इति ॥ एक इत्यस्यावृत्तिः, इदमित्यस्याप्यावृत्तिपरिणामौ । तथा