सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 221, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 221

[१७४] ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २.]

सोत्मनो मनसाऽस्राक्षीदप एव जनार्दनः ॥
शयानस्तासु भगवान्निर्ममेऽण्डं महत्तरम् ।
तत्र संवत्सरं नाम ब्रह्माणमसृजत्प्रभुः ॥
तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ।
अथ तत्कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ॥
सोऽसृजद्भुवनं विश्वमद्यार्थं हरये विभुः ॥
इति ब्रह्मवैवर्ते ॥ १० ॥

प्रकरणत्वनिश्चय इत्यतोऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्वादिति भावेन
तस्य तल्लिङ्गत्वे स्मृतिमाह—नेहासीदिति ॥ 'आदौ' प्रलये 'इह'
अस्वतन्त्रवर्गे 'किञ्चनापि' जीवो जडं वा नासीत् । नन्विदमयुक्तं, जी-
वादेः नित्यस्य सत्त्वादित्यत आह—मृत्युरिति । प्रलये मृत्युनामा ह-
रिः जीवाद्यावरकत्वेनासीत् । अत आवृतत्वान्नासीदित्युक्तमिति नानु-
पपत्तिरिति भावः । 'सः आत्मनः' इति पदच्छेदः । 'मन्त्रेष्वङ्यादे-
रात्मनः' इत्यालोपः । तथा च 'सः' प्रभुर्विष्णुरात्मनो 'मनसा' स्वे-
च्छयैवापोऽस्राक्षीत् । 'तासु' अप्सु 'महत्तरं' स्वार्थे तरप् । महत्
स्थूलं 'अण्डं' ब्रह्माण्डं निर्ममे । 'तत्र' अण्डे संवत्सराख्यं ब्रह्माणम-
सृजदित्यन्वयः । नामेत्यनेन सम्यग्वत्सभूतान् रमयतीति व्युत्पत्त्या
संवत्सरशब्दश्चतुर्मुखे प्रसिद्ध इत्युच्यते । अत्रासामर्थ्यपरिहाराय—
प्रभुरिति । 'तं' चतुर्मुखं 'अत्तुं' भक्षयितुं 'व्याददात्' व्यावृतम् वि-
ष्णुः । तदा ब्रह्मा 'विरुराव' भाणिति शब्दमकरोदित्यर्थः । हेति अ-
स्यार्थस्य श्रुतिप्रसिद्धतां सूचयति । अथ आरावकरणानन्तरं 'तत्कृ-
पया' तस्मिन् चतुर्मुखे कृपया विष्णुस्तमजग्ध्वा सृष्टिक्रियायाम योज-
यत् । 'स विभुः' चतुर्मुखो हरये हरेरद्यार्थे भुवनमसृजत् । यद्वा—
भुवनमसृजत, सृष्टं तद्धरयेऽर्पितवानिति शेषेण योजना । ब्रह्मवैवर्त इत्य-
नन्तरं यत उक्तमिति शेषः । अस्यातोऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्व-
सिद्धिरित्यध्याहृतसाध्येनान्वयः ॥
॥ इति अत्तृत्वाधिकरणम् ॥