प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
विषयक्रमः १५
शब्दविचारः ३१४
अहेतुकविनाशः ३१७
अनुपलब्धिचिन्ता ३१८
आगमविचारः ३२२
पौरुषेयत्वविचारः ३२५
अपौरुषेयत्वविचारः ३२६
वेदप्रामाण्यनिराकरणम् ३२६
सम्बन्धविचारः ३२८
कुमारिलमतखण्डनम् ३३२
स्फोटनिरसनम् ३३६
भाट्टमतनिराकरणम् ३४७
जैमिनीयमतनिरासः ३६०
४. परार्थानुमाननामा
चतुर्थः परिच्छेदः
आचार्यदिङ्नागसम्मते
परार्थानुमानलक्षणे स्वदृष्टग्रहणफलम् ३६३
अर्थग्रहणफलम् ३६८
पक्षलक्षणविचारः ३६८
इष्टशब्दग्रहणप्रयोजनम् ३७३
स्वयंशब्दग्रहणप्रयोजनम् ३७८
शब्दाप्रामाण्यविचारः ३८०
सहानिराकृतग्रहणप्रयोजनम् ३९२
बाधायाश्चातुर्विध्यम् ३९२
आगम-स्ववचनयोस्तुल्यत्वम् ३९२
१६ प्रमाणवार्त्तिके
प्रतीतिबाधा ३९८
प्रत्यक्षबाधा ४०४
सामान्यविचारः ४०५
पक्षदोषविचारः ४१०
हेतुनिरपेक्षः पक्षदोषः ४१०
अवयविनिरासः ४११
नैयायिकपक्षलक्षणे दोषः ४१५
प्रतिज्ञालक्षणे दोषः ४१८
सामान्यचिन्ता ४२०
हेतुलक्षणविचारः ४२६
हेतुलक्षणम् ४२६
हेतुभेदाः ४२९
कार्यस्वभावप्रभेदनिर्देशफलम् ४३०
‘विवादाद् भेदसामान्ये’ इत्यस्य व्याख्यानम् ४३२
साध्याभावः साधनाभावेन न व्याप्तः ४३३
सामग्रीशक्तिभेदाद् वस्तूनां नानात्मता ४४५
अनुपलब्धिविचारः ४४९
स्वभावानुपलब्ध्या विषयिप्रतिषेधः ४५१
विशिष्टवेदनादेव विशेषावगतिः ४५३
दृश्यानुपलब्धिः सद्व्यवहारबाधिका ४५४
भावस्वभावविचारः ४५६
संक्षिप्तसंकेतविवरणम्
मनोरथनन्दिनो वृत्तौ ये ये ग्रन्था इहोद्धृताः ।
तेषां संक्षेपसंकेतः स्फुटं विव्रियतेऽधुना ॥
संकेत: नाम प्रकाशनस्थानम्
क० कर्णकगोमिकृतटीका किताबमहल, अलाहाबाद
दी० नि० दीघनिकायो नालन्दासंस्करणम्
न्या० सू० न्यायसूत्राणि } अस्मत्सम्पादितम्,
न्या० द० न्यायदर्शनम् } भारतीयविद्याप्रकाशनम्, काशी
न्या० मु० टी० न्यायमुखटीका अमुद्रिता
पाठा० पाठान्तरम्
प्र० वा० प्रमाणवार्त्तिकम् इदमेव संस्करणम्
प्र० स०, प्र० समु० प्रमाणसमुच्चयः महिशूरतः प्रत्यक्षपरिच्छेदान्तो मुद्रित
म० व० महावग्गो नालन्दासंस्करणम्
मा० द० मालवणियासम्पादिता
स्वोपज्ञवृत्तिः हिन्दूविश्वविद्यालयः, काशी
रा० राहुलसांकृत्यायनसम्पादिता
मनोरथनन्दिवृत्तिः बी० ओ० आर० सोसायटी, पटना
वि० का० पा० विज्ञानकायपादः अमुद्रितः
श्लो० वा० श्लोकवार्त्तिकम् चौखम्भासंस्करणम्
由于本页图像严重泛黄、褪色且曝光过度,字迹极度微弱变淡(接近完全隐没),绝大部分文字已无法准确辨认。以下为依稀可见的版面结构与部分残存文字转写:
[विषयानुक्रमणिका / ग्रन्थसूची...]
[...........................................................................]
॥ ................................................................... ॥
[विषय / सूत्र] .................................... [पृष्ठाङ्क]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[—— ❖ ——]
(注:该页墨迹褪色过于严重,对比度极低,无法做出高保真度的准确逐字识读。建议通过数字图像处理增强对比度后重新识别。)
पाठसंशोधनम्
वृत्तिस्था वार्त्तिकस्थाश्च पाठाः कौतस्कुता इह ।
गुरुकृपालवेनाप्ता विलिख्यन्ते यथास्मृति ॥
पृष्ठे पंक्तौ मुद्रितः पाठः उचितः पाठः
३ १९ अविसंवादनमुक्त० विसंवादनमुक्त०
१६ १९ सदृशेन यादृशेन
१७ २० कारणावस्थाया० कारकावस्थाया०
२९ १९ विकारात् अविकारात्
३१ २१ विशेषे विशेषेण
३३ १७ गुणेऽपि विगुणेऽपि
३४ १८ ०पक्षेणाश्रया० ०पक्षे नाश्रया०
३७ १९ ०वरणाधारादी० ०वरणधारणादी०
३८ १५ स्वरूपं सुरूपं
४० १, १० ०ऽप्यपर्यायः ०ऽप्यपर्यायाः
४० ६, २० संख्यादितद्वतः संख्यादि तद्वतः
५० २० तस्या तस्य
५५ १९ तस्याद्वेषादेः तस्य द्वेषादेः
६५ २१ अनेनात्मनि अनेनानात्मनि
६५ २२ इत्यनेनानित्य० इत्यनेन नित्य०
८२ २० तेन न
८६ २५ नित्यदुःखादे० अनित्यदुःखादे०
९० ११ भवितव्यम् ॥ भवितव्यं गमनेनावश्यम् ॥
९२ ७ स कोपदृष्टिः सत्कायदृष्टिः
९२ १५ सुखादयः दुःखादयः
९४ २१ दोषैर्दृष्टः दोषैर्दुष्टः
१०१ १६ परोक्षेऽन्ये परोक्षेऽर्थे
१०२ १८ कर्म० सामान्यं न कर्म० न सामान्यं
१०४ १३ सम्प्रति व्यति० संवृतिव्यति०
? No, it's नु!
Wait, what is the letter before it?
Is it श्रु?
Wait, look at Col 3: ०श्रुनुभव०?
Wait, why would Col 4 be ०श्र्वानुभव० or ०श्चानुभव०?
Wait, what if Col 3 is ०श्रुभव०? No, there is definitely a letter there.
Wait, let's look at the first letter of Col 3:
०
Then: श with a tick, but wait, look at the loop:
Is it श? It's श् + न? श्नु?
Wait, could it be ०श्वनुभव० -> ०श्वानुभव०?
Look at Col 3: ० श्व with NO आ mātrā, but wait, does it have नु?
०श्वनुभव०!
Wait, why does Col 3 look like ०श्रुनुभव०?
Look at the र stroke: there is NO र stroke, it's a smudge?
Wait, look at the bottom of the first letter in Col 3:
It's श with a subscript व? Wait, in Devanagari, श्व is written as श with
[ २१ ]
पृष्ठे पंक्तौ मुद्रितः पाठः उचितः पाठः
२६९ १९ विपक्षे न विपक्षे
२७४ ८ प्रत्यग्रदृष्टं प्रत्यक्षदृष्टं
२७६ १७ ह्यनुत्वातितकार्यः ह्यनुत्पादितकार्यः
२९१ ८ कार्यञ्च कार्यश्च ( ? )
३१० १९ शेषस्य विशेषस्य
३४५ १ ०ऽभाववाशित्व० ०ऽभावनाशित्व
३५८ ३ निबन्धमम् निबन्धनम्
३५८ ९ ब्रवीमिति ब्रवीमीति
३६६ ४ लुप्तो लुप्तौ
४१६ ७ पयसोदनं पयसौदनं
४२६ ५ ०विशेषाभ्यां ०विशेष्याभ्यां
[ ८६ ]
अशुद्ध पाठः शुद्ध पाठः पंक्ति पृष्ठ
किंचि त् किंचित् १८ ३४२
केवलानाम केवलानाम् ५ ३७०
दीर्घकालिकत्वात् दीर्घकालिकत्वात् ८ ४०९
( १ ) यतोऽस्य यतोऽस्य ४ ४११
विप्रतिपत्ति विप्रतिपत्तिः १४ ४१८
विशेषाभावात् ० ० विशेषाभावात् ८ ४२७
प्रकाशनम् प्रकाशनम् ३ ४२८
निमित्तितः निमित्तितः १ ४२९
विन्दु बिन्दु ४ ४३१
विप्रकृष्टार्थ विप्रकृष्टार्थ ४ ४६४
प्रमाणप्रवृत्तौ० प्रमाणप्रवृत्तौ० ५ ४६४
प्रमाणवार्त्तिकम्
( मनोरथनन्दिवृत्तियुतम् )
प्रकीर्णकगणधर
(अवशिष्टगणधर)
ॐ नमो मञ्जुश्रियै ॐ
प्रमाणवार्त्तिकम्
मनोरथनन्दिवृत्तिसहितम्
प्रमाणसिद्धिनामा
प्रथमः परिच्छेदः
मङ्गलम्
विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ १ ॥
विमुक्तावरणक्लेशं दीप्ताखिलगुणश्रियम् ।
स्वैकवेद्यात्मसम्पत्तिं नमस्यामि महामुनिम् ॥
स्वयमपि कृतिना¹ महद्भिरन्यैरपि गमितो बहुविस्तरैर्न योऽयम् ।
तदपि च सुगमो न मद्विधानामिति विवृत्तिच्छलतः करोमि चिन्ताम् ॥
अहमपि न निजैकलाभलुब्धो न च परकृत्यरसामिलाषमुक्तः ।
फलति पुनरियं परार्थवाञ्छाव्रततिरभीष्टफलानि पुण्यभाजाम् ॥
शास्त्रादावविघ्नेन तत्समाप्त्यर्थं भगवति प्रसादजनने श्रोतृजनानुग्रहार्थं च
स्तुतिपूर्वकमाचार्यो नमस्कारश्लोकमाह—( विधूतेत्यादि ) ।
विधूतम् = विध्वस्तम्, अनुत्पत्तिकधर्मतामापादितम्, कल्पना = ग्राह्यग्राह-
काध्यारोपः, सैव जालं बन्धनहेतुत्वात् यासां ता विधूतकल्पनाजालाः । एतेन
धर्मकाय उक्तः; द्वयशून्यताया धर्मधातुत्वात्, तदधिगमस्य धर्मकायत्वात् ।
गम्भीराश्च खड्गश्रावकाद्यविषयत्वात्; उदाराश्च सकलज्ञेयसत्त्वार्थव्यापनादिति
१. कृतिनां—रा० ।
२ प्रमाणवार्तिके
अनुबन्धचतुष्टयनिरूपणम्
प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम्,
नानर्थ्यैव सुभाषितैः परिगतो विद्वेष्ट्यपोष्यमलैः ।
गभीरोदाराः । आभ्यां साम्भोगिकनैर्माणिककायावुक्तौ; तयोरेव स्वरूपत्वात् ।
विधूतकल्पनाजाला गभीरोदारा मूर्तयो यस्य स विधूतकल्पनाजालगम्भीरो-
दारमूर्तिः । एतेन स्वार्थसम्पदुक्ता; त्रिकायलक्षणत्वात् तस्याः ।
समन्तम् = निरवशेषम्, भद्रम् = कल्याणं परार्थसम्पत्सम्भारलक्षणं यस्मा-
दसौ समन्तभद्रः । अनया भगवन्नामव्युत्पत्त्या परार्थसम्पदभिहिता । समन्ततः
स्फरन्तीति समन्तस्फरण्यः त्विषः इव¹ त्विषो देशना यस्य स समन्तस्फरण-
त्विट् । वस्तुतत्त्वावभासनोपायता च त्विग्देशनयोः साधर्म्यम् । अनेन परार्थ-
सम्पदुपायो दर्शितः; देशनाद्वारेण भगवता जगदर्थकरणात् । एतेन स्तुतिरुक्ता;
असाधारणानां स्वपरार्थसम्पत्तितदुपायनामुपदर्शनात् । सर्वत्र नमःशब्दयोगा-
च्चतुर्थी । अनेन नमस्कारोऽभिहितः ।
यदा तु समन्तभद्रशब्दो रूढ्या बोधिसत्त्वविशेषे वर्तते, तदापि पद-
व्याख्यानं पूर्ववदेव । अयं तु विशेषः—विधूतकल्पनाजालत्वं बोधिसत्त्वभूम्या-
वरणप्रहाणतो वेदितव्यम् । गाम्भीर्यं तु खड्गश्रावकाविषयत्वात् । औदार्यं तु
दशभूमीश्वरबोधिसत्त्वमाहात्म्यातिशयः । ( यद्यपि ) कायत्रयं तु बोधिसत्त्वाना-
मप्यस्ति; प्रकर्षनिष्ठागमनात् तु भगवतां व्यवस्थाप्यते । देशना च प्रसिद्धैव
तेषाम् ॥ १ ॥
श्रोतॄदोषबाहुल्याच्छास्त्रेण परोपकारमपश्यन् सूक्ताभ्यासभावितचित्तता-
मेवात्मनः शास्त्रारम्भकारणं दर्शयन् वक्रोक्त्या दोषतापनयनेन शास्त्रे श्रोतॄन् प्रवर्त-
यितुमाह—प्रायो भूयान् , बाहुल्येन वा जनः प्राकृतेषु बहिःशास्त्रेषु सक्तिः =
अभिष्वङ्गो यस्य स प्राकृतसक्तिः । अनेन कुप्रज्ञत्वं श्रोतॄदोषः उक्तः । अप्रति-
बला = शास्त्रार्थग्रहणं प्रत्यशक्ता प्रज्ञा यस्यासावप्रतिबलप्रज्ञः, अनेनाज्ञत्वमुक्तम् ।
केवलं नानर्थ्यैव सुभाषितैः; किन्तु सुभाषिताभिधायिनं ( प्रति ) ईर्ष्या
१. तावत्—रा० ।
प्रमाणसिद्धिः ३
तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम्¹,
सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ २ ॥
प्रमाणलक्षणम्
१. अविसंवादि ज्ञानं प्रमाणम्
प्रमाणमविसंवादि ज्ञानम्;
अविसंवादनशब्दनिरुक्तिः
अर्थक्रियास्थितिः ।
अविसंवादनम्;
परसम्पत्तौ चेतसो व्यारोषः, सैव मलश्चित्तमलिनीकरणात् । तैः परिगतो युक्तः
सन् विद्वेष्ट्यपि । ईर्ष्यामलैरिति व्यक्त्यपेक्षया बहुवचनम् । अनेन यथाक्रम-
मनर्थित्वममाध्यस्थ्यं चोक्तम् । तेन श्रोतृदोषकलापेन अयमारिप्सितो वार्त्तिकाख्यो
ग्रन्थः । परमुपकरोतीति परोपकार इति नोऽस्माकं चिन्तापि नास्ति ।
कथं तर्हि शास्त्रकरणे प्रवृत्तिः ? इत्याह—चेतश्चिरं दीर्घकालं सूक्तस्या-
भ्यासेन विवर्द्धितव्यसनं विस्तारिताभिष्वङ्गमिति हेतोरत्र वार्त्तिककरणेऽनु-
बद्धस्पृहं जाताभिलाषम् । एतेन कुप्रज्ञतादिदोषजातमात्मनो बोधिताः श्रोतारस्तत्-
परिहारेण शास्त्रे प्रवर्तिता एव भवन्ति ॥ २ ॥
अयमाचार्यो बृहदाचार्य्यप्रमाणसमुच्चयशास्त्रे वार्त्तिकं चिकीर्षुः स्वतः
कृतभगवन्नमस्कारः तच्छास्त्रारम्भसमये तदाचार्यकृतभगवन्नमस्कारश्लोकं²
व्याख्यातुकामः प्रथमं प्रमाणसामान्यलक्षणमाह—
ज्ञानं प्रमाणम्, नाज्ञानमिन्द्रियार्थसन्निकर्षादि । कीदृशम् ? अवि-
संवादि । विसंवादनं विसंवादः = वञ्चनम्, तद्योगाद् विसंवादि, न तथाऽ-
दोऽविसंवादि³ । अविसंवादनमुक्तमित्यर्थः ।
किं पुनः ? इत्याह—अर्थेत्यादि । यथोपदर्शितार्थस्य क्रियायाः
१. चेतस्ततः—रा० । २. सोऽयं नमस्कारश्लोकस्तत्र—
“प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।
कुतर्कसम्भ्रान्तजनानुकम्पया प्रमाणसिद्धिर्विधिवद्विधीयते ॥” (प्र० स० १. १.)
३. तथाऽसाववि०—रा० ।
शाब्दे ज्ञानेऽपि प्रामाण्यम्
शाब्देऽप्यभिप्रायनिवेदनात् ॥ ३ ॥
वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते ।
स्थितिः प्रमाणयोग्यता = अविसंवादनम् । अतश्च यतो ज्ञानादर्थं परिच्छिद्यापि
न प्रवर्तते, प्रवृत्तो वा कुतश्चित् प्रतिबन्धादेरर्थक्रियां नाधिगच्छति, तदपि
प्रमाणमेव; प्रमाणयोग्यतालक्षणस्याविसंवादस्य सत्त्वात् ।
सैव प्रमाणयोग्यता कथमसत्यामर्थक्रियाप्राप्तौ निश्चीयत इति चेत् ? यत्
तावदसकृद्व्यवहाराभ्यासाद् दर्शनमात्रेणोपलक्षितभ्रमविविक्तस्वरूपविशेषं साधना-
ध्यक्षम्, तस्य स्वतः एव प्रमाणयोग्यतानिश्चयः कृत्रिमाकृत्रिममणिरूप्यादितत्त्व-
निश्चयवत् । अनुमानस्य च साध्यप्रतिबद्धजन्मनो व्यभिचाराशङ्काविरहात् ।
अर्थक्रियानिर्भासं तु प्रत्यक्षं स्वत एवार्थक्रियानुभवात्मकम्, न तत्र परार्थ-
क्रियाऽपेक्ष्यत इति तदपि स्वतो निश्चितप्रामाण्यम् । अत एवार्थक्रियापरम्परा-
नुसरणादनवस्थादोषोऽपि दुःस्थ एव । यत्त्वनभ्यस्तदशायां सन्दिग्धप्रामाण्यम् ;
उत्पत्तौ तस्यार्थक्रियाज्ञानाद्, अनुमानाद्वा प्रामाण्यं निश्चीयते ।
एतच्चाविसंवादनं बाह्यार्थेतरवादयोः समानं प्रमाणलक्षणम् । विज्ञाननयेऽपि
साधननिर्भासज्ञानानन्तरमर्थक्रियानिर्भासज्ञानमेव संवादः । अतो विज्ञप्तिमात्रत्वे
प्रमाणेतरविभागव्यवहारोऽसङ्कीर्णः ।
ननु शब्दाद् १ गन्धरसस्पर्शान् १ चित्ररूपं च पश्यतो ज्ञानस्य परमार्थक्रिया-
ज्ञानं नास्तीति तत् प्रमाणं न स्यात् ? इत्याह — शाब्दे शब्दजनिते ज्ञानेऽपि
शब्दाद् गन्धादिविषयेऽपि अभिप्रायस्याभिप्रेतार्थक्रियाया निवेदनात् प्रतिपाद-
नात् प्रामाण्यम् । अर्थक्रिया हि क्वचित् स्वरूपप्रतिपत्तिरेव, क्वचित् ततोऽन्या
यथासम्भवं व्यवहारविषयः । तत्प्रमाणं च प्रामाण्यमिति नाव्यापकं प्रमाण-
लक्षणम् ॥ ३ ॥
ननु शब्दस्यार्थप्रतिबन्धाभावान्न प्रामाण्यं स्यात्, इष्यते च, अनुमान-
त्वात् ? इत्याह—वक्तृव्यापारो विवक्षा तस्य विषयो योऽर्थः समारोपितबही-
१-१. शब्दगन्ध०—रा० ।
प्रथम परिच्छेद: स्वार्थानुमान परिच्छेद (हेतु, व्याप्ति व तर्क)
प्रमाणसिद्धिः ५
प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ ४ ॥
गृहीतग्रहणान्नेष्टं सांवृतम्, धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि¹ ॥ ५ ॥
विषयाकारभेदाच्च धियोऽधिगमभेदतः ।
भावादेवास्य तद्भावे;
रूपो ज्ञानाकारः प्रकाशते बुद्धौ विवक्षात्मिकायाम् । तत्र शब्दस्य प्रामाण्यं
लिङ्गत्वम् । शब्दादुच्चरिताद् विवक्षितार्थप्रतिभासी विकल्पोऽनुमीयत इत्यर्थः;
तत्कार्यत्वात् तच्छब्दस्य । न पुनरर्थतत्त्वनिबन्धनम्; तत्प्रतिबन्धाभावात् ॥४॥
ननु 'घटोऽयम्' इत्यादिज्ञानात् प्रवर्तमानस्य सम्बन्धोऽस्त्येवेति² तत् प्रमाणं
स्यात् ? इत्याह—गृहीतग्रहणान्नेष्टं सांवृतं दर्शनोत्तरकालं सांवृतं विकल्प-
ज्ञानं प्रमाणं नेष्टम्; दर्शनगृहीतस्यैव ग्रहणात्, तेनैव च प्रापयितुं शक्यत्वात्
सांवृतमकिञ्चित्करमेव । कस्मात् पुनर्धियः प्रमाणतेष्यते, नेन्द्रियादेः ?
हेयोपादेयवस्तुविषयायाः प्रवृत्तेस्तत्प्रधानत्वात् ज्ञानप्रधानत्वात् धिय
एव प्रामाण्यम् । न हीन्द्रियमस्तीत्येव प्रवृत्तिः, किं तर्हि ? ज्ञानसद्भावात् ।
साधकतमञ्च प्रमाणम्; तस्याव्यवहितव्यापारत्वात् ॥ ५ ॥
एवं फलार्थिनां प्रवृत्तिव्यवहारकारित्वेन धियः प्रामाण्यं प्रतिपादितम्,
साम्प्रतमधिगमफलविभागकारित्वमाह—धियो विषयस्येवाकारो विषयाकारः
नीलादिः, तस्य भेदात् विशेषादधिगमस्यार्थप्रतीतेर्भेदाद् विशेषाद् धिय एव
प्रामाण्यम् । नीलस्वरूपं हि ज्ञानं नीलप्रतीतिः, अन्यादृशमन्यथा—इति धीरेव
प्रमाणम् ।
ननु यथाधिगमसाधनमाकारस्तथेन्द्रियमपि तदुत्पत्तेः ? अत आह—तस्या-
कारस्य भावेऽस्याधिगमस्य भावादेव स³ आकारः³ साधनम्; व्यवहितत्वात् ।
न त्विन्द्रियादि; तद्भावेऽपि ज्ञानानुत्पत्तावधिगमाभावात् ।
कश्चिदाह⁴—सर्वज्ञानानामबाधितत्वलक्षणं प्रामाण्यं स्वत एव सिध्यति;
१. तु०—प्र० वा० २.१०१. कारिका । २. संवादो०—रा० ।
३-३. रा० पुस्तके नास्ति । ४. मीमांसक इत्यर्थः ।
६ प्रमाणवार्त्तिके
मीमांसकमतखण्डनम्
स्वरूपस्य स्वतो गतिः ॥ ६ ॥
प्रामाण्यं व्यवहारेण;
बाधकारणदोषज्ञानाभ्यां क्वचित् तदपोद्यते, यथा—शुक्तिकायां रजतज्ञाने,
चन्द्रद्वयदर्शने वा । तच्चेदमयुक्तम् ; यतः—स्वरूपस्य स्वतो गतिः, न
प्रामाण्यस्य । स्वतो हि प्रामाण्यस्याभिव्यक्तिर्वक्तव्या, न तूत्पत्तिः; ज्ञानात्मभूतस्य
स्वस्मादुत्पत्तिविरोधात् । यदि च स्वतोऽबाधितत्वं प्रामाण्यमभिव्यक्त्या व्यवस्था-
पितम् , न तस्य बाधकानां सहस्रेणापि बाधो युक्तः । अथ सम्भवति बाधके
बाधकादर्शनं यत्र, तत्राबाधितत्वमपोद्यते¹ बाधकदर्शनेन ? एवं तर्हि बाधका-
दर्शनान्नाबाधितत्वम् , किं तर्हि ? बाधकाभावात् । तस्य चादर्शनादन्यत्र
साधनम् । तच्चेदसाधनम्, नाबाधितत्वं नाम प्रामाण्यम्, नाप्यस्य स्वतः सिद्धिः ।
अथ² प्रथमं बाधकादर्शनात् प्रसक्तमबाधितत्वं बाधदर्शनादपोद्यत इति ? किमत्रा-
युक्तम् ! ईदृश एव बाध्यबाधकभावः सर्वतः ॥
कीदृशोऽत्र प्रसङ्गार्थः ? किं सत्त्वम् ? उत सत्त्वनिश्चयः ? सम्भावनामात्रं
वा ? तत्र न तावदनयोः पक्षयोरपवादो युक्तः; सतः केनचिदपि बाधितुम-
शक्यत्वात् । अन्येऽपि न स्वतोऽबाधितत्वनिश्चयः; तद्विरुद्धत्वात् सम्भावनायाः ।
अनिश्चितमेव तत्राबाधितत्वं कथमन्यथोत्पद्यत इति चेत् ? न; तर्हि स्वतः-
प्रामाण्यनिश्चय इति यत्रापि बाधदर्शनं नास्ति तत्राप्यनाश्वास एव । एवं च
बाध्यबाधकभावः सदसत्तापक्षयोरसङ्गतो वेदितव्यः ॥ ६ ॥
यदि स्वरूपमात्रं स्वतो गम्यते, न प्रामाण्यम्, कथं तर्हि तदवगम्यम् ?
इत्याह—प्रामाण्यं व्यवहारेण अर्थक्रियाज्ञानेन । यस्य साधनज्ञानस्य तादा-
त्म्यादनुभूतेऽपि प्रामाण्ये साशङ्का व्यवहर्त्तारोऽनभ्यासवशादनुत्पन्नानुरूपनिश्चयाः,
तत्रार्थक्रियाज्ञानेन प्रामाण्यनिश्चयः । अन्यत्र तु विभ्रमशङ्कासङ्कोचादुत्पत्तावेव
स्वरूपस्य प्रामाण्यस्य स्वतो गतिरित्युक्तम् ।
१. ०मपोह्यते—इत्युचितः पाठः । एवमग्रेऽपि ।
२. अतः—रा० ।
प्रमाणसिद्धिः ७
शास्त्रप्रणयनफलम्
शास्त्रं मोहनिवर्तनम् ।
अथ वा¹—चक्षुर्विज्ञानेन रूपक्षण एको दृश्यते न भावी प्राप्यः, नापि
स्पर्शः, तत् कथमन्यदर्शनमन्यप्राप्त्या प्रमाणम्, एवं ह्यतिप्रसङ्गः स्यात् ।
अनुमानं च व्याप्तिग्रहणसापेक्षम्, व्याप्तिश्च प्रत्यक्षेण पुरोवर्त्तिरूपमात्रग्राहिणा कथं
शक्यग्रहा ! देशकालव्यक्तिव्याप्त्या च व्याप्तिरुच्यते—'यत्र यत्र धूमस्तत्र तत्राग्निः'
इति । प्रत्यक्षपृष्ठजश्च विकल्पो न प्रमाणम्, प्रमाणव्यापारानुकारी त्वसाविष्यते ।
यत्रायमध्यक्षव्यापारमतिक्रम्याधिकमारोपयति तत्र न प्रमाणम्; अमूलकत्वात् तस्य
प्रमाणमेयस्य । विजातीयव्यावृत्तेरध्यक्षेण दृष्टत्वादस्त्येव मूलमिति चेत् ? न;
सजातीयव्यावृत्त्या विशेषितत्वात् तस्याः। अन्यथा शाबलेयनाशम्प्रतिपत्या² प्रत्यक्षेण
गोमात्रनाशो व्यवस्थाप्येत । अनुमानाच्च व्याप्तिग्रहणेऽनवस्थापत्तिः । अत आह-
स्वरूपस्य स्वतो गतिः । स्वरूपमात्रं स्वतो गम्यते, न प्राप्यरूपसापेक्षं
प्रामाण्यं नाम किञ्चिदस्ति ।
कथं तर्हि तद्व्यवस्था ? इत्याह—प्रामाण्यं व्यवहारेण । सांव्यवहा-
रिकस्येदं प्रमाणस्य लक्षणम्, संव्यवहारश्च भाविभूतरूपादिक्षणानामेकत्वेन संवाद-
विषयोऽनविगीतः³ सर्वस्य । साध्यसाधनयोरेकव्यक्तिदर्शने समस्ततज्जातीयतथात्व-
व्यवस्थां संवादमवधारयन्ति व्यवहर्त्तारः, तदनुरोधात् प्रामाण्यं व्यवस्थाप्यते ।
तत्त्वतस्तु स्वसंवेदनमात्रमप्रवृत्तिनिवृत्तिकम् ॥
ननु यत्र तावदभ्यस्तसाधनज्ञानादिषु निरस्तभ्रमा व्यवहारिणस्तेषां स्वत
एव प्रामाण्यनिश्चयः, यत्त्वनभ्यस्तसाधनं ज्ञानम्, तस्यापि व्यवहारेणेति निष्फलं
शास्त्रप्रणयनम् ? इत्याह—( शास्त्रमित्यादि ) ।
यदि व्यवहारतः प्रमाणस्वरूपसिद्धिः, परस्परविरोधीनि लक्षणशास्त्राणि न
स्युः । तस्माच्छास्त्रेण लक्षणोपदर्शनात् तद्विषयः संमोहो निवर्त्तनीयः; येन
परलोकनिःश्रेयसादेर्व्यवहाराप्रसिद्धस्य सिद्धिर्भवति ।
१. “स्वरूपस्य सतो गतिः । प्रामाण्यं व्यवहारेण”—इति कारिकांशमन्यथापि
व्याचिख्यासुर्वृत्तिकार आह—अथ वेति ।
२. ०नासम्प्रति०—रा० । ३. ऽनवगीतः—रो० ।
९ प्रमाणवार्त्तिके
२. अज्ञातार्थप्रकाशकं ज्ञानं प्रमाणम्
अज्ञातार्थप्रकाशो वा;
सामान्यज्ञानेऽप्रामाण्यम्
स्वरूपाधिगतेः परम् ॥ ७ ॥
प्राप्तं सामान्यविज्ञानम्,
तदेवमविसंवादनं प्रमाणलक्षणमुक्तम् । इदानीमन्यदाह—(अज्ञातेत्यादि) ।
प्रकाशनं प्रकाशः, अज्ञातस्य अर्थस्य प्रकाशो ज्ञानम्, तत् प्रमाणम् । अर्थ-
ग्रहणेन द्विचन्द्रादिज्ञानस्य निरासः । अज्ञातग्रहणेन सांवृतस्यावयव्यादिविषयस्य;
पृथग् गृहीतानामेव रूपादीनामेकत्वेन विकल्पनात् । स्मरणं च पूर्वगृहीतार्थ-
विकल्परूपत्वान्नाधिकग्राहि । गृहीते च प्राक्तनमेव प्रमाणम् । इदानीं तु स्मरणम-
प्रवर्तकम्; तस्यैव सन्देहात् ॥
नन्वविसंवादादेवाज्ञातार्थप्रकाशो ज्ञातव्यः, अन्यथा पीतशङ्खज्ञानमपि प्रमाणं
स्यात्, तथा चाविसंवादित्वमेव प्रमाणमस्तु, किमनेनाभिहितेन ? स्यादेतद् यदि
सम्भवित्वमात्रे लक्षणं स्यात्, किं नूद्दिष्टत्वेन ! अन्यथा ज्ञानत्वसत्त्वादिकमपि
लक्षणं स्यात् ।
नन्वविसंवादिभ्योऽज्ञातार्थप्रकाशकं ज्ञायते, न तु ज्ञानत्वादिभ्य इति पूर्व-
स्यापेक्षणीयता लक्षणेन, न तु परेषामिति विशेषः ? यद्येवम्, तदाऽविसंवा-
दित्वेऽप्यज्ञातार्थप्रकाशनमपेक्ष्यत¹ एव, नान्यथा सांवृतस्य निरासः शक्यः
कर्तुम् ? तस्मादुभयमपि परस्परसापेक्षमेव लक्षणं बोद्धव्यम् ॥ ७ ॥
ननु स्वलक्षणप्रतीतेरूर्ध्वं सामान्यविषयं ज्ञानमज्ञातार्थप्रकाशकत्वात् प्रमाणं
प्राप्तम्, तदेवाह—( स्वरूपेत्यादि ) । प्रमाणमिति शेषः । अत्राह—अज्ञात-
स्वलक्षणविषयं यज्ज्ञानं तत्प्रमाणम्, न ज्ञातविषयमित्यभिप्राय़ान्नातिप्रसङ्गः ॥
एवं तर्हि अनुमानमपि सामान्यविषयत्वात् प्रमाणं न स्यात् ? नैतदस्ति;
तदपि च स्वलक्षणमेवानित्यादिरूपतया² विषयीकरोति ॥
१. ०मपेक्षत--रो० ।
२. ०लक्षणमेवा०--रो० ।
प्रमाणसिद्धिः ९
अविज्ञाते स्वलक्षणे ।
यज्ज्ञानमित्यभिप्रायात्;
स्वलक्षणविचारतः ॥ ८ ॥
भगवति प्रामाण्यम्
तद्वत् प्रमाणं भगवान्;
अभूतविनिवृत्तये ।
भूतोक्तिः;
साधनापेक्षा ततो युक्ता प्रमाणता ॥ ९ ॥
ईश्वरादावप्रामाण्यम्
नित्येऽप्रामाण्यम्
नित्यं प्रमाणं नैवास्ति प्रामाण्यात्;
किं पुनरनधिगतस्वलक्षणविषयमेव¹ प्रमाणमिष्टम् ? स्वलक्षणविचारतो-
ऽर्थक्रियार्थिभिः स्वलक्षणमेव प्रमाणेनान्विष्यते; तस्यैवार्थक्रियासाधनत्वात् । यदेव
च तैरन्विष्यते तदेव शास्त्रे विचार्यते; सांव्यवहारिकप्रमाणाधिकारात् ॥ ८ ॥
यथोक्तद्विविधलक्षणमुक्तं यत् प्रमाणम्, तद्वद् भगवान् प्रमाणम्;
यथाभिहितस्य सत्यचतुष्टयस्याविसंवादनात्, तस्यैव परैरज्ञातस्य प्रकाशनाच्च ॥
यद्येवम्, नमस्कारश्लोके² ‘प्रमाणभूताय’ इति किमर्थम् ? इत्याह—
(अभूतेत्यादि) । भूतशब्दनिर्देशोऽभूतस्य नित्यस्य निवृत्त्यर्थम् । नित्यं
प्रमाणं नास्तीत्यर्थः ।
ततः साधनापेक्षा प्रमाणता युक्ता । भगवतश्च प्रामाण्यसाधनं वक्ष्य-
माणम् ॥ ९ ॥
कस्मात् पुनर्नित्यं प्रमाणं³ नैवास्ति ? आह—वस्तुनोऽर्थक्रियाकारिणः सतो
गतेः = ज्ञानस्य प्रामाण्यान्नास्ति नित्यं प्रमाणम् । अत्रैव कारणमाह—
१. पुनरधिगत०—रा० ।
२. प्रमाणसमुच्चयग्रन्थस्येति शेषः ।
३. नित्यमीश्वरं नैयायिकाः प्रमाणं मन्यन्ते ।
१० प्रमाणवार्त्तिके
वस्तुसङ्गतेः १ ।
ज्ञेयानित्यतया तस्या अध्रौव्यात्;
क्रमजन्मनाम् ॥ १० ॥
नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगतः ।
कथञ्चिन्नोपकार्यत्वात्;
अनित्येऽप्यप्रामाण्यम्
अनित्येऽप्यप्रमाणता ॥ ११ ॥
ज्ञेयस्य वस्तुनोऽर्थक्रियाकारित्वेनानित्यत्वात् तस्या वस्तुसङ्गतेरपि तज्ज-
न्याया अध्रौव्यादनित्यत्वात् ।
स्यादेतद्—अनित्यविषयमनित्यमेव ज्ञानं केवलम्, यस्य तत् ज्ञानं स
ज्ञाता नित्यो भविष्यति ? इत्याह—ज्ञानस्य नित्यात् ज्ञातुरुत्पत्तेर्विश्लेषात् २ ।
नित्यं हि सदैकरूपं यदि क्रमजन्मनां ज्ञानानामर्जनसमर्थम्, सकृदेव तानि
कुर्यात् ॥ १० ॥
अथ समर्थमपि नित्यं क्रमसहकार्यपेक्षया क्रमेण करोति ? तदयुक्तम्;
अपेक्षाया अयोगात् ।
कस्मात् सहकार्यापेक्षा न युक्ता ? इत्याह—नित्यस्य सर्वदाऽविशिष्ट-
स्वभावस्य परैः सहकारिभिः कथञ्चिन्नोपकार्यत्वात् क तदपेक्षा ! ततः सर्व-
ज्ञानानि सकृदेव कुर्यादित्यवार्यः प्रसङ्गः ॥
स्यादेतत्—सन्तानविशेषात्निसर्गसिद्धपरावरक्षणात्मकं साधनापेक्षाशून्यम-
नित्यमेव प्रमाणं भविष्यति ? इत्याह—अनित्येऽपि, अपिशब्दान्नित्येऽपि,
अप्रमाणता, साधनाभाव इत्यर्थः ॥ ११ ॥
ननु सन्त्येव साधनानि, यथा—स्थित्वाप्रवृत्तेः, संस्थानविशेषाद्, अर्थक्रिया-
साधनत्वात्, कार्यत्वादेश्च विमत्यधिकरणानि तनुभुवनकरणादीन्युपादानाद्यभिज्ञबुद्धि-
मत्पूर्वकाणि तुर्यादिवत् प्रासादादिवत् वास्यादिवत् घटादिवच्च—इत्येवमादीनि;
स्थित्वाप्रवृत्त्यादयः तुरीतन्त्वादिषूपादानाद्यभिज्ञबुद्धिमत्पूर्वकत्वमात्रेणोपलब्धव्याप्त-
१. वस्तुसङ्गतेः—रा० । २. अयोगादित्यर्थः ।