सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished274 पृष्ठ

इस ग्रन्थ के बारे में

प्रबोधचन्द्रोदय कृष्णमिश्र का संस्कृत रूपक नाटक है, जिसकी रचना ग्यारहवीं शताब्दी में चन्देल राजा कीर्तिवर्मा के समय में हुई मानी जाती है। इसकी विशेषता यह है कि इसके पात्र मनुष्य नहीं, मन के भाव और दार्शनिक तत्त्व हैं: विवेक, मोह, काम, क्रोध, दम्भ, अहंकार, शान्ति, करुणा, श्रद्धा और उपनिषद्। इनके संघर्ष के अन्त में विवेक और उपनिषद् के मिलन से प्रबोध रूपी चन्द्रमा का उदय होता है। इस प्रकार यह नाटक अद्वैत वेदान्त के मोक्ष-मार्ग को रंगमंच की भाषा में प्रस्तुत करता है।

छह अङ्कों में कथा मोह की सेना के उत्पात से आरम्भ होती है, दम्भ और अहंकार के व्यंग्यपूर्ण दृश्यों और विभिन्न पाखण्डी मतों के चित्रण से गुजरती है, शान्ति और करुणा द्वारा श्रद्धा की खोज, विवेक की सेना की तैयारी, मोह के विनाश और वैराग्य की विजय तक पहुँचती है।

यह चौखम्बा विद्या भवन, बनारस का १९५५ का संस्करण है जिसमें 'प्रकाश' नामक टीका जोड़ी गई है। भूमिका में टीकाकार बताते हैं कि उन्होंने नाण्डिल्लगोप और रामदास दीक्षित की दो पुरानी टीकाएँ और एक अंग्रेज़ी अनुवाद देखा था, पर सामान्य पाठक की सुविधा के लिए यह नई व्याख्या लिखी।

पृष्ठ 23
स्थायी लिंक
पृष्ठ 23 स्कैन

प्रथमोऽङ्कः ५
दिनीसमुद्धरणमहावराहरूपेण सकलदिग्विलासिनीकर्णपूरीकृतकीर्तिलता-
पल्लवेन समस्ताशास्तम्बेरमकणंतालास्फालनबहलपवनसम्पातनर्तितप्र-
तापानलेन श्रीमता गोपालेन । यथा खल्वस्य सहजसुहृदो राज्ञः कीर्ति-
वर्मदेवस्य दिग्विजयव्यापारान्तरितपरब्रह्मानन्दरसैरस्माभिः समुन्मीलि-
तविविधविषयरसास्वाददूषिता इवातिवाहिता दिवसाः । इदानीं तु कृत-
कृत्या वयम् । यतः—
अतिसामर्थ्यशालिनो ये नरपतयो राजानस्तेषां कुलमेव प्रलयमहार्णवः कल्पावसान-
समयसमुद्रस्तत्र निमग्नायाः लीनायाः मेदिन्याः पृथिव्या समुद्धरणे समुद्धारे महा-
वराहरूपेण आदिवराहतुल्येन । सकलराजन्यकुलाद्विजित्य पृथिवीं स्ववशीकृत-
वतेत्यर्थः । सकलाः सर्वाः या दिग्विलासिन्यो दिगङ्गनाः तासां कर्णपूरीकृतः कर्णाव-
तंसीकृतः कीर्त्तिलतापल्लवो यशोवल्लरीकिसलयो यस्य तेन, दिगन्तविश्रान्तयशसे-
त्यर्थः । समस्ताः निखिलाः आशास्तम्बेरमाः दिग्गजास्तेषां कर्णतालाः तेषामास्फाल-
नेन चालनेन बहलो बहुलीभूतः पवनो वायुस्तस्य सम्पातेन संसर्गेण नर्तितः समे-
धितः प्रतापानलो यस्य तादृशेन, दशदिक्प्रख्यातप्रतापेनेत्यर्थः । सकलसामन्तेत्यत्रा-
तिशयोक्तिः, बलवदरिनिवहेत्यत्र परम्परितरूपकम् । प्रबलतरेत्यादावुपमारूपकयोः
सङ्करः । सकलदिग्विलासिनीत्यत्र विशेषणे परिणामः । समस्ताशास्तम्बरेमेत्यत्राप्य-
तिशयोक्तिः । सहजसुहृदः—स्वभावसहृदयस्य । दिग्विजयव्यापारेण-जैत्रयात्रा-
प्रसङ्गेन । अन्तरितपरब्रह्मानन्दरसैः—विघ्नितात्मानन्दानुभवचमत्कारैः । समुन्मी-
लितविविधविषयास्वाददूषिताः—समुपस्थितनानाप्रकारक शब्दस्पर्श—प्रभृत्युपभोग-
कलुषाः । अतिवाहिता—गमिताः । कीर्त्तिवर्मयात्राप्रसङ्गव्यासक्ततायां सांसारिक-
सुखोपभोगासक्ततया ब्रह्मास्वादसमुत्थानन्दवञ्चितैरस्माभिः कलुषभावेनैव दिनानि
गमितानीत्याशयः । कृतकृत्याः—कीर्तिवर्मणो राज्ये स्थापनात स्वस्थचित्ताः ।
वयम् इत्यत्र ‘अस्मदो द्वयोश्च’ इत्येकत्वे बहुवचनम् । यतः स्वस्थताकारणं वर्णा-
यितुमिदम् ।
धराके उद्धारमें महावराहका रूप धारण किया है, सभी दिशारूप ललनाओके कर्णपूरका
स्थान जिसके यशको प्राप्त है, सकलदिग्गजके कर्णतालजनित वायुसे प्रेरित होकर जिसका
प्रतापानल नृत्य करता है, ऐसे श्रीमान् गोपाल ने आज्ञा दी है कि इस स्वभावसुहृद्
राजा कीर्तिवर्माकी दिग्विजय-यात्राके प्रसङ्गसे ब्रह्मानन्दपराङ्मुख होकर हमने नाना-
प्रकारके विषयरसोंसे दूषित दिन बिताये हैं, अब हम कृतकृत्य हो गये हैं; क्योंकि—

पृष्ठ 24
स्थायी लिंक
पृष्ठ 24 स्कैन

६ प्रबोधचन्द्रोदयम्
नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षा
रक्षावती क्षितिरभूत्प्रथितैरमात्यैः ।
साम्राज्यमस्य विहितं क्षितिपालमौलि-
मालार्चितं भुवि पयोनिधिमेखलायाम् ॥ ३ ॥
तद्यं शान्तरसप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामः । ततो
यत्पूर्वमस्मद्गुरुभिस्तत्रभवद्भिः श्रीकृष्णमिश्रैः प्रबोधचन्द्रोदयं नाम
नाटकं निर्माय भवतः समर्पितमासीत् तदद्य राज्ञः श्रीकीर्तिवर्मणः पुरस्ता-
नीता क्षयमिति० नृपतेः कीर्त्तिवर्मणः विपक्षाः शत्रवः क्षितिभुजः राजानः क्षयं
नीताः विनाशिताः, प्रथितैः स्वचातुर्यख्यातैः अमात्यैः क्षितिः पृथिवी रक्षावती सुर-
क्षिता अभूत् । पयोनिधिमेखलायाम् सागरवसनायाम् भुवि क्षितिपालमौलिमा-
लार्चितं राजशिरोभिरुह्यमानम् अस्य कीर्त्तिवर्मणः साम्राज्यम् मण्डलेश्वरत्वम् विहि-
तम् । शत्रुविनाशमन्त्रिन्यासौ कृत्वा कीर्त्तिवर्मणः साम्राज्यं स्थिरीकृतमित्यर्थः ।
'सम्राट् स्यान्मण्डलेश्वरः' । तस्य भावः साम्राज्यम् ॥ ३ ॥
तत्-कृतकृत्यत्वेन हेतुना । शान्तरसप्रयोगाभिनयेन-शान्तरसप्रचुरनाटकेन ।
विनोदयितुम्-प्रसन्नतां प्रापयितुम् ।
यत इत्यारभ्येच्छाम इत्यन्तेन सन्दर्भेण काव्यार्थसूचकैर्वचनैः समारोचनात्मकं
प्ररोचनाङ्गमुक्तम्, तथा हि—'नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षाः' इत्येतेन विवेक-
महाराजकर्त्तृको मोहविजयः सूचितः । 'रक्षावती क्षितिरभूत् प्रथितैरमात्यैः' इत्यनेन
यमाद्यष्टाङ्गयोगैरन्तःकरणशुद्धिः सूचिता । 'साम्राज्यमस्य विहितम्' इत्यनेन पुरु-
षस्य स्वरूपलाभरूपं सायुज्यं सूचितम् ॥
अस्मद्गुरुभिः-अस्माकमुपदेशकैः । तत्रभवद्भिः पूज्यैः । निर्माय विरचय्य ।
भवतः समर्पितम् । तुभ्यं दत्तम् । पुरस्तात् अग्रतः । अभिनेतव्यम्-प्रयोक्तव्यम् ।
इस राजाके सभी शत्रु मार दिये गये हैं, प्रसिद्ध मन्त्रियोंके हाथोमे पृथिवीकी रक्षाका
भार सौंप दिया गया है, सभी राजाओने इसके साम्राज्यको नतमस्तक हो मान लिया है,
जो साम्राज्य समुद्रपरिवृत पृथिवी व्यापी है ॥ ३ ॥
इसलिये अब हम शान्तरसके नाटकसे अपनेको विनोदित करना चाहते है । इसलिये
हमारे गुरु पूज्य श्रीकृष्णमिश्रने प्रबोधचन्द्रोदय नामका जो नाटक बनाकर आपको
दिया था उसे ही आज कीर्त्तिवर्माके सामने अभिनीत करें। सभासदों के साथ राजा भी

पृष्ठ 25
स्थायी लिंक
पृष्ठ 25 स्कैन

प्रथमोऽङ्कः
दभिनेतव्यं भवता। अस्ति चास्य भूपतेः सपरिषदस्तदवलोकने कुतू-
हलमिति। तद्भवतु। गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनुतिष्ठामि।
(परिक्रम्य, नेपथ्याभिमुखमवलोक्य) आर्ये, इतस्तावत्।
(प्रविश्य नटी)
नटी—एषास्मि। आज्ञापयत्वार्यपुत्रः को नियोगोऽनुष्ठीयतामिति।
(एसम्हि। आणवेदु अज्जउत्तो को णिओओ अणुचिट्ठियदु त्ति)
सूत्रधारः—आर्ये, विदितमेव भवत्या।
अस्ति प्रत्यर्थिपृथ्वीपतिविपुलबलारण्यमूर्च्छत्प्रताप-
ज्योतिर्ज्वालावलीढत्रिभुवनविवरो विश्वविश्रान्तकीर्तिः।
सपरिषदः 'परिषत् सभा, तया सहितस्य। तदवलोकने-प्रबोधचन्द्राभिधनाटक-
दर्शने। कुतूहलम्-उत्कण्ठा। एतावत्पर्यन्तं गोपालभूपालवाक्यानुवादः, इतः परतः
सूत्रधारोक्तिः। गृहिणीम्-स्वभार्याम्-नटीम्।
आज्ञापयतु-कथयतु। नियोगः-आदेशः। अनुष्ठीयताम्-सम्पाद्यताम्। कं तवा-
देशं पूरयामीति प्रश्नाशयः।
विदितम्-ज्ञातम्।
अस्ति प्रत्यर्थीति० प्रत्यर्थिनः शत्रुभूताः ये पृथ्वीपतयः राजानः तेषां विपु-
लम् बहुलं यद्वलम् सैन्यम् तदेव (दुःसञ्चारत्वसाम्येन) अरण्यं काननम् तस्मिन्
मूर्च्छन् वृद्धिं भजमानः प्रतापः पराक्रम एव ज्योतिः प्रकाशस्तस्य ज्वालया भासा
अवलीढम् आक्रान्तम् त्रिभुवनविवरम् लोकत्रयरूपं बिलं येन तादृशः, शत्रु-
संहारजन्ययशसा भुवनाभोगं पूरयन्नित्यर्थः। त्रिभुवने विवरत्वारोपः सुखव्या-
प्यतां ध्वनयितुम्, तेन च प्रतापप्रकर्षो व्यज्यते। विश्वविश्रान्तकीर्त्तिः संसारख्यात-
उस नाटक का अभिनय देखना चाहते हैं। अच्छा, तब तक घरसे गृहिणी को बुलाकर
संगीतका आयोजन कर दूं। (चलकर, नेपथ्यकी ओर)
आर्ये, जरा इधर तो आओ।
नटी—यह आई। क्या आदेश है?
सूत्रधार—आर्ये, जानती ही हो—
शत्रुराजगण सैन्यरूप वनमे प्रतापानलको विस्तृत करके उस प्रतापकी लपटों से
त्रिभुवन विवरको अतिक्रान्त करनेवाले विश्वविख्यात कीर्त्ति तथा केवल तलवारकी मददसे

पृष्ठ 26
स्थायी लिंक
पृष्ठ 26 स्कैन

८ प्रबोधचन्द्रोदयम्
: गोपालो भूमिपालान्प्रसभमसिलतामात्रमित्रेण जित्वा
साम्राज्ये कीर्त्तिवर्मा नरपतितिलको येन भूयोऽभ्यषेचि ॥४॥
अपि च—
अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालन-
व्यावलग्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः ।
उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल-
प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ५ ॥
यशाः गोपलस्तन्नामा अस्ति। येन असिलतामात्रमित्रेण केवलखड्गसहायेन भूमिपा-
लान् विरोधिरराज्ञः प्रसभं हठात् जित्वा विजित्य नरपतितिलकः राजमुख्यः कीर्त्तिवर्मा
भूयः साम्राज्ये मण्डलेश्वरपदे अभ्यषेचि अभिषिक्तः। यो गोपालः केवलखड्गसहाय-
तया निखिलानपि प्रतिबन्धकराज्ञो जित्वा भ्रष्टसाम्राज्यभावः कीर्त्तिवर्मा पुनः स्वपदे
साम्राज्यलक्षणे स्थापित इत्याशयः। एतेन परोपकारजन्यकीर्त्तिशालित्वमपि ध्वनि-
तम् । शार्दूलविक्रीडितं वृत्तम् , लक्षणमनुपदमेवोक्तम् ॥ ४ ॥
अद्यापीति० उन्मदाः प्रसन्ना मत्ताश्च या यातुधानतरुण्यो राक्षसललनास्तासां
चञ्चन्तः दीप्तिशालिनश्चला वा ये करा हस्तास्तेषामास्फालनं करतालिकाप्रदानार्थः
परस्परघातस्तेन व्यावलगन्ति चलन्ति यानि नृकपालानि नरमुण्डानि तेषां ताल-
रणितैः तालयुक्तशब्दैः नृत्यन्त्यः नृत्यपरायणाः पिशाचाङ्गनाः पिशाचस्त्रियो यासु
तादृश्यः रणक्षोणयः युद्धभूमयः अद्यापि युद्धस्य चिरवीतत्वेऽपि प्रचण्डानिलेन
महता वायुना प्रक्षुभ्यत् ससञ्चारम् यत् करिकुम्भकूटम् हस्तिशिरःसमुदयस्तस्य
कुहराणि बिलानि गहराणि वा तेभ्यो विततैः जृम्भमाणैर्नादैः शब्दै यस्य यशांसि
कीर्त्तिगाथाः गायन्ति । मत्ता यातुधानस्त्रियः करतालिका प्रदानेन यत्करांश्चालयन्ति
तेन तत्करभूषणीभूतानि नृकपालानि सतालं शब्दायन्ते, यदीयं तालमनुसृत्य
पिशाचाङ्गना यासु नृत्यन्ति तादृश्यो रणभूमयो यस्य गोपालभूपालस्य यशप्रबल-
वातचलितगजकुम्भास्थिकुहरनिर्यच्छिनदैर्गायन्तीत्यर्थः । महाभीषणं यस्य युद्धं तादृशो
समस्त विरोधी राजाओंको जीतकर कीर्त्तिवर्माको फिरसे राज्यासीन करनेवाले गोपाल
नामक भूपाल है ॥ ४ ॥
जहाँ मतवाली राक्षसस्त्रियाँ ताल देती हैं जिससे उनके हाथमें स्थित नरकपाल
खनखना उठते हैं, पिशाचस्त्रियाँ नाचा करती हैं, हस्तिमुण्डोंके अस्थिपञ्जर हवासे भरकर
रणभूमिमें शब्द करते हैं, मानो-रणभूमि गोपाल की कीर्त्ति गा रही हो ॥ ५ ॥

पृष्ठ 27
स्थायी लिंक
पृष्ठ 27 स्कैन

प्रथमोऽङ्कः ६
तेन च शान्तपथप्रस्थितेनात्मनो विनोदार्थं प्रबोधचन्द्रोदयाभिधानं
नाटकमभिनेतुमादिष्टोऽस्मि । तदादिश्यन्तां भरता वर्णिकापरिग्रहाय ।
नटी—( सविस्मयम् ) आर्यपुत्र, आश्चर्यमाश्चर्यम् । येन तथाविधनिज-
भुजबलविक्रमैकनिर्भर्त्सितसकलराजमण्डलेन आकर्णाकृष्टकठिनकोदण्ड-
दण्डबहुलवर्षच्छरनिकरजर्जरीयतुरङ्गतरङ्गमालम् , निरन्तरनिपतत्तीक्ष्ण-
विशिखनिचित्तमहास्त्रपर्यस्तोत्तुङ्गमातङ्गमहामहीधरसहस्रम् , भ्रमद्भुज-
दण्डमन्दराभिघातघूर्णमानसकलपत्तिसलिलसंघातम्, कर्णसेनासागरं
गोपाल इत्याशयः । अतिशयोक्तिरलङ्कारः । पूर्वोक्ताविपरीतं वृत्तम् ॥ ५ ॥
तेन गोपालभूपेन । शान्तपथप्रस्थितेन शममार्गप्रचलितेन । आत्मनः स्वस्य ।
अभिनेतुम्-प्रयोक्तुम् । आदिष्टः-आज्ञापितः । आदिश्यन्ताम्-आज्ञाप्यन्ताम् ।
भरताः अभिनेतारो नटाः । वर्णिकापरिग्रहाय-यथोचितवेषग्रहणाय । यस्य भूमिका
येन नटेनालम्बनीया तेन नटेन स्वानुकार्यस्य वेषः सम्पाद्यतामित्याशयः ।
सविस्मयम्—साश्चर्यम् , विस्मयश्च गोपालभूपालस्य युद्धरसिकस्य शमपथ-
प्रस्थानश्रवणजन्मा बोध्यः ।
तथाविधोऽतिविख्यातपराक्रमो यो निजभुजबलविक्रमः स्वबाहुपराक्रमस्तेनै-
केन केवलेन तेन ( परकीयसाहाय्यनिरपेक्षम् ) निर्भर्त्सितम् परास्तम् सकलराज-
मण्डलं समस्तनृपचक्रं येन तादृशेन । इदं तृतीयान्तं राज्ञो विशेषणम् । आकर्णाकृष्टः
कर्णपर्यन्तं नमितः यः कठिनकोदण्डदण्डः कठोरधनुर्दण्डः ततः कोदण्डदण्डाद्
बहुलम् प्रचुरम् वर्षतः निर्गच्छतः शरनिकरेण बाणसमूहेन जर्जरीताः क्षत-
विक्षताः तुरङ्गाः अश्वा एव तरङ्गमाला यस्य तादृशम् इदमग्रेतनं च द्वितीयान्तकुलं
समुद्रत्वेन रूप्यमाणस्य राजनिवहस्य विशेषणम् । निरन्तरं सततं निपतन्ति परा-
पतनशीलानि तीक्ष्णानि शिताग्राणि विशिखानि बाणाः निचितानि प्रहृतानि महा-
स्त्राणि आग्नेयादीनि तैः पर्यस्ता इतस्ततः क्षिप्ता उत्तुङ्गमातङ्गा दीर्घा दन्तिन एव
महामहीधरसहस्रम् महोच्चपर्वतकुलम् यस्येति विग्रहः, कर्णसेनासागरगतं हस्तिकुल-
अब वह शान्ति के उपासक हो रहे हैं, उन्होंने आत्मविनोदार्थ प्रबोधचन्द्रोदयके
अभिनय करने की आज्ञा दी है । इसलिये नटोंको तैयार होने की आज्ञा दो ।
नटी—( विस्मयके साथ ) आर्यपुत्र, आश्चर्य है, आश्चर्य ! जिसने अपने उद्दाम बाहु
पराक्रमसे समस्त राजमण्डलको नीचा दिखाया, शत्रु सागरमें कान तक आकृष्ट बाणसे
शरवृष्टि करके तरङ्गोपम तुरङ्गोंको जर्जरित किया, निरन्तर गिरनेवाले बाणों तथा अन्य
महास्त्रोंसे शैलतुल्य गजराजोंको उलट-पुलट दिया, भुजदण्डरूप मन्दर पर्वत घुमाकर
सकल पदातिसेनारूप जलराशिको नचा दिया, इस प्रकार कर्णसेना सागरको मथकर

पृष्ठ 28
स्थायी लिंक
पृष्ठ 28 स्कैन

१० प्रबोधचन्द्रोदयम्
निर्मथ्य मधुमथनेनेव क्षीरसमुद्रमासादिता समरविजयलक्ष्मीः । तस्य
साम्प्रतं सकलमुनिजनश्लाघनीयः कथमीदृश उपशमः संवृत्तः । (अज्जउत्त,
अच्चरियं अच्चरियं । जेण तथाविहणिअभुअबलबिक्कमैकणिब्भच्छिदसअलराअमण्डलेण
आयण्णाकिट्ठकठिणकोअण्डदण्डबहलघरिन्तरसरणिअरजज्जरिदतुरं अतरं अमालं
णिरन्तरणिवडन्ततिक्खविशिखणिखित्तमहस्सपक्खत्थतुरङ्गमाअङ्गमहामदीहरसहस्सं
भमन्तभुअदण्डमन्दराहिहादघुमन्तसअलपत्तिसलिलसङ्घादं कण्णसेणासाअरं णिम्म-
हित्थ मधुमहणेणेव खीरसमुदं आसादिदा समरविजअलच्छी । तस्स संपदं सअल-
मुणिअणसलाणिज्जो कहं एरिसो उवसमो संवृत्तो )
सूत्रधारः—आर्ये, निसर्गसौम्यमेव ब्राह्मं ज्योतिः कुतोऽपि कारणा-
त्प्राप्तविकारमपि पुनः स्वभावमेवावतिष्ठते । यतः सकलभूपालकुलप्रलय-
कालाग्निरुद्रेण चेदिपतिना समुन्मूलित चन्द्रान्वयपार्थिवानां पृथिव्या-
माधिपत्यं स्थिरीकर्त्तुमयमस्य संरम्भः । पश्य तदा—
रूपं पर्वतसमूहं यस्तीक्ष्णप्रहारवशत इतस्ततः क्षिप्तवान् इत्यर्थः । अमन् भुज-
दण्ड एव मन्दरस्तेनाभिघातः प्रहारस्तेन घूर्णमानं सकलं पत्तिसलिलं पादसञ्चारि-
सैन्यजलम् तस्य सङ्घातः समुदायो यत्र तादृशम् । भ्रमता बाहुदण्डेन यः कर्णसेना-
सागरस्य पदातिसैन्यरूपं सलिलसमुदयं क्षोभयामास तमित्यर्थः । कर्णसेनासागरम्
कर्णारव्यनृपतिसैन्यचयम् । निर्मथ्य-विद्राव्य । मधुमथनेन-विष्णुना । समरविजय-
लक्ष्मीः-युद्धजयश्रीः । भगवान् विष्णुर्मन्दराचलेन समुद्रमुन्मथ्य यथालक्ष्मीं वृत-
वानयमपि गोपालस्तथैव कर्णसेनां विद्राव्य युद्धे जयश्रियमापदिति भावः । सकल-
मुनिजनश्लाघनीयः-सकलर्षिगणप्रशस्यः । उपशमः-शान्तिनिष्ठा ।
निसर्गसौम्यम्-स्वभावशान्तम् । ब्राह्मम्-परब्रह्मसम्बन्धि । कुतोऽपि कारणात्
कस्माच्चिदपि हेतोः प्राप्तविकारम्-विकृतम् । स्वभावम्-स्वरूपं निर्मलत्वमविकारित्व-
लक्षणम् । सकलभूपालकुलप्रलयकालाग्निरुद्रेण-सकलराजकदर्थनसँलग्नेन । चेदि-
पतिना-कर्णेन । चन्द्रान्ववायपार्थिवानाम्-चन्द्रवंशिनृपानाम् । स्थिरीकर्त्तुम्-
विजयलक्ष्मीका वरण किया, जैसे विष्णुने समुद्र मथकर लक्ष्मी पाई थी । अब वही मुनियों
द्वारा प्रशंसित शान्तिके पुजारी कैसे बन गये ?
सूत्रधार—स्वभावतः शान्त ब्राह्मतेज किसी कारणवश विकार प्राप्तकर पुनः अपने
स्वभावका अवलम्बन कर लेता है । गोपाल भूपने भी सभी भूपोंको सतानेवाले चेदिराजसे
उपद्रुत कीर्त्तिवर्मांको फिरसे पदस्थ करनेके लिये ही इस प्रकारका क्रोधमय व्यापार
कियाँ था । देखो—

पृष्ठ 29 स्कैन

कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः ।
स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः ॥ ६ ॥
अपि च । भगवन्नारायणांशसंभूता भूतहिताय तथाविधाः पौरुष-
भूषणाः पुरुषाः क्षितिमवतीर्य निष्पादितकृत्याः पुनः शान्तिमेव प्रपद्यन्ते ।
यथा परशुराममेवाकलयतु भवती तावत् ।
येन त्रिःसप्तकृत्वो नृपबहुलवसामांसमस्तिष्कपङ्क-


प्रतिष्ठापयितुम् । संरम्भः उग्रः प्रयासः । कर्णेनोपद्रुतं कीर्त्तिवर्माणं स्वपदे स्थापयि-
तुमेवास्यायं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 30 स्कैन

१२ प्रबोधचन्द्रोदयम्
प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः ।
यस्य स्त्रीबालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ
राजन्योच्चांसकूटक्रथनपटुरटद्धोरधारः कुठारः ॥ ७ ॥
सोऽपि स्ववीर्यादवतार्य भारं भूमेः समुत्खाय कुलं नृपाणाम् ।
प्रशान्तकोपज्वलनस्तपोभिः श्रीमान्मुनिः शाम्यति जामदग्न्यः ॥ ८॥
तथायमपि कृतकर्तव्यः संप्रति परमामुपशमनिष्ठां प्राप्तः ।
बहुलः भूयान्, वसा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 31 स्कैन

प्रथमोऽङ्कः १३
येन च—
विवेकेनेव निर्जित्य कर्णं मोहमिवोर्जितम् ।
श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः ॥ ६ ॥
( नेपथ्ये )
आः पाप शैलूषाधम, कथमस्मासु जीवत्सु स्वामिनो महामोहस्य
विवेककशात्पराजयमुदाहरसि ।
सूत्रधारः—( ससंभ्रमं विलोक्य ) आर्ये, इतस्तावत् ।
उत्तुङ्गपीवरकुचद्वयपीडिताङ्ग-
विवेकेनेवेति० येन भूपगोपालेन ऊर्जितम् बलशालिनम् कर्णं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 32 स्कैन

१४ प्रबोधचन्द्रोदयम्
मालिङ्गितः पुलकितेन भुजेन रत्या ।
श्रीमाञ्जगन्ति मदयन्नयनाभिरामः
कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥ १० ॥
मद्वचनाच्चायमुपजातक्रोध इव लक्ष्यते । तदपसरणमेवास्माकमितः
श्रेयः । ( इति निष्क्रान्तौ )
प्रस्तावना ।
( ततः प्रविशति यथानिर्दिष्टः कामो रतिश्च )
आमृष्टम् अङ्गम् शरीरावयवः यत्र कर्मणि तथा पुलकितेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 33 स्कैन

प्रथमोऽङ्कः १५
कामः—( सक्रोधम् । आः पापेति पुनः पुनः पठित्वा ) ननु रे भरताधम,
प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् ।
निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ ११ ॥
अपि च—
रम्यं हर्म्यतलं नवाः सुनयना गुजद्द्विरेफा लताः
प्रोन्मीलन्नवमल्लिकासुरभयो वाताः सचन्द्राः क्षपाः ।
यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे
इति लक्षणं तस्याः । तस्याश्चात्रावलगिताख्यो भेदः, स च

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 34 स्कैन

१६ प्रबोधचन्द्रोदयम्
तद्भोः कीदृगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ १२ ॥
रतिः—आर्यपुत्र, गुरुः खलु महाराजमहामोहस्य प्रतिपक्षो विवेक
इति तर्कयामि । ( अज्जउत्त, गुरुओ क्खु महाराजमहामोहस्स पडिवक्खो विवेओ
त्ति तक्केमि )
कामः—प्रिये, कुतस्तवैदं स्त्रीस्वभावसुलभं विवेकाद्भयमुत्पन्नम् ।
पश्य—
अपि यदि विशिखाः शरासनं वा कुसुममयं ससुरासुरं तथापि ।
मम जगदखिलं वरोरु नाज्ञामिदमतिलङ्घ्य धृतिं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 35 स्कैन

प्रथमोऽङ्कः १७
तथाहि—
अहल्यायै जारः सुरपतिरभूदात्मतनयां
प्रजानाथोऽयासीद्भजत गुरोरिन्दुरबलाम् ।
इति प्रायः को वा न पदमपथेऽकारयत मया
श्रमो मद्बाणानां क इव भुवनोन्माथविधिषु ॥ १४ ॥
रतिः—आर्यपुत्र, एवं नैतत् । तथापि महासहायसंपन्नः शङ्कितव्यो-
दानवोपेतस्य विश्वस्योपरि स्वामाज्ञां प्रचारयितुं क्षमस्तदस्यां स्थितौ मोहमहाराजस्य
विजयं प्रत्याशङ्का तव नितान्तनिर्र्मूला स्त्रीप्रकृतिमात्रप्रभवेति । अत्र 'विशिखाः'

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 36 स्कैन

१८ प्रबोधचन्द्रोदयम्
ऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते । ( अज्ज-
उत्त, एव्वं णेदं । तहवि महासहाअसंपण्णो संकिदव्वो अरादी । जदो अस्स जमणि-
अमप्पमुहा अमच्चा महाबला सुणीअन्दि )
कामः- प्रिये, यानेतान्राज्ञो विवेकस्य बलवतो यमादीनष्टावमा-
त्यान्पश्यसि त एते नियतमस्माभिरभियुक्तमात्रा द्रागेव विघटिष्यन्ते ।
तथाहि-
अहिंसा कैव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 37 स्कैन

प्रथमोऽङ्कः १५
यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयस्तु निर्विकार-
चित्तैकसाध्यत्वाद्दीषत्करसमुन्मूलना एव । अपि च स्त्रिय एवामीषां कृत्या-
स्तेनैतेऽस्मद्गोचरा एव वर्तन्ते । यतः—
सन्तु विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः ।
स्मरणमपि कामिनीनामलमिह मनसो विकाराय ॥ १६ ॥
यमः कायचेष्टानिरोधः नियमो मनश्चेष्टानिरोधः आसनं धर्माधर्मक्षेपणम् । यद्वा
वेदान्तवाक्यविचारोद्योग आसनम् । अथवा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 38 स्कैन

२० प्रबोधचन्द्रोदयम्
विशेषतश्चैते मदमात्सर्यदम्भोलोभादिभिरस्मत्स्वामिवल्लभैरभियुज्य-
माना नरपतिमन्त्रिणोऽधर्ममेवाश्रयिष्यन्ते ।
रतिः—आर्यपुत्र, श्रुतं मया युष्माकं विवेकशमदमप्रभृतीनां चैकमुत्प-
त्तिस्थानमिति । (अज्जउत्त, सुदं मए तुम्हाणं विवेश्रसमदमप्पहुदीणं च एक्कं
उप्पत्तिट्ठाणं ति )
कामः—आः प्रिये, किमुच्यत एकमुत्पत्तिस्थानमिति । ननु जनक
एवास्माकमभिन्नः । तथाहि—
संभूतः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 39 स्कैन

प्रथमोऽङ्कः २१
तस्य च प्रवृत्तनिवृत्ती द्वे धर्मपत्न्यौ । तयोः प्रवृत्त्यां समुत्पन्नं महा-
मोहप्रधानमेकं कुलम् । निवृत्यां च द्वितीयं विवेकप्रधानमिति ।
रतिः—आर्यपुत्र, यद्येवं तत्किं निमित्तं युष्माकं सोदराणामपि परस्पर-
मेतादृशं वैरम् । (अज्जउत्त, जइ एवं ता किं णिमित्तं तुम्हाणं सोअराणंवि परोप्परं
एआरिसं वैरम् )
कामः—प्रिये,
एकाभिषप्रभवमेन सहोदराणा-
मुज्जृम्भते जगति वैरमिति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 40 स्कैन

२२ प्रबोधचन्द्रोदयम्
तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥ १८ ॥
सर्वमेवैतज्जगदस्माकं पित्रोपार्जितं तच्चास्माभिस्तातवल्लभतया सर्व-
मेवाक्रान्तम् । तेषां तु विरलः प्रचारः । तेनैते पापाः सांप्रतं पितरमस्मां-
श्चोन्मूलयितुमुद्यताः ।
रतिः—शान्तं पापम् । आर्यपुत्र, किं तादृशं पापं विद्वेषणमात्रेण तैरा-
रब्धम् । भवतु । अस्योपायः को वा मन्त्रितः ? ( सन्तं पावं । अज्जउत्त, किं
एरिसं पावं विद्देसणमत्तेण तेहिं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 41 स्कैन

प्रथमोऽङ्कः २३
कामः—प्रिये, अस्त्यत्र किंचिन्निगूढं बीजम् ।
रतिः—आर्यपुत्र, तत्किं नोद्घाट्यते ? (अज्जउत्त, ता किं ण उग्घाडीअदि ?)
कामः—प्रिये, भवती स्त्रीस्वभावाद्वीरुरिति न दारुणकर्म पापीय-
सामुदाह्रियते ।
रतिः—( सभयम् ) आर्यपुत्र, कीदृशं तत् ? ( अज्जउत्त, केरिसं तम् ? )
कामः—प्रिये, न भेतव्यं न भेतव्यम् ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 42 स्कैन

२४ प्रबोधचन्द्रोदयम्
कामः—प्रिये, न भेतव्यं न भेतव्यम् । किंवदन्तीमात्रमेवैतत् ।
रति.—अथ तया राक्षस्या किं कर्तव्यम् । ( अध ताए रक्खसीए
कादव्वम् ।
कामः—प्रिये, अस्ति किलैषा प्राजापत्या सरस्वती—
पुंसः सङ्गसमुज्झितस्य गृहिणी मायेति तेनाप्यसा-
वस्पृष्टापि मनः प्रसूय तनयं लोकानसूत क्रमात् ।
तस्मादेव जनिष्यते पुनरसौ विद्येति कन्या यया
तातस्ते च सहोदराश्च

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें