प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 34, कुल 274 में से
संदर्भ में पढ़ें१६ प्रबोधचन्द्रोदयम्
तद्भोः कीदृगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ १२ ॥
रतिः—आर्यपुत्र, गुरुः खलु महाराजमहामोहस्य प्रतिपक्षो विवेक
इति तर्कयामि । ( अज्जउत्त, गुरुओ क्खु महाराजमहामोहस्स पडिवक्खो विवेओ
त्ति तक्केमि )
कामः—प्रिये, कुतस्तवैदं स्त्रीस्वभावसुलभं विवेकाद्भयमुत्पन्नम् ।
पश्य—
अपि यदि विशिखाः शरासनं वा कुसुममयं ससुरासुरं तथापि ।
मम जगदखिलं वरोरु नाज्ञामिदमतिलङ्घ्य धृतिं मुहूर्तमेति ॥ १३ ॥
कदापि न व्यर्थतांगतानि मे मम कामस्य शस्त्राणि विजयसाधनानि प्रहरणानि यदि
परितः जयन्ति सर्वोत्कर्षेण वर्तन्ते हन्त भोः ! अहह ! तत् तदाऽसौ विवेकविभावः विवे-
कस्य प्रभावः कीदृक् कथंभूतः, प्रबोधोदयः ज्ञानोदयः (च) कीदृक् ? अयमर्थः-उद्दी-
पनसाधनतया प्रसिद्धानि हर्म्ययुवतिजनलताभ्रमरवसुरभिवातचन्द्रातपदीनि मद-
स्त्राणि यदि सन्ति तदा का कथा विवेकविभवस्य का वा कथा प्रबोधोदयस्य, नैकपि
तयोः सेद्धुमर्हति, सर्वविजयिमदीयप्रभावैः सर्वेषामेव कामपरतन्त्रताया अवश्यं-
भावित्वात्तत्पथानुसारणप्रवृत्तौ विवेकविभवप्रबोधोदययोर्दूरापेतत्वादिति । 'हर्म्यादि
धनिनां वासः' इत्यमरः। शार्दूलविक्रीडितं वृत्तम् । लक्षण तस्यान्योक्तम् ॥ १२ ॥
गुरुः—महान् । प्रतिपक्षः = विपक्षः, शत्रुरित्यर्थः । तर्कयामि = ध्यायामि ।
स्त्रीस्वभावसुलभ=नारीजनप्रकृतिलभ्यम् । नार्यो ह्यल्पेनैव कारणेन महाभीति-
मुपेत्य चञ्चला भवन्तीति भावः ।
अपीति० हे वरोरु सुन्दरजङ्गे, यदि अपि यदपि मम विशिखाः बाणाः ( कुसुम-
मयाः ) शरासनम् धनुः वा कुसुममयम् पुष्पस्वरूपम् तथापि ससुरासुरम् देवदानव-
सहितम् इदम् अखिलम् समग्रम् जगत् संसारः मम आज्ञाम् आदेशम् अतिलङ्घ्य
अतिक्रम्य मुहूर्तम् क्षणम् अपि धृतिम् धैर्यम् स्वरूपावस्थानम् न एति प्राप्नोति ।
अयमाशयः— अहमेभिः पौष्पैर्बाणैः कुसुममयेन चानेनैव धनुषा निखिलस्यापि देव-
वर्त्तमान ही है तब विवेकका विभव कैसा ? और प्रबोधका उदय कैसा ॥ १२ ॥
रति—आर्यपुत्र, महाराज मोहका विपक्षीविवेक बड़ा भारी दुश्मन है ऐसा प्रतीत
होता है ।
काम—प्रिये ! क्यों तुझे स्त्रीस्वभावके कारण विवेक का भय हो गया ? देखो—
यद्यपि मेरे बाण और धनुष फूल के ही हैं, फिर भी यह सारा संसार मेरी आज्ञाका
एक क्षण के लिये भी उल्लङ्घन करके नही ठहर सकता है ॥ १३ ॥