प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 36, कुल 274 में से
संदर्भ में पढ़ें१८ प्रबोधचन्द्रोदयम्
ऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते । ( अज्ज-
उत्त, एव्वं णेदं । तहवि महासहाअसंपण्णो संकिदव्वो अरादी । जदो अस्स जमणि-
अमप्पमुहा अमच्चा महाबला सुणीअन्दि )
कामः- प्रिये, यानेतान्राज्ञो विवेकस्य बलवतो यमादीनष्टावमा-
त्यान्पश्यसि त एते नियतमस्माभिरभियुक्तमात्रा द्रागेव विघटिष्यन्ते ।
तथाहि-
अहिंसा कैव कोपस्य ब्रह्मचर्यादयो मम ।
लोभस्य पुरतः केऽमी सत्याऽस्तेयापरिग्रहाः ॥ १५ ॥
विवक्षा । महासहायसम्पन्नः-बलवता सहायकेन युक्तः । अरातिः-शत्रुः, विवेकरूपः ।
यमनियमप्रमुखाः-यमनियमप्रभृतयः । अष्टौ योगोक्ता यमनियमासनप्राणायाम-
प्रत्याहारध्यानधारणासमाधयोऽत्र प्रभृतिपदग्राह्याः । अमात्याः-मन्त्रिणः । महा-
बलाः-समधिकसामर्थ्याः ।
बलवतः-समधिकसामर्थ्ययुक्तान् । पश्यसि-उत्प्रेक्षसे । नियतम्-निश्चयेन ।
अभियुक्तमात्राः-अभियुक्ता एव केवलमाक्रान्ता एव । द्रागेव-झटित्येव । विघटयि-
ष्यन्ते-भेदं प्राप्स्यन्ति ।
अहिंसेति० हिंसा परप्राणवियोजनम् , तदभावो हिंसा सा कोपस्य का क्रोधस्य
पुरः कीदृशी ? न कथमपि अहिंसा कोपस्य पुरोवर्त्तिनी भवितुमर्हत्यर्थः । मम कामस्य
ब्रह्मचर्यादयः के ? नेमेऽपि मम पुरः स्थातु शक्ता इत्याशयः । लोभस्य परद्रव्या-
पहारेच्छारूपस्य पुरतः अग्रे अमी सत्यास्तेयापरिग्रहाः सत्याचौर्यपरिग्रहराहित्या-
नि के कीदृशाः ? विवेकस्य सहायत्वेन यानहिंसाब्रह्मचर्यसत्यापरिग्रहान् यमभेदान्
भवती संभावयति तेष्वहिंसा मद्धर्गीयस्य कोपस्य, ब्रह्मचर्यादयो मम, सत्यास्तेया-
परिग्रहाश्च लोभस्य पुरः स्थातुं न क्षमास्तदेवं महासहायत्वेनाभिमतो विवेको विपरीत
एव जायत इति भावः ॥ १५ ॥
हूँ विवेक के मन्त्री यम नियम आदि बडे बलवान् हैं ।
काम-प्रिये, विवेकके जिन आठ यमादि मन्त्रियोंको तुम बलशाली बता रही हो,
निश्चय जानो, वे सभी हमारे द्वारा आक्रमण होने पर तुरत विघटित हो जायेगे ।
क्योंकि-
कोपके सामने अहिंसा क्या चीज है ? हमारे आगे ब्रह्मचर्य आदि क्या बात ? और
लोभके आगे सत्य, अस्तेय तथा अपरिग्रहकी कौन कथा है ? ॥ १५ ॥