सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 33, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 33

प्रथमोऽङ्कः १५
कामः—( सक्रोधम् । आः पापेति पुनः पुनः पठित्वा ) ननु रे भरताधम,
प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् ।
निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ ११ ॥
अपि च—
रम्यं हर्म्यतलं नवाः सुनयना गुजद्द्विरेफा लताः
प्रोन्मीलन्नवमल्लिकासुरभयो वाताः सचन्द्राः क्षपाः ।
यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे
इति लक्षणं तस्याः । तस्याश्चात्रावलगिताख्यो भेदः, स च सुधीभिः सङ्गमनीय-
लक्षणः । ततः सूत्रधारविनिर्गमानन्तरम् । अत्र यद्यपि मोहामात्यानां मध्ये यस्य
कस्यापि प्रवेशो निबन्धयितुं शक्यस्तथापि कामस्य मनःपुत्रतया प्राधान्येन तत्प्रवेश-
एवोक्त इति बोध्यम् । यथानिर्दिष्टः = पूर्वोक्तावस्थः ।
भरताधम = अतिनीचनट ।
प्रभवतीति० विदुषाम् शास्त्राध्ययनोपार्जितज्ञानानाम् अपि मनसि हृदये शास्त्र-
संभवः शास्त्रोक्तज्ञानजनितः विवेकः सदसन्निर्धारणसामर्थ्यम् तावदेव तदवध्येव
प्रभवति स्वं प्रभावं प्रकटयति यावत् इन्दीवराक्षीणाम् कमलनयनानाम् दृष्टिविशिखाः
नेत्रबाणाः न निपतन्ति तेषामुपरि नापतन्तीति यावत् । अयमाशयः—शास्त्राध्ययना-
सादितज्ञाना अपि विवेकं तावदेव पालयितुं प्रभूभवन्ति यावत्कामिनीभिर्न ह्रियन्ते
जाते तु तद्दृग्गोचरत्वे विवेको भ्रश्यत इति । उक्तञ्चायमेवार्थोऽपरत्र—'सन्मार्गे ताव-
दास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते
तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न
हृदि धृतिमुषो दृष्टिबाणाः पतन्ति' । आर्या वृत्तम् ॥ ११ ॥
रम्यमिति० रम्यम् हृदयहारि हर्म्यतलम् प्रासादपृष्ठम्, नवाः आरूढयौ-
वनाः सुनयनाः सुन्दर्यः, गुञ्जद्द्विरेफाः शब्दायमानभ्रमराः लताः वल्लर्यः, प्रोन्मी-
लन्त्यः नवमल्लिकाः पुष्पप्रभेदास्ताभिः सुरभयः सञ्जातगन्धाः वाताः वायवः, स-
चन्द्राः चन्द्रधवलाः क्षपाः रात्रयः, एतानि प्रागुक्तानि हर्म्यतलप्रभृतीनि अमोघानि
काम—( क्रोधसे 'आः पाप' इत्यादिको दुहराता है ) अरे रे नटाधम,
विद्वानोंके भी हृदयमे शास्त्रोत्पन्न विवेक तभी तक अपना प्रभाव रखते हैं जब तक
कमलनयनाओं के दृष्टिबाण उनके ऊपर नहीं पड़ते है ॥ ११ ॥
और—सुन्दर भवन, नई नवेली सुन्दरियाँ, भ्रमरमुखरित लताएं, नवविकसित
मल्लिकासे सुगन्धित लतायें, चन्द्रकिरणसे उद्भासित रातें, यदि यह हमारे अमोघ अस्त्र