प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 41, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः २३
कामः—प्रिये, अस्त्यत्र किंचिन्निगूढं बीजम् ।
रतिः—आर्यपुत्र, तत्किं नोद्घाट्यते ? (अज्जउत्त, ता किं ण उग्घाडीअदि ?)
कामः—प्रिये, भवती स्त्रीस्वभावाद्वीरुरिति न दारुणकर्म पापीय-
सामुदाह्रियते ।
रतिः—( सभयम् ) आर्यपुत्र, कीदृशं तत् ? ( अज्जउत्त, केरिसं तम् ? )
कामः—प्रिये, न भेतव्यं न भेतव्यम् । हताशानामाशामात्रमेवैतत् ।
अस्ति किलैषा किंवदन्ती । अत्रास्माकं कुले कालरात्रिकल्पा विद्यानाम
राक्षसी समुत्पत्स्यत इति ।
रतिः— ( सभयम् ) हा धिक् हा धिक् । कथमस्माकं कुले राक्षसीति
वेपते मे हृदयम् । (हद्धी हद्धी । कहं अम्हाणं कुले रक्खसीति वेवदि मे हिअअम्)
निगूढम्–प्रच्छन्नम् । बीजम्–अनर्थकारणम् ।
उद्घाट्यते–प्रकाशीक्रियते ।
स्त्रीस्वभावात्–नारीत्वात् । भीरुः–भयशीला । दारुणकर्म–भीषणचेष्टा । पापीय-
साम्–अतिपापाचाराणाम् । पापाचारा हि विवेकादयो भीषणं कर्म चिकीर्षन्ति तेषां
तत्कर्म तव समक्षं न प्रकाश्यते यतस्त्वं स्त्रीत्वान्भीता भविष्यसीति तात्पर्यम् ।
हताशानाम्–निन्द्यानामभाग्यानां वा । आशामात्रम्–केवलो मनोरथः । किंव-
दन्ती–प्रवादः । कालरात्रिकल्पा–प्रलयनिशासमाना । समुत्पत्स्यते–जास्यते । वि-
द्यायाः प्रलयरात्रिकल्पता सर्वमोहपक्चीयसंहारकरत्वेनोक्ता वेद्या । राक्षसी त्वं च
तस्याः स्वरूपतो भयप्रदत्वेन मोहबन्धुभिरास्थीयते ।
वेपते–कम्पते ।
काम—प्रिये, इसमें कुछ रहस्य बात है ।
रति—आर्यपुत्र, फिर आप बताते क्यो नही ?
काम—प्रिये, स्त्रीस्वभावके कारण तुम भीरु हो, अतः उन पापियोंके भयङ्कर कर्म
तुम्हारे सामने नही बताया जाता है ।
रति—( भयसे ) आर्यपुत्र, सो क्या ?
काम—प्रिये, डरो मत, डरो मत ! उन अभागों की यह आशामर है । ऐसी अफवाह
है कि हमारे कुलमे कालरात्रितुल्य विद्या नामकी राक्षसी पैदा होगी ।
रति—( भयसे ) हा धिक् ! हा धिक् ! क्यों हमारे कुलमे राक्षसी !! इस बातसे मेरा
हृदय काँप रहा है ।