प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 32, कुल 274 में से
संदर्भ में पढ़ें१४ प्रबोधचन्द्रोदयम्
मालिङ्गितः पुलकितेन भुजेन रत्या ।
श्रीमाञ्जगन्ति मदयन्नयनाभिरामः
कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥ १० ॥
मद्वचनाच्चायमुपजातक्रोध इव लक्ष्यते । तदपसरणमेवास्माकमितः
श्रेयः । ( इति निष्क्रान्तौ )
प्रस्तावना ।
( ततः प्रविशति यथानिर्दिष्टः कामो रतिश्च )
आमृष्टम् अङ्गम् शरीरावयवः यत्र कर्मणि तथा पुलकितेन सात्त्विकभावोचितरोमा-
ञ्चयुतेन भुजेन बाहुना करणेन रत्या कामदेवस्त्रिया आलिङ्गितः आश्लिष्टः, श्रीमान्
शोभाशाली माहात्म्ययुक्तो वा, जगन्ति लोकान् मदयन् स्वैः प्रखरप्रतापैर्बाणैः
कामातुराणि कुर्वन्, नयनाभिरामः नेत्रोत्सवप्रदः मदघूर्णितनेत्रपद्मः मद्यपानजनितेन
विकारेण तरलदृष्टिकमलः अयम् पुरोवर्त्ती कामः एति आगच्छति । स्वस्त्रिया रत्या
गाढमालिङ्ग्यमानो मदघूर्णितदृष्टिर्जगन्ति मदयंश्च कामोऽयमेतीति भावार्थः । अत्र
कामोऽयमेतीत्येतावतावाक्यसमाप्तौ जातायां पुनः ‘मदघूर्णितनेत्रपद्मः’ इति विशेषण-
दानात्समाप्तपुनरात्तत्वं दोषः । वसन्ततिलकं वृत्तम्, तल्लक्षणं यथा—‘उक्तं वसन्त-
तिलकं तभजा जगौ गः’ इति ॥ १० ॥
मद्वचनात् = मदुक्तेः । उपजातक्रोधः = सञ्जातकोपः । लक्ष्यते = प्रतीयते । अप-
सरणम् = पलायनम् । श्रेयः = हितकरम् । बलवति क्रोधशालिनि सन्निहिते पलाय-
नादन्यन्न शरणमिति तात्पर्यम् ।
निष्क्रान्तौ = निर्यातौ नटीसूत्रधारावित्यर्थः ।
प्रस्तावना—‘नटी विदूषको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥
चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।
आमुखं तत्त विज्ञेयं नाम्ना प्रस्तावनाऽपि सा’ ॥
संसारको मतवाला बना देनेवाला मस्तीमें आँखोंको घुमाता हुआ यह श्रीमान् कामदेव
इधर आ रहा है ॥ १० ॥
हमारी बातोंसे यह रुष्ट सा मालूम पड़ रहा है, इसलिये यहाँ से हम लोगोंका हट
जाना ही श्रेयस्कर है । ( दोनों जाते हैं )
प्रस्तावना
( वर्णितरूपमें काम और रतिका प्रवेश )