सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

Panchasayaka of Kavishekhara Jyotirishvara with Commentary

कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा

DevanagariSanskritpublished109 पृष्ठ

चतुर्थ सायकः ५५
"अथ वरदूषणसमुद्देशः-
(४) "अथ वरस्य दूषणानि वर्णयति-
"पापिष्ठो व्यसनी शृंगारुपहतो द्यूतप्रियो भिक्षुको
रोगी पुंस्त्वविवर्जितश्चलमतिर्वैदेशिकः कातरः ।
गृध्री दृष्टकुलोद्भवश्च कृपणो वृद्धो द्विचर्मा खलः
कर्तव्यो न वरः कदापि पुरुषैरेवंविधो भूतले ॥८॥
इति वरदूषणसमुद्देशः ॥
(५) "अथ विवाहभेदसमुद्देशः ।
अथ विवाहस्य अष्टौ भेदान् गणयति
आर्षो दैवतक प्रजापतिभवो ब्राह्मो द्विजानां मतो
गान्धर्वः सह राक्षसेन कथितः क्षात्रस्य तज्ज्ञैर्धर्मा ।
पैशाचासुरसंज्ञितौ निगदितौ वैश्यस्य शूद्रस्य च
सङ्क्षेपादुपवर्णितं क्रमवशात्पांगशिकं लक्षणम् ॥६॥
"अथ आर्षविवाहलक्षणं निरूपयति-
"विद्यावान् गुणपूजितः शुचिपतिः सद्धंशजातो मुनिः
सौम्यो मानरतः सुशीलविनयो गेहागत प्रार्थितः ।
(१) " वृद्धाडानाशनं गज ' इति पाठान्तरं समानान्तरम् ।
(२) स शास्त्र पुस्तकं पञ्चमेनस्थाने - । यद्यपिदं तथोक्तम् यते-
आंषुर्द्दैवस्तथाऽन्यः मुनिवरैर्ब्रह्मो विवाहो ऽन्यो
श्रद्धा दैवतसम्मनो निगादनो गान्धर्व्वराक्षसौ ॥
अन्यो राक्षसश्च चाण्डाल्वर इति सार्णवश्चापरम्
क्षात्राय यतमांत्रिप कृपणगः प्रोक्तः सदा संमतः ॥ १ ॥
३) ना ऽयं दुष्टग पुस्तकेषु पाठान्तरम् ।

५६ पञ्चसायकः
कन्याया गृहनायक सपुलक स्तस्मै ददात्यादरात्,
आर्षो गोयुगदक्षिणो निगदितस्तज्ज्ञै र्विवाहोवरः॥१०॥
"दैवतविवाहस्वरूपं निरूपयति-
ऋत्विग्भिः परिमण्डिते बहुतिथं यज्ञोत्सवे चोत्तमे
नानावर्णसुवर्णवस्त्रकुसुमैराभूषिताङ्गी शुभा ।
कन्या दक्षिणयाऽद्वित्तीयविधिना यद्दीयते चादराद्
दैवः सोऽयमुदीरितः कविवरैरित्थं विवाहो वरः ॥११॥
"प्राजापत्यविवाहं लक्षयति-
कन्या बान्धवसन्निधौ सुललिता विप्रोत्तमायादराद्
उक्त्वैवा-"तुभ्यमियं मया स्वतनया दत्तेति हर्षान्विता ।
धर्मं सञ्चरतां यथासुखमुभौ सम्पद्य योगं सदा
प्राजापत्यकग्रहः कविवरैरेष प्रमाणीकृतः ॥ १२॥
ब्राह्मविवाहं निरूपयीत-
आहूयार्चनपूर्वकं द्विजवरायाच्छाद्य वासोवरैः
विद्याशीलविवेकवंशविनयाद्यागन्विताय स्वयम् ।
कन्या प्रीतिमते वराय विधिना यद्दीयते सादरं
ब्राह्मोऽसौमुनिपुङ्गवै र्निगदितः श्रेष्ठो विवाहोऽपर ॥१३॥
(१) "बहुविधे" इति ग पुस्तकेऽयं पाठान्तरम् ।
(२) "द्वितीये विधिना" इति घ पुस्तकस्य पाठान्तरम् ।
(३) "सोऽहम्" इति गपुस्तकीयो पाठान्तरं न समीचीनतया ॥

चतुर्थः सायकः ४५
गान्धर्वा॑दिविवाहत्रयं निरूपयति-
कन्या यौवनकामिनी पतिममुं या स्वीकरोति स्वयं
गान्धर्वः स हि कथ्यते, भुजबलादाकृष्यते यत्पुनः ।
ज्ञेयो राक्षस एष पण्डितवरै , चौर्याद्विवाहोऽपरः
पैशाचः कविशेखरेण कथितस्त्याज्य मदा यत्नतः ॥ १४॥
आसुरविवाहं निरूपयति-
आदायप्रथमं वराद्बहुतरंशुल्कं यथाकाङ्क्षया
वस्त्रालंकृतिवैभवेन तनयामन्तोपमुत्पाद्यच ।
पश्चाद्दृप्तकुलसम्भवाय मलिनं कन्याप्रदानं वृथा
प्रख्यातो निजवंशजापगणयम्तज्ज्ञैरभावासुरः ॥ १५ ॥
इति विवाहलक्षणसमुद्देशः-
(६) “अथ परदारत्यागसमुद्देशः-
परदारग्रहणे दूषणानि वर्णयति-
अश्रद्धामुपहास्यतां मलिनतामर्थक्षयं लाघवं
महां ग्लानिमधोगतिं विकलतामायु क्षतिं दुर्गतिम् ।
इत्थं ये परदारकर्मणिरताः लोकत्रये निन्दिता
विन्दन्ते परमापद मुखधिया दृप्तं नरस्तेमदा ॥ १६ ॥
उदाहरति-
पौलस्त्यः सुरदैत्यमर्त्यमुकुटव्याघृष्टपादाम्बुजो
मैथिल्याहरणादवाप मरणं वालिश्चताराज्यतः ।
(१) एतचिह्नं यत्पुस्तके न दृश्यते ।

४८ पञ्चमसायक
पाञ्चालींप्रतिकाङ्क्षितेन निभृतं भीमान्मृतः कीचकः
तस्मादन्यवधूर्नरैर्न मनसाप्यालापनीया भुवि ॥ १७ ॥
इति पारदारिकसमुद्देशः—
[७] “अथ दूतीसमुद्देशः—
“दशकामदशाः—
चक्षु प्रीतिरुदीरिता प्रथमत्तश्चित्तस्थिति स्यात्ततः
सङ्कल्पस्तदनन्तरं निगदितो निद्राविनाशस्तथा ।
वैराग्यं विषयम्यकीर्तनमतो व्रीडानिवृत्तिस्ततो
ऽत्युन्मादोमरणं दशप्रकटिताः कन्दर्पचेष्टा इति ॥ १८ ॥
परदारगमने समयं निरूपयति—
कामिन्या नवयौनेन, मिलति स्वेच्छाविहारो नृणा
मुन्मादोमरणं तदामनमिजव्यामोइतो जायते ।
तस्मात्तद्विनिवारणाय पुरुषैरन्याङ्गना चात्मभि
र्द्रष्टव्येति वदन्ति काश्यपमरुच्छेमेन्द्रवात्स्यायना ॥ १६ ॥
अथ पूर्वश्लोकवर्णितस्वेच्छाविहारादीनुदाहरति—
तारापीडसुतो विनाशमगमत्कादम्बरीकाङ्क्षया
व्यामुक्तः किलपुण्डरीकमुनिरप्युग्रैर्महाश्वेतया ।
उर्वश्या च पुरूरवानरपति सन्त्याजितोजीवितं
तस्माद् गर्हितजीवितं बहुविधंसन्त्याजितं राजभिः ॥ २० ॥
(१) षष्ठस्तरे इत्ययमुद्देशं प्रारम्भकपदत्रयं नोपलभ्यते ॥

चतुर्थ सायक ५१
अथ दौत्यकर्मोचिताः स्त्रियोनिरूपयति=
दासीवाग्वधूर्नटी च विधवा बाला च धात्रीतथा
कन्या प्रव्रजिता च भिक्षुवनिता सम्बन्धिनी शिल्पिनी ।
मालाकारनितम्बिनी प्रतिसखी दौत्ये स्मृता योषितः
आलाप्याः कविभिः सदैवमदनव्यापारलीलाविधौ ॥२१॥
इति दूतीसमुद्देशः ॥
[८] अथ सुखसाध्यासमुद्देशः —
“प्रौढा कान्तविमानिता बहुगुणा रम्याऽनपत्या तथा
रण्डा स्वैरपरा स्वतन्त्रगमना शिल्पा प्रिया गायिनी ।
षण्डोन्मत्तदरिद्रसेवकवधू रोगातसम्पीड़िता
नूनं सिद्ध्यति दूतिका निगदिता गम्याभिमागोत्सवे ॥ २२॥
इति सुखसाध्यासमुद्देशः ॥
[६] अथ कष्टसाध्यासमुद्देशः-
एका वल्लभरांचता परजनालापे विरक्ता दृढा '
निस्नेहा गुरुयौवना गुरु

६० पञ्चमाश्रये
[१०] अथ त्याज्यस्त्रीसमुद्देशः ।
त्याज्याः स्त्रियो गणयति--
अघ्राता द्विजवल्लभा गुरुवधूर्मित्राङ्गना गोगिणी
चेटी प्रव्रजिता मती रिपुवधूः शिष्या च गर्भािन्विता ।
अलक्ष्मी मृतसन्ततिः खलजना चास्पृश्यजा गोत्रजा
गन्तव्या न कदापि तत्र पुरुषैरेताः स्त्रियः कामिभिः ॥ २४ ॥
इति त्याज्यस्त्रीसमुद्देशः ॥
(११) अथ सुरतस्थानसमुद्देशः--
अथ त्याज्यस्थानानि निरूपयति
नद्यां देवगृहे चतुष्पथवटे शैलस्य मार्गे जले
गुर्वग्निद्विजसंनिधौ परगृहे दुर्गे श्मशाने वने ।
सन्ध्यायां दिवसे कदापि सुरतं पुम्भि विरेकाञ्जलिं
दृष्ट्वाऽनेन विरोधमङ्कटमिति त्याज्यं सदा यत्नतः ॥ २५ ॥
अथ सुरतोचितानि स्थानानि वर्णयति
स्फूर्जद्दी पशिखोज्ज्वले सुललिते रम्योन्नते सुस्तरे
धूपोद्गारमनोहरे सुकुसुमस्त्रग्दामशोभान्विते ।
वीणातालरवाकुले मनसिजश्रम्तावनानन्दिते
सम्भोगः कुशलैः स्वकीयभवने कार्यो यथाकाङ्क्षया ॥ २६ ॥
इति सुरतस्थानसमुद्देशः ॥
(१) 'योगिनी' इति पाठान्तरम् । (-) गमनानिषेधकारणञ्च भूमिकायां व्यञ्जि-
तनानां तत्रैव द्रष्टव्यम् ।
(३) घ संज्ञक पुस्तके समुद्देशोऽयं नोपलभ्यते ।
(४) मार्त्ताण्डोऽयशब्दस्तेन तदागमनात्षोडशार्थः सङ्गच्छत । "नल" इत्यत्र तु
जलमध्यगमनावगोऽर्थः करणीयः ।

चतुर्थ सायक. ६६
(१२) "अथ अभिलापसमुद्देशः--
अभिलापव्यञ्जकानि चेष्टितानि निरूपयति
उक्तं गच्छति लज्जिता विरमति प्रेम्णा मनागीक्षते
केशानाञ्च विजृम्भणं रचयति प्रस्तौति गाथां मुहुः ।
आलिङ्गत्यपगं विर्गति फलं चुम्बत्यमों बालकं
गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥२७॥
इति अभिलापसमुद्देशः ॥
(१३) "अथ आलिङ्गनसमुद्देशः--
रमणीरागोद्रेकजननाय आलिङ्गनानि निरूपयति-
माल्यापूरितकुन्तलः सुवचनः स्निग्धाङ्गरागोज्ज्वलो
नानाभूषणसुन्दरः स्मर्गमस्ताम्बूलपूर्णाननः ।
स्फूर्जद्दीपमनोज्ञवासभवने शय्यातले नायको
रागाथं परिरम्भणं प्रथमतः कुर्यान्नमं योषिता ॥२८॥
अथ आलिङ्गनभेदान् निरूपयति-
"वृक्षारूढकमञ्जकं प्रथमतश्चम्माल्लतावेष्टितं
तस्माज्जाघनविद्धकायपि मतावृरूपगूढं पुनः ।
ज्ञातव्यं तिलतण्डुलं स्मरविदामारिङ्गनं योषितां
क्षीरं नीरपुरःसरं निगदितं तस्माच्च लालाटिकम् ॥ २६ ॥
अथ वृक्षाधिरूढाख्यमालिङ्गनंलक्षयति-
एकेन पादेन पदं स्वभर्तु-
रन्येन चाक्रम्य तदूरुभागम् ।
आपीङ्य दोर्भ्यामपि कान्तपृष्ठं
वृक्षाधिरूढं प्रवदन्ति तज्ज्ञाः ॥ ३० ॥
(१) "गुहा गच्छति" इति च पुस्तकान्तरे पाठान्तरम् ।

६८ पञ्चमाध्यायः
अथ लतावेष्टितकमालिङ्गनं वर्णयति=
ऊर्ध्वं भुजाभ्यां मग्लाङ्गयष्टी-
क्षोणीरुहं वल्लिरिवाऽधिरुह्य ।
नारी प्रियं चुम्बति निस्तरङ्गा
भवेल्लतावेष्टितमङ्गकं तत् ॥ ३१ ॥
अथ जाघनमालिङ्गनं वर्णयति=
श्रोणीतटे बाहुयुगेन कान्त-
मापीड्य मुक्ताम्बरकेशभाग ।
वक्त्रामृतं स्वादयति प्रहृष्टा
तज्ज्ञैः स्फुटं जाघनमॆतदेव ॥ ३२ ॥
अथ विद्धकाख्यमालिङ्गनं लक्षयति=
स्थितोपविष्टं पुरुषं पुरन्ध्री
सम्मीलिताक्षं स्वकराग्रबन्धात् ।
आविध्यति प्रेमलतत्कुचाभ्या-
मालिङ्गनं विद्धकमंतदाहुः ॥ ३३ ॥
अथ ऊरुपगूढमालिङ्गनं लक्षयति—
कान्तो मनोज व्यथिताङ्गयष्ट्यां-
आपीडयेदुरुयुगं युवत्या ।
ऊरूपघातेन कविप्रवीरै-
रूरूपगूढं तदिदं प्रदिष्टम् ॥ ३४ ॥
(१) “विद्धार्कमालिङ्गनमेतदाहुः ” इत्यन्वयदलवाक्यमिदं पाठान्तरमसमाधानं,
। तथा व्याख्याताभिप्रायस्य पूर्वमनन्वयदोषानुपलभ्यमानत्वात् इति ग्रन्थोक्त विद्धकलक्ष-
णासादृश्यात् समग्रवपुर्मन्त्रणपाठावरोधाच्च । रतिरहस्यस्य विद्धकलक्षणसादृश्यं यथा—
“दृढ श्लक्ष्णालिङ्गन वनिता चेत्तिष्ठतोपविष्टं पुरुषं स्तनाभ्याम् ।
• निपीड्येदं प्रियं तां गाढं गृहा

चतुर्थः सायकः ६३
अथ तिलतण्डुलाख्यमालिङ्गनं निरूपयति-
“यद्बाहु-वक्षो-जघनेन गाढ-
मन्योन्य-संलग्न-शरीर-यष्ट्योः ।
कान्तस्य गाढं समुदाहृतोऽय-
मालिङ्गनं तत्तिलतण्डुलाख्यम् ॥ ३५ ॥
अथ क्षीरनीराख्यमालिङ्गनं वर्णयति=
गात्रो-पविष्टाऽथ तल्पमध्ये
संलीयते तन्मिथुनं शरीरे-
कामाभिमानात् कृतपूर्णचेष्ट-
मालिङ्गनं क्षीरजलं प्रदिष्टम् ॥ ३६ ॥
अथ लालाटिकमालिङ्गनं निरूपयति=
अन्योन्य-संलग्न-मुखं च बाहू
नेत्रं ललाटं हृदयं कपोलम् ।
आनन्द-भाव-श्रम-मीलिताक्षं
लालाटिकं तत्त्वविदो वदन्ति ॥ ३७ ॥
इत्यालिङ्गनसमुद्देशः ॥
अथ चुम्बनसमुद्देशः=
[३४] अथ चुम्बनस्थानानि गणयति=
गण्डस्थली मस्तक-दन्तवासो-
ग्रीवा-कुचोरः स्तनचूचुकानि ।
आलिङ्गनानन्तरमेव यूनोः-
स्थानानि चुम्बस्य वदन्ति सन्तः ॥ ३८ ॥
(१) 'तन्मिथुन'' इति समीचीनतरं प्रतिभाति ।
(२) "स्थल" इति षष्ठपुस्तके पाठान्तरम्
(३) "लज्जा " इति षष्ठपुस्तके दृश्यते ॥

६४ पञ्चमसायके
देशसात्म्येन अन्यानि चुम्बनस्थानानि निर्दिशति—
कक्षायुगं वापि नितम्बिनीनां
कन्दर्प-राग-स्फुरण-प्रवीराः ।
चुम्बन्ति कामं तरलायताक्ष्या-
देशस्य सात्म्येन सदैव लाटाः ॥ ३९ ॥
अथ निमिताख्यं चुम्बनं लक्षयति—
कान्तोऽङ्गनाया वदने स्वकीय-
माक्षिप्य वक्त्रं कुतुकेन यत्र ।
न चुम्बति क्रोधवशेन नारी
स्याच्चुम्बनं तन्निमिताभिधानम् ॥ ४० ॥
अथ स्फुरिताख्यं चुम्बनं निरूपयति—
पत्युर्मुखे तु स्वमुखं निवेश्य
प्रेम्णा मनागञ्चति दन्तवेष्टम् ।
उर्ध्वेन गृह्णात्यपि कम्पितोष्ठी
प्रोक्तं मुनीन्द्रैः स्फुरितं विनोदात् ॥ ४१ ॥
अथ घृष्टाभिधानं चुम्बनं दर्शयति—
[L

चतुर्थ सायक ६५
अथ पीडिताख्यं चुम्बनं निर्दिशति-
हस्ताङ्गुली सम्पुटकेन यत्र
कान्तोष्ठमादाय रमज्ञया च ।
आस्वादयेन्निर्दशनं विनोदात्
स्याच्चुम्बनं पीडितमेतदेव ॥ ४३ ॥
अथ सम्पुटाख्यं चुम्बनं लक्षयति-
कान्तामुखं स्वाधरसम्पुटेन
पीत्वा मुहुः स्वादयति क्रमेण ।
नारी च तेनैव विधानकेन
ज्ञेयं मुनीन्द्रैरिति सम्पुटाख्यम् ॥ ४४ ॥
अथ समौष्ठसंज्ञकं चुम्बनं लक्षयति-
ओष्ठेन कान्तोष्ठयुगं निपीय
जिह्वां निधायाऽप्यथ तालुभागे ।
चुम्बोत्सवे नृत्यति यत्र नारी
प्रोक्तं समौष्ठं मुनिभिः पुराणैः ॥ ४५ ॥
इति चुम्बनसमुद्देशः ॥
(१५) अथ नखघात समुद्देशः-
अथ नख

६६ पञ्चमसायके
साङ्गुष्ठसर्वाङ्गुलिकैश्च सर्वैः
सेव्यः मंदैव स्तनकन्धरादौ ॥ ४६ ॥
अथ छुरिताख्यंनखक्षतं निरूपयति—
मस्थापनं मन्मथ-राग-राशे-
रुक्तं मुनीन्द्रैश्छुरिताभिधानम् ।
वक्षोजकन्दर्पगृहाधरेषु
देयं नवोढा प्रमदाजनानाम् ॥ ४७ ॥
अथ अर्द्धेन्दुसंज्ञं नखक्षतं निरूपयति—
कण्डूयनेनैव शिरोरुहाणां
मस्योपयोगं परिकीर्तयन्ति ।
अर्द्धेन्दुसङ्काशमिदं नखज्ञै
र्द्धेन्दुसंज्ञः कथितः समासात् ॥ ४८ ॥
अथ मण्डलाख्यंनखक्षतं वर्णयति—
कक्षानितम्ब-स्तन-पार्श्वकेषु
दातव्यमेतत् करजं सदैव ।
अर्द्धेन्दुसंज्ञद्वितयं प्रयुक्तं
स्यान्म

चतुर्थःसायकः ६५
सीमन्तपार्श्वे हृदि चूचुकादौ
शश्वन्न प्रयोज्यं सुरतप्रयोगे ।
अथ मयूरपादं निरूपयति
सर्व्वाङ्गुलिक्लृप्तनखैः स्तनान्तः
पश्चात्तथाङ्गुष्ठभवेन रेखा ।' ५१ ॥
व्यक्तीकृता या मुनयस्तदेत-
न्मयूरपादं समुदीरयन्ति ।
अथ पङ्कजपत्रसंज्ञं नखक्षतं निरूपयति
आलम्बमेवं स्फुटितार्द्धरेखं
प्राहुः क्षतं पङ्कजपत्रसंज्ञम् ॥ ५२ ॥
अथ दर्दुरकं निरूपयति
रेखा-युगं चोज्ज्वल-काम-भावः
स्तने च कक्षा-जघनान्तरेषु ।
विश्लेष देशान्तरगे च नारी-
संमार्गतं दर्दुरकं वदन्ति ॥ ५३ ॥
नखक्षतानां कामावेशजनकत्वमुपपादयति—
पुंसः शरीरे युवतीकुचे वा
क्षतं नखस्य प्रतिवीक्ष्य सद्यः ।
कन्दर्पवेगाकुलचित्तवृत्ति -
मुनेरपि स्यात् किमुचित्रमन्यम् ॥ ५४ ॥
करजक्षतानां कामसर्वस्वस्वरूपत्वं निरूपयति—
सर्वस्वमेवास्ति मनोभवस्य
प्रेम्णा प्रयुक्तं करजं रतज्ञैः ।

६८ पञ्चसायके
नाऽस्माद् द्वितीये भुवि रागबीज
मित्याह शीतांशुकलापकेतुः ॥ ५५ ॥
इति नखाघातसमुद्देशः ॥
अथ दशनघातसमुद्देशः—
दन्तप्रकाराश्च नखप्रकारै
र्ज्ञेयाः समा एव ममैष सद्भिः ।
शीत्कारहुङ्कारविचेष्टिताद्यैः
प्रायो विशेषाः पुनरेष कार्याः ॥ ५६ ॥
अथ दशनाघातस्थानानि निरूपयति—
तथा नखास्तीग्रमुखाः समाङ्गा
गगस्पृशो निर्मलदीप्तिभाजः ।
दन्ता प्रदेया नखदानदेशे
वक्त्रान्तगच्छिद्वितयं विहाय ॥ ५७ ॥
इति दशनाघातसमुद्देशः ॥
अथ केशाकर्षण समुद्देशः
केशाः कीदृशाः भवेयुरिति दर्शयति
"भव्या घना रोच्यविवर्जिता च श्यामा विशाला बहुलाः कचाः स्युः।
चुम्बप्रदानावसरे प्रयोज्या गगोदयार्थ तरुणीजनानाम् ॥१७॥
इति केशकर्षणसमुद्देशः ॥
इति कविशेखर ज्योतिरीश्वरविरचिते पञ्चसायके चतुर्थः सायकः ।
(१) "मनुस्त्वं पत्रमिदं पठने '
सम्बेष्ट्य सर्वाङ्गुलिभिः कचाग्रं यस्याः पतिर्धारयति स्वगताम् ।
भुजङ्गवल्ली परिकीर्तितेयं रतोत्सवे केशकलापविधिः ॥१५॥॥

५८ पञ्चमसायके
[२] अथ उत्तानबन्धसमुद्देशः ।
अथ "तत्तद्वन्धाश्रयेणेग कारणं" निरूपयति-
"प्रसारितोरु-द्वय-मध्ययोगा-
द्गाढापि नारी श्लथतामुपैति ।
संलमजानुद्वयबन्धयुक्ता
श्लथापि सङ्कोचमलं प्रयाति ॥५॥
बन्धविधाने ज्ञातव्यविषयं दर्शयति-
"तस्या युवत्याः प्रकृतिञ्च सत्वं
देशञ्च भावं मदनातपत्रम् ।
आलोक्य बन्धा परिकल्पनीया
सम्भोग-काले पुरुषैरनङ्गैः ॥ ६ ॥
उत्तानबन्धविधिं निरूपयति-
उत्तानसुप्ता प्रमदोरुमध्ये
स्थितः पति कामयतेऽप्रकामम् ।
तयोर्द्वयोः प्रीतिकर प्रदिष्टो
बन्धोनगणामतिदुर्लभोऽयम् ॥ ७ ॥
(१) 'युवत्याः' इति मुद्रितपाठ पाठान्तरम् । तच्चाऽसमीचीनम् ॥
(२) 'शस्त्रं' इति पाठान्तरम् ।
(३) नागण्डोऽयम्' इति पाठान्तरम् ।

५६ पञ्चमसायकः
पद्भ्यांस्थितो हस्तयुगञ्च भूमौ
त्रैविक्रमः स्यादिति निम्बराजः ॥ ११ ॥
"अथ चाटुकफेलुकाख्यं बन्धनिरूपयति-
"नितम्बबिम्बं किल नायकेन
नार्यास्त्रिकं हस्तयुगेनधृत्वा ।
गुल्फौनिधाय स्थित एव तस्या-
बन्धोऽप्यसौ चाटुकफेलुकः स्यात् ॥ १२ ॥
अथ अवदारिताख्यं बन्धं निरूपयति-
कान्तस्यवक्षः स्थलगा च पादा
वालिङ्ग्य गाढं प्रमदा कराभ्याम् ।
किञ्चिन्नतोरुद्वययोगकश्च
ज्ञेयो बुधैरित्यवदारितोऽयम् ॥ १३ ॥
इत्युत्तानबन्धसमुद्देश
"अथ पार्श्वबन्धसमुद्देशः—
उपवीतकाख्यं बन्धं दर्शयति
एकं युवत्या हृदयं स्वपादौ
तथार्पितं तत्परगतं तदन्यम् ।
प्रौढाङ्गना वल्लभ एषबन्धः
ख्यात पृथिव्यामुपवीतकाख्य ॥ १४ ॥


  • (१) "चाटुक फेल्ल" इति गपुस्तकीय पाठान्तरम् ।

)
दि (di)
सं (saṃ)
ज्ञै (jñai)
रु (ru)
प (pa)
पा (pā)
द (da)
नी (nī)
याः (yāḥ) or यां (yāṃ)
It is struck through!
In markdown, strikethrough is written as ~~text~~.
Wait, should we write ~~इत्यादिसंज्ञैरुपपादनीयाः~~ or इत्यादिसंज्ञैरुपपादनीयाः?
Writing ~~इत्यादिसंज्ञैरुपपादनीयाः~~ accurately reflects that it is struck through in the text!

Wait, let's verify line 15:
“दन्तावल-च्छाग-तुरङ्गमाणां
Line 16:
क्रीडाप्रकारैश्च भवन्ति बन्धाः।
Line 17:
~~इत्यादिसंज्ञैरुपपादनीयाः~~ (or ~~इत्यादिसंज्ञैरुपपादनीयां~~)
Line 18:
नोदाहृता विस्तरभीतितेस्ते ॥ २० ॥
Notice the meter!
It's an Anushtubh or Upajati?
Line 15: दन्तावलच्छागतुरङ्गमाणां (11 syllables? दन्-ता-व-ल-च्छा-ग-तु-रङ्-ग-

७६ पञ्चसायके
इत्यादिकं भूरिविधं रटन्ती
प्रायः सुखं विन्दति केलिरङ्गे ॥ २४ ॥
विपरीतरतावयोग्यां स्त्रियं दर्शयति—
अल्पप्रयुक्ता ऋतुयोगयुक्ता
गर्भालसा स्थूलतनुर्नताङ्गी ।
क्षीणा नवोढा ज्वरिता च नारी
वर्ज्यारतिज्ञैर्विपरीतबन्धे ॥ २५ ॥
इति पुरुषायितसमुद्देशः ॥
[८] अथ सीत्कृतादिसमुद्देशः—
अथ सीत्कृतं लक्षयति—
“द्रवतियदि न नारी प्रौढरागाभियुक्ता
मृदुनिधुवनयोगे दन्तसन्धौ समीरम् ।
(१) “अ”वाप्रसूता इति कपुस्तकस्य पाठान्तरम् ॥
(•) घगञ पुस्तके सीत्कृतादि समुद्देशादौ पाठान्तरमिदमधिकमुपलभ्यते—
अथ क्षतादिसमुद्देश
'वामस्वभावान्मदनस्य रागा हस्तप्रहाराद्रतिमभ्युपैति ।
तस्माद्यथास्थानमसौ। विधेयोवराङ्गनाना सुरतोपदेशे ॥ १ ॥
सव्येऽङ्गनायास्तनहृदि प्रहार मुष्ट्या भजन्त्या सुरतोपचारं ।
सन्ताडितं नाम वदन्ति तज्ज्ञा विस्तीर्णहस्तेन तदा पताकम् ॥ २ ॥
साङ्गुष्ठमध्याङ्गुलत्सम्प्रहारात् सञ्चायते कुण्डलनामधेयं ।
• य केचनाङ्गुष्ठनवोऽभियानं प्रोक्तं त्विदं त्वं न तु विन्दुमान ॥ ३ ॥

पञ्चम सायक ५५
विरति दशनवासः शिथिलन्मूलबन्धः
कथितानन्द गन्तं मण्डितं गण्डयोश्च ॥ २६ ॥
अथ स्तनितबन्धं निरूपयति-
चिर निशि-स्तनरंगं क्रीडयाविष्टचेताः
स्तनितमनुकरोति व्यञ्जना यत्र वामा ।
सुदृढगलपिधाने कारयीता वदन्ति
स्तनितमिति समानं चिरसम्भोगकाले ॥ २७ ॥
एवम्विधकरणस्य फलन्निरूपयति ।
इत्यादिमार्गः पृथुकामनारं
गन्धर्व्वनाथं पुरुषोऽभिरेमे ।
वात्यानुपूर्व्या रहसि प्रकारं
मार्ग्यं समास्वादयतो विशिष्यम् ॥ २८ ॥
इति मोहनादि सम्पूर्णाः ॥
( इति पञ्चमः सायकः )
इति श्रीकविशेखरज्योतिरीश्वरविरचिते पञ्चसायके पञ्चमः सायकः ॥
समाप्तश्चायं ग्रन्थः ॥
(१) गपुस्तकेऽपि दृश्य

७८ पञ्चमायके
[६] “अष्टनायिकासमुद्देशः-
अथ स्वाधीनपतिकायाः स्वरूपंनिरूपयति-
“यस्याः पतिर्लिखति केलिकथानुरक्तः
पार्श्वं न मुञ्चति मनोभववेगयुक्तः ।
स्यात्सुन्दरी सकलसौख्यकलानिधाना
स्वाधीनपूर्वकपतिकेति वदन्ति तज्ज्ञाः २९ ॥
अथ उत्कण्ठितायाः स्वरूपं निरूपयति=
पुष्पाङ्गराग-रुचिरा तरुणी प्रियस्य
तिष्ठत्यनागमनहेतु-विचारलोला ।
एषाऽबला न हि चिरं परिदेवनीया
सोत्कण्ठितेति कथिता कविभिः पुराणैः ॥ ३० ॥
“अथ वासकसज्जितायाः स्वरूपं निरूपयति=
स्रक्चन्दनाम्बरविभूषणभूषिताङ्गी
या वल्लभागमन-मार्ग-निरूढ-दृष्टिः ।
तल्पंगता रुचिरवासगृहेऽवशेते
सा कीर्तिता जगतिवासकसज्जितेति ॥ ३१ ॥
अथ कलहान्तरितायाः स्वरूपंवर्णयति=
क्रोधान्नयत्यातिचरणे पतितोऽपि कान्तः
प्रायःप्रचण्डवचनाक्षरैर्निरस्तः ।

  • (१) समुद्देशोऽयं गपुस्तके पञ्चमसायकसमाप्तौ दृश्यते इति प्रागेव परि-
    शिष्ट [निर्णीतम् ।